अध्यायः 046
अथानुगीतापर्व-2
ब्रह्मणा महर्षीन्प्रति ब्रह्मचारिवनस्थधर्मनिरूपणपूर्वकं तदनुष्ठानस्य श्रेयःसाधनत्वोक्तिः ॥ 1 ॥
ब्रह्मोवाच ।
एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि ।
						अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान् ॥
					स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः ।
						गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः ॥
					गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन् ।
						हविष्यभैक्ष्यभुक् चापि स्थानासनविहारवान् ॥
					द्विकालमग्निं जुह्वानः शुचिर्भूत्वा समाहितः ।
						धारयीत सदा दण्डं बैल्वं पालाशमेव वा ॥
					क्षौमं कार्पासिकं वाऽपि मृगाजिनमथापि वा ।
						सर्वं काषायरक्तं वा वासो वाऽपि द्विजस्य ह ॥
					मेखला च भवेन्मौञ्जी जटो नित्योदकस्तथा ।
						यज्ञोपवीती स्वाध्यायी अलुप्तनियतव्रतः ॥
					पूताभिश्च तथैवाद्भिः सदा दैवततर्पणम् ।
						भावेन नियतः कुर्वन्ब्रह्मचारी प्रशस्यते ॥
					एवं युक्तो जयेत्स्वर्गमूर्ध्वरेताः समाहितः ।
						न संसरति जातीषु परमं स्थानमाश्रितः ॥
					संस्कृतः सर्वसंस्कारैस्तथैव ब्रह्मचर्यवान् ।
						ग्रामान्निष्क्रम्य चारण्ये मुनिः प्रव्रजितो वसेत् ॥
					चर्मवल्कलसंवासी सायं प्रातरुपस्पृशेत् ।
						अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः ॥
					अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम् ।
						फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन् ॥
					स नित्यमुदकं वायुं सर्वं वानेयमाश्रयेत् ।
						प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः ॥
					समूलफलशाकाद्यैरर्चेदतिथिमागतम् ।
						यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः ॥
					देवतातिथिपूर्वं च सदा प्राश्नीत वाग्यतः ।
						अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः ॥
					दान्तो मैत्रः क्षमायुक्तः कशाञ्शमश्रु च धारयन् ।
						जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः ॥
					न्यस्तदेहः सदा दक्षो वननित्यः समाहितः ।
						एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः ॥
					गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथवा पुनः ।
						य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत् ॥
					अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् ।
						सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः ॥
					अयाचितमसंक्लृप्तमुपपन्नं यदृच्छया ।
						कृत्वा प्राह्णे चरेद्भैक्ष्यं विधूमे भुक्तवज्जने ॥
					वृत्ते शरावसम्पाते भैक्ष्यं लिप्सेत मोक्षवित् ।
							लाभेन च न हृष्येत नालाभे विमना भवेत् ।
						
