अध्यायः 053

कुरुपुराद्द्वारकां गच्छता कृष्णेन मध्येमार्गं दृष्टेनोदङ्केन सह संवादः ॥ 1 ॥ तथा कौरवादिविनाशे स्वोपेक्ष्याया हेतुत्वधिया स्वंप्रति शापदानोद्यतोदङ्कपरिसान्त्वनाय तंप्रति तत्वकथनोपक्रमः ॥ 2 ॥

वैशम्पायन उवाच ।

तथा प्रयान्तं वार्ष्णेयं द्वारकां भरतर्षभाः ।
परिष्वज्य न्यवर्तन्त सानुयात्राः परंतपाः ॥
पुनःपुनश्च वार्ष्णेयं पर्यष्वजत फल्गुनः ।
आचक्षुर्विषयाच्चैनं स ददर्श पुनःपुनः ॥
कृच्छ्रेणैव तु तां पार्तो गोविन्दे विनिवेशिताम् ।
संजहार ततो दृष्टिं कृष्णश्चाप्यपराजितः ॥
तस्य प्रयाणे यान्यासन्निमित्तानि महात्मनः ।
बहून्यद्भुतरूपाणि तानि मे गदतः शृणु ॥
वायुर्वेगेन महता रथस्य पुरतो ववौ ।
कुर्वन्निःशर्करं मार्गं विरजस्कमकण्टकम् ॥
ववर्ष वासवश्चैव तोयं शुचि सुगन्धि च ।
दिव्यानि चैव पुष्पाणि पुरतः शाङ्गधन्वनः ॥
स प्रयातो महाबाहुः समेषु मरुधन्वसु ।
ददर्शाथ मुनिश्रेष्ठमुदङ्कममितौजसम् ॥
`महर्षिं सिद्धतपसं सर्वलोकान्तविश्रुतम् ।' स तं सम्पूज्य तेजस्वी मुनिं पृथुललोचनः ।
पूजितस्तेन च तदा पर्यपृच्छदनामयम् ॥
स पृष्टः कुशलं तेन सम्पूज्य मधुसूदनम् ।
उदङ्को ब्राह्मणश्रेष्ठस्ततः पप्रच्छ माधवम् ॥
कच्चिच्छौरे त्वया गत्वा कुरुपाण्डवसद्म तत् ।
कृतं सौभ्रात्रमचलं तन्मे व्याख्यातुमर्हसि ॥
अपि सन्धाय तान्वीरानुपावृत्तोसि केशव ।
सम्बन्दिनःक स्वदयितान्सततं वृष्णिपुङ्गव ॥
कच्चित्पाण्डुसुताः पञ्च धृतराष्ट्रस्य चात्मजाः ।
लोकेषु विहरिष्यन्ति त्वया सह परंतप ॥
स्वराष्ट्रे ते च राजानः कच्चित्प्राप्स्यन्ति वै सुखम् ।
कौरवेषु प्रशान्तेषु त्वया नाथेन केशव ॥
या मे सम्भावना तात त्वयि नित्यमवर्तत ।
अपि सा सफला तात कृता ते भरतान्प्रति ॥
श्रीभगवानुवाच ।
कृतो यत्नो मया पूर्वं सौशाम्ये कौरवान्प्रति । नाशक्यन्त यदा साम्ये ते स्थापयितुमञ्जसा ।
न दिष्टमप्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा ।
महर्षे विदितं भूयः सर्वमेतत्तवानघ ॥
तेऽत्यक्रामन्मतिं मह्यं भीष्मस्य विदुरस्य च ।
ततो यमक्षयं जग्मुः समासाद्येतरेतरम् ॥
पञ्चैव पाण्डवाः शिष्टा इतमित्रा हतात्मजाः ।
धार्तराष्ट्राश्च निहताः सर्वे ससुतबान्धवाः ॥
इत्युक्तवचने कृष्णे भृशं क्रोधसमन्वितः ।
उदङ्क इत्युवाचैनं रोषादुत्फुल्ललोचनः ॥
यस्माच्छक्तेन ते कृष्ण न त्राताः कुरुपुङ्गवाः ।
सम्बन्धिनः प्रियास्तस्माच्छप्स्येऽहं त्वामसंशयम् ॥
न च ते प्रसभं यस्मात्ते निगृह्य निवारिताः ।
तस्मान्मन्युपरीतस्त्वां शप्स्यामि मधुसूदन ॥
त्वया शक्तेन हि सता मिथ्याचारेणि माधव ।
ते परीताः कुरुश्रेष्ठा नश्यन्तः स्म ह्युपेक्षिताः ॥
वासुदेव उवाच ।
शृणु मे विस्तरेणेदं यद्वक्ष्ये भृगुनन्दन ।
गृहाणानुनयं चापि तपस्वी ह्यसि भार्गवम् ॥
श्रुत्वा च मे तदध्यात्मं मुञ्चेथाः शापमद्य वै ।
न च मां तपसाऽल्पेन शक्तोऽभिभवितुं पुमान् ॥
न च ते तपसो नाशमिच्छामि तपतां वर ।
तपस्ते सुमहद्दीप्तं गुरवश्चापि तोषिताः ॥
कौमारं ब्रह्मचर्यं ते जानामि द्विजसत्तम ।
दुःखार्जितस्य तपसस्तस्मान्नेच्चामि तेऽव्ययम् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिपञ्चाशोऽध्यायः ॥ 53 ॥

7-53-15 सौशाम्ये सौरस्ये ॥ 7-53-22 परीताः परितः प्राप्ताः ॥ 7-53-23 अनुनयं शिक्षाम् ॥ 7-53-24 मे मत्तः ॥

श्रीः