अध्यायः 043

अथ दानधर्मपर्व ॥ 1 ॥

बदरीनारायणेन गरुडंप्रति स्वमहिमोक्तिः ॥ 1 ॥ गरुडेन मुनिगणान्प्रति स्वानुभूतनारायणमहिमोक्तिः ॥ 2 ॥

`भगवानुवाच ।

मां न देवा न गन्धर्वा नासुरा न व राक्षसाः ।
विदुस्तत्वेन सत्वस्थं सूक्ष्मात्मानमवस्थितम् ॥
चतुर्धाऽहं विभक्तात्मा लोकानां हितकाम्यया ।
भूतभव्यभविष्यादिरनादिर्विश्वकृत्तमः ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
मनो बुद्धिश्च चेतश्च तमः सत्वं रजस्तथा ॥
प्रकृतिर्विकृतिश्चैव विद्याविद्ये शुभाशुभे ।
मत्त एतानि जायन्ते नाहमेभ्यः कथञ्चन ॥
यत्किंचिच्छ्रेयसा युक्तं श्रेयस्करमनुत्तमम् ।
धर्मयुक्तं च पुण्यं च सोऽहमस्मि निरामयः ॥
यत्स्वभावात्मतत्वज्ञैः कारणैरुपलक्ष्यते ।
अनादिमध्यनिधनः सोन्तरात्माऽस्मि शाश्वतः ॥
यत्तु मे परमं गुह्यं रूपं सूक्ष्मार्थदर्शिभिः ।
गृह्यते सूक्ष्मभावज्ञैः सोऽविभाव्योस्मि शाश्वतः ॥
तत्तु मे परमं गुह्यं येन व्याप्तमिदं जगत् ।
सोहङ्गतः सर्वसत्वः सर्वस्य प्रभवोऽव्ययः ॥
मत्तो जायन्ति भूतानि मया धार्यन्त्यहर्निशम् ।
मय्येव विलयं यान्ति प्रलये पन्नगाशन ॥
यो मां यथा वेदयति तथा तस्यास्मि काश्यप ।
मनोबुद्धिगतः श्रेयो विदधामि विहङ्गम ॥
मां तु ज्ञातुं कृता बुद्धिर्भवता पक्षिसत्तम ।
शृणु योऽहं यतश्चाहं यदर्थश्चाहमुद्यतः ॥
ये केचिन्नियतात्मानस्त्रेताग्निपरमार्चिताः ।
अग्निकार्यपरा नित्यं जपहोमपरायणाः ॥
आत्मन्यग्नीन्समाधाय नियता नियतेन्द्रियाः ।
अनन्यमनसस्ते मां सर्वे वै समुपासते ॥
यजन्तो जपयज्ञैर्मां मानसैश्च सुसंयताः ।
अग्नीनभ्युद्ययुः शश्वदग्निष्वेवाभिसंश्रिताः ॥
अनन्यकार्याः शुचयो नित्यमग्निपरायणाः ।
य एवंबुद्ध्यो धीरास्ते मां गच्छन्ति तादृशाः ॥
अकामहतसङ्कल्पा ज्ञाने नित्यं समाहिताः ।
आत्मन्यग्निं समाधाय निराहारा निराशिषः ॥
विषयेषु निरारम्भा विमुक्ता ज्ञानचक्षुषः ।
अनन्यमनसो धीराः स्वभावनियमान्विताः ॥
यत्तद्वियति दृष्टं तत्सरः पद्मोत्पलायुतम् ।
तत्राग्नयः सन्निहिता दीप्यन्ते स्म निरिन्धनाः ॥
ज्ञानामलाशयास्तस्मिन्ये च चन्द्रांशुनिर्मलाः । उपासीना गृणन्तोऽग्निमस्पष्टाक्षरभाषिणः ।
आकाङ्क्षमाणाः शुचयस्तेष्वग्रिषु विहङ्गम ॥
ये मया भावितात्मानो मय्येवाभिरताः सदा ।
उपासते च मामेव ज्योतिर्भूता निरामयाः ॥
तैर्हि तत्रैव वस्तव्यं नीरागादिभिरच्युतैः ।
निराहारा ह्यनिष्पन्दाश्चन्द्रांशुसदृशप्रभाः ॥
निर्मला निरहङ्कारा निरालम्बा निराशिषः ।
मद्भक्ताः सततं तेवै भक्तांस्तानपि चाप्यहम् ॥
चतुर्धाऽहं विभक्तात्मा चरामि जगतो हितः ।
लोकानां धारणार्थाय विधानं विदधामि च ॥
यथावत्तदशेषेण श्रोतुमर्हति मे भवान् ॥