						न चातिभिक्षां भिक्षेत केवलं प्राणयात्रिकः ॥
						
					यात्रार्थी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः ।
						
						लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः ॥
						
					अभिपूजितलाभाद्वि विजुगुप्सेत भिक्षुकः ।
						भुक्तान्यन्नानि तिक्तानि कषायकटुकानि च ॥
					नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा ।
						यात्रामात्रं च भुञ्जीत केवलं प्राणधारणम् ॥
					असंरोधेन भूतानां वृत्तिं लिप्सेत मोक्षवित् ।
						न चान्यमन्नं लिप्सेत भिक्षमाणः कथञ्चन ॥
					न सन्निकाशयेद्धर्मं विविक्ते चारजाश्चरेत् ।
						शून्यागारमण्यं वा वृक्षमूलं नदीं तथा ॥
					प्रतिश्रयार्थं सेवेत पार्वतीं वा पुनर्गुहाम् ।
						ग्रामैकरात्रिको ग्रीष्मे वर्षास्वेकत्र वा वसेत् ॥
					अध्वा सूर्येणि निर्दिष्टः कीटवच्च चरेन्महीम् ।
						दयार्तं चैव भूतानां समीक्ष्य पृथिवीं चरेत् ॥
					सञ्चयांश्च न कुर्वीत स्नेहवासं च वर्जयेत् ।
						पूताभिरद्भिर्नित्यं वै कार्यं कुर्वीत मोक्षवित् ॥
					उपस्पृशेदुद्दृताभिरद्भिश्च पुरुषः सदा ।
						अहिंसा ब्रह्मचर्यं च सत्यमार्जवमेव च ॥
					अक्रोधश्चानसूया च दमो नित्यमपैशुनम् ।
						अष्टस्वेतेषु युक्तः स्याद्व्रतेषु नियतेन्द्रियः ॥
					अपापमशठं वृत्तमजिह्मं नित्यमाचरेत् ।
						जोषयेत सदा भोज्यं ग्रासमागतमस्पृहः ॥
					यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् ।
						धर्मलब्धमथाश्नीयान्न काममनुवर्तयेत् ॥
					ग्रासादाच्छादनादन्यन्न गृह्णीयात्कथञ्चन ।
						यावदाहारयेत्तावत्प्रतिगृह्णीत नाधिकम् ॥
					परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन ।
						दैन्यभावाच्च भूतानां संविभज्य सदा बुधः ॥
					नाददीत परस्वानि न गृह्णीयान्न याचयेत् ।
						न किञ्चिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः ॥
					मृदमापस्तथाऽन्नानि पत्रपुष्पफलानि च ।
						असंवृतानि गृह्णीयात्प्रवृत्तानि च कार्यवान् ॥
					न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत् ।
						न द्वेष्टा नोपदेष्टा च भवेच्च निरुपस्कृतः ॥
					श्रद्धापूतानि भुञ्जीत निमित्तानि च वर्जयेत् ।
						मुधावृत्तिरसक्तश्च सर्वभूतैरसंधितः ॥
					आशीर्युक्तानि सर्वाणि हिंसायुक्तानि यानि च ।
						लोकसङ्ग्रहधर्मं च नैव कुर्यान्न कारयेत् ॥
					सर्वभावानतिक्रम्य लघुमात्रः परिव्रजेत् ।
						समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥
					परं नोद्वेजयेत्कञ्चिन्न च कस्यचिदुद्विजेत् ।
						विश्वास्यः सर्वभूतानामग्र्यो मोक्षविदुच्यते ॥
					अनागतं च न ध्यायेन्नातीतमनुचिन्तयेत् ।
						वर्तमानमुपेक्षेत कालाकाङ्क्षी समाहितः ॥
					न चक्षुषा न मनसा न वाचा दूषयेत्क्वचित् ।
						न प्रत्यक्षं परोक्षं वा किञ्चिद्दुष्टं समाचरेत् ॥
					इन्द्रियाण्युपसंहृत्य कूर्मोऽङ्गानीव सर्वशः ।
						क्षीणेन्द्रियमनोबुद्धिर्निरीहः सर्वतत्त्ववित् ॥
					निर्द्वन्द्वो निर्नमस्कारो निःस्वाहाकार एव च ।
						निर्ममो निरहङ्कारो निर्योगक्षेम आत्मवान् ॥
					निराशीर्निर्गुणः शान्तो निरासक्तो निराश्रयः ।
						आत्मसङ्गी च तत्त्वज्ञो मुच्यते नात्र संशयः ॥
					अपादपाणिपृष्ठं तदशिरस्कमनूदरम् ।
						अभिन्नगुणकर्माणं केवलं विमलं स्थिरम् ॥
					अगन्धमरसस्पर्शमरूपाशब्दमेव च ।
						अनुगम्यमनासक्तममांसमपि चैव यत् ॥
					निशअचिन्तमव्ययं दिव्यं गृहस्थमपि सर्वदा ।
						सर्वभूतस्थमात्मानं ये पश्यन्ति न ते मृताः ॥
					न तत्र क्रमते बुद्धिर्नेन्द्रियाणि न देवताः ।
						वेदा यज्ञाश्च लोकाश्च न तपो न व्रतानि च ॥
					यत्र ज्ञानवतां प्राप्तिलिङ्गग्रहणा स्मृता ।
						तस्मादलिङ्गधर्मज्ञो धर्मतत्त्वमुपाचरेत् ॥
					गूढधर्माश्रितो विद्वान्विज्ञानचरितं चरेत् ।
						अमूढो मूढरूपेण चरेद्धर्ममदूषयन् ॥
					यथैनमवमन्येरन्परे सततमेव हि ।
						तथावृत्तश्चरेच्छान्तः सतां धर्मानकुत्सयन् ॥
					य एवं वृत्तसम्पन्नः स मुनिः श्रेष्ठ उच्यते ।
						इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्च च ॥
					मनो बुद्धिरहङ्कारमव्यक्तं पुरुषं तथा ।
						एतत्सर्वं प्रसङ्ख्याय यथावत्तत्त्वनिश्चयात् ॥
					ततः स्वर्गमवाप्नोति विमुक्तः सर्वबन्धनैः ।
						एतावदन्तवेलायां परिसङ्ख्याय तत्त्ववित् ॥
					ध्यायेदेकान्तमास्थाय मुच्यतेऽथ निराश्रयः ।
						निर्मुक्तः सर्वसङ्गेभ्यो वायुराकाशगो यथा ॥
					क्षीणकोशो निरातङ्कस्तथेदं प्राप्नुयात्परम् ॥ ॥
					इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्चत्वारिंशोऽध्यायः ॥ 46 ॥
श्रीः
