अध्यायः 044

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति ब्रह्मणा देवान्प्रत्यनूदितसुपर्णोपाख्यानकथनसमापनम् ॥ 1 ॥

ऋषय ऊचुः ।

अहो श्रावितमाख्यानं भवताऽत्यद्भुतं महत् ।
पुण्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ॥
एतत्पवित्रं देवानामेतद्गुह्यं परंतप ।
एतज्ज्ञानवता ज्ञेयमेषा गतिरनुत्तमा ॥
य इमां श्रावयेद्विद्वान्कथां पर्वसुपर्वसु स लोकान्प्राप्नुयात्पुण्यान्देवर्षिभिरभिष्टुतान् ॥
श्राद्धकाले च विप्राणां य इमां श्रावयेच्छुचिः ।
न तत्र रक्षसां भागो नासुराणां च विद्यते ॥
अनसूयुर्जितक्रोधः सर्वसत्वहिते रतः ।
यः पठेत्सततं युक्तः स व्रजेत्तत्सलोकताम् ॥
वेदान्पारयते विप्रो राजा विजयवान्भवेत् ।
वैश्यस्तु धनधान्याढ्यः शूद्रः सुखमवाप्नुयात् ॥
भीष्म उवाच ।
ततस्ते मुनयः सर्वे सम्पूज्य विनतासुतम् ।
स्वानेव चाश्रमाञ्जग्मुर्बभूवुः शान्तितत्पराः ॥
स्थूलदर्शिभिराकृष्टो दुर्ज्ञेयो ह्यकृतात्मभिः ।
एषा धुतिर्महाराज धर्म्या धर्मभृतांवर ॥
सुराणां ब्रह्मणा प्रोक्ता विस्मितानां परंतप । मयाप्येषा कथा तात कथिता मातुरन्तिके ।
वसुभिः सत्त्वसम्पन्नैस्तवाप्येषा मयोच्यते ॥
तदग्निहोत्रपरमा जपयज्ञपरायणाः ।
निराशीर्बन्धनाः सन्तः प्रयान्त्यक्षरसात्मतां ॥
आरम्भयज्ञानुत्सृज्य जपहोमपरायणाः ।
ध्यायन्तो मनसा विष्णुं गच्छन्ति परमां गतिम् ॥
तदेष परमो मोक्षो मोक्षद्वारं च भारत ।
यथा विनिश्चितात्मानो गच्छन्ति परमां गतिम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥

श्रीः