एका मूर्तिर्निर्गुणाख्या योगं परममास्थिता ।
द्वितीया सृजते तात भूतग्रामं चराचरम् ॥
सृष्टं संहरते चैका जगत्स्थावरजङ्गमम् । ज्ञातात्मनिष्ठा क्षपयन्मोहयन्तीव मायया ।
क्षपयन्ती मोहयति आत्मनिष्ठा स्वमायया ॥
चतुर्थी मे महामूर्तिर्जगद्वृद्धिं ददाति सा ।
रक्षते चापि नियता सोहमस्मि नभश्वरः ॥
मया सर्वमिदं व्याप्तं मयि सर्वं प्रतिष्ठितम् ।
अहं सर्वजगद्बीजं सर्वत्रगतिरव्ययः ॥
यानि तान्यग्निहोत्राणि ये च चन्द्रांशुराशयः ।
गृणन्ति वेदं सततं तेष्वग्निषु विहङ्गम ॥
क्रमेण मां समायान्ति सुखिनो ज्ञानसंयुताः । तेषामहं तपो दीप्तं तेजः सम्यक्समाहितम् ।
नित्यं ते मयि वर्तन्ते तेषु चाहमतन्द्रितः ॥
सर्वतो मुक्तसङ्गेन मय्यनन्यसमाधिना ।
शक्यः समासादयितुमहं वै ज्ञानचक्षुषा ॥
मां स्थूलदर्शनं विद्धि जगतः कार्यकारणम् ।
मत्तश्च सम्प्रसूतान्वै विद्धि लोकान्सदैवतान् ॥
मया चापि चतुर्धात्मा विभक्तः प्राणिषु स्यिथः ।
आत्मभूतो वासुदेवो ह्यनिरुद्धो मतौ स्यितः ॥
सङ्कर्षणोऽहङ्कारे च प्रद्युम्नो मनसि स्यितः ।
अन्यथा च चतुर्दा यत्सम्यक्त्वं श्रोतुमर्हसि ॥
यत्तत्पद्ममभूत्पूर्वं तत्र ब्रह्मा व्यजायत ।
ब्राह्मणश्चापि सम्भूतः शिव इत्यवधार्यताम् ॥
शिवात्स्कन्दः संवभूव एतत्सृष्टिचतुष्टयम् ।
दैत्यदानवदर्पघ्नमेवं मां विद्धि नित्यशः ॥
दैत्यदानवरक्षोभिर्यदा धर्मः प्रपीड्यते ।
तदाऽहं धर्मवृद्ध्यर्थं मूर्तिमान्भविताऽऽशुग ॥
वेदव्रतपरा ये तु धीरा निश्चितबुद्ध्यः ।
योगिनो योगयुक्ताश्च ते मां पश्यन्ति नान्यथा ॥
पञ्चभिः सम्प्रयुक्तोऽहं विप्रयुक्तश्च पञ्चभिः ।
वर्तमानश्च तेष्वेवं निवृत्तश्चैव तेष्वहम् ॥
ये विदुर्जातसङ्कल्पास्ते मां पश्यन्ति तादृशाः ॥
स्वं वायुरापो ज्योतिश्च पृथिवी चेति पञ्चमम् । तदात्मकोऽस्मि विज्ञेयो न चान्योस्मीति निश्चितम् ।
वर्तमानमतीतं च पञ्चवर्गेषु निश्चलम् ।
शब्दस्पर्शेषु रूपेषु रसगन्धेषु चाप्यहम् ॥
रजस्तमोभ्यामाविष्टा येषां बुद्धिरनिश्चिता ।
ते न पश्यन्ति मे तत्वं तपसा महता ह्यपि ॥
नोपवासैर्न नियमैर्न व्रतैर्विविधैरपि ।
द्रष्टुं वा वेदितुं वाऽपि न शक्या परमा गतिः ॥
महामोहार्थपङ्के तु निमग्रानां गतिर्हरिः ।
एकान्तिनो ध्यानपरा यतिभावाद्ब्रजन्ति माम् ॥
सत्वयुक्ता मतिर्येषां केवलाऽऽत्मविनिश्चिता ।
ते पश्यन्ति स्वमात्मानं परमात्मानमव्ययम् ॥
अहिंसा सर्वभूतेषु तेष्ववस्तितमार्जवम् ।
तेष्वेव च समाधाय सम्यगेति च मामजम् ॥
यदेतत्परमं गुह्यमाख्यानं परमाद्भुतम् ।
यत्तेन तदशेषेण यथावच्छ्रोतुमर्हसि ॥
ये त्वग्निहोत्रनियता जपयज्ञपरायणाः ।
ते मामुपासते शश्वद्यांस्तांस्त्वं दृष्टवानसि ॥
शास्त्रदृष्टविधानज्ञा असक्ताः क्वचिदन्यथा ।
शक्योऽहं वेदितुं तैस्तु यन्मे परममव्ययम् ॥
ये तु सांख्यं च योगं च ज्ञात्वाऽप्यधृतनिश्चयाः ।
न ते गच्छन्ति कुशलाः परां गतिमनुत्तमाम् ॥
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्माऽऽन्मविच्छुचिः ।
आसादयति तद्ब्रह्म यत्र गत्वा न शोचति ॥
शुद्धाभिजनसम्पन्नाः श्रद्धायुक्तेन चेतसा ।
मद्भक्त्या च द्विजश्रेष्ठा गच्छन्ति परमां गतिं ॥
यद्गह्यं परमं बुद्धेरलिङ्गग्रहणं च यत् ।
तत्सूक्ष्मं गृह्यते विप्रैर्यतिभिस्तत्त्वदर्शिभिः ॥
न वायुः पवते तत्र न तस्मिञ्ज्योतिषां गतिः ।
न चापः पृथिवी चैव नाकाशं न मनोगतिः ॥
तस्माच्चैतानि सर्वाणि प्रजायन्ते विहङ्गम ।
सर्वेभ्यश्च स तेभ्यश्च प्रभवत्यमलो विभुः ॥
स्थूलदर्शनमेतन्मे यद्दृष्टं भवताऽनघ ।
एतत्सूक्ष्मस्य तद्द्वारं कार्याणां कारणं त्वहम् ॥
दृष्टो वै भवता तस्मात्सरस्यमितविक्रम ।
ब्रह्मणो यदहोरात्रसङ्ख्याभिज्ञैर्विभाव्यते ॥
एष कालस्त्वया तत्र सरस्यहमुपागतः । मां यज्ञमाहुर्यज्ञज्ञा वेदं वेदविदो जनाः ।
मुनयश्चापि मामेव जपयज्ञं प्रचक्षते ॥
वक्ता मन्ता रसयिता घ्राता द्रष्टा प्रदर्शकः ।
बोद्धा बोधयिता चाहं गन्ता श्रोता चिदात्मकः ॥
मामिष्ट्वा स्वर्गमायान्ति तथा चाप्नुवते महत् ।
ज्ञात्वा मामेव चैवान्ते निःसङ्गेनान्तरात्मना ॥
अहं तेजो द्विजातीनां मम तेजो द्विजातयः ।
मम यस्तेजसो देहः सोग्निरित्यवगम्यताम् ॥
प्राणपालः शरीरेऽहं योगिनामहमीश्वरः ।
सांख्यानामिदमेवाग्रे मयि सर्वमिदं जगत् ॥
धर्ममर्तं च कामं च मोक्षं चैवार्जवं जपम् ।
तमः सत्वं रजश्चैव कर्मजं च भवाप्ययम् ॥
स तदाऽहं तथारूपस्त्वया दृष्टः सनातनः ।
ततस्त्वहं परतरः शक्यः कालेन वेदितुम् ॥
मम यत्परमं गुह्यं शाश्वतं ध्रुवमव्ययम् । तदेवं परमो गुह्यो देवो नारायणो हरिः ।
न तच्छक्यं भुजङ्गारे वेत्तुमभ्युदयान्वितैः ॥
निरारम्भनमस्कारा निराशीर्बन्धनास्तथा ।
गच्छन्ति तं महात्मानः परं ब्रह्म सनातनम् ॥
स्थूलोऽहमेवं विहग त्वया दृष्टस्तथाऽनघ ।
एतच्चापि न वेत्त्यन्यस्त्वामृते पन्नगाशन ॥
मा मतिस्तव गान्नाशमेषा गतिरनुत्तमा ।
मद्भक्तो भव नित्यं त्वं ततो वेत्स्यसि मे पदम् ॥
एतत्ते सर्वमाख्यातं रहस्यं दिव्यमानुषम् ।
एतच्छ्रेयः परं चैतत्पन्थानं विद्धि मोक्षिणाम् ॥
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ।
पश्यतो मे महायोगी जगामात्मगतिर्गतिम् ॥
एतदेवंविधं तस्य महिमानं महात्मनः ।
अच्युतस्याप्रमेयस्य दृष्टवानस्मि यत्पुरा ॥
एतद्वः सर्वमाख्यातं चेष्टितं तस्य धीमतः । मयाऽनुभूतं प्रत्यक्षं दृष्ट्वा चाद्भुतकर्मणः ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥

श्रीः