अध्यायः 055

कृष्णेनोदङ्काय विश्वरूपप्रदर्शनपूर्वकं पिपासाकाले जललाभरूपवरदानम् ॥ 1 ॥ कृष्णेनोदङ्कायामृतदानं चोदितेनेन्द्रेण कदाचिद्वनमध्ये पिपासुमुदङ्कंप्रति चण्डालवेषेण जलस्वीकारप्रार्थने उदङ्केन चण्डालत्वबुद्ध्या तदधिक्षेपः ॥ 2 ॥ पश्चात्तस्य तिरोधानेन परितप्यन्तमुदङ्कंप्रति तत्र संनिहितेन कृष्णेनेन्द्रकृतवञ्चनानिवेदनपूर्वकं मरुप्रदेशे जललाभरूपवरदानम् ॥ 3 ॥

उदङ्क उवाच ।

अभिजानामि जगतः कर्तारं त्वां जनार्दन ।
नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः ॥
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत ।
विनिवृत्तश्च मे कोप इति विद्धि परंतप ॥
यदि त्वनुग्रहं कञ्चित्त्वत्तोऽर्हामि जनार्दन ।
द्रष्टुमिच्छामि ते रूपं वैष्णवं तन्निदर्शय ॥
वैशम्पायन उवाच ।
ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः ।
शाश्वतं वैष्णवं धीमान्ददृशे यद्धनंजयः ॥
स ददर्श महात्मानं विश्वरूपं महाभुजम् । सहस्रसूर्यप्रतिमं दीप्तिमत्पावकोपमम् ।
सर्वमाकाशमावृत्य तिष्ठन्तं सर्वतोमुखम् ॥
तद्दृष्ट्वा परमं रूपं विष्णोर्वैष्णवमद्भुतम् ।
विस्मयं च ययौ विप्रस्तं दृष्ट्वा परमेश्वरम् ॥
उदङ्क उवाच ।
`नमोनमस्ते सर्वात्मन्नारायण परात्मक ।
परमात्मन्पद्मनाभ पुण्डरीकाक्ष माधव ॥
हिरण्यगर्भरूपाय संसारोत्तारणाय च ।
पुरुषाय पुराणाय शान्तश्यामाय ते नमः ॥
अविद्यातिमिरादित्यं भवव्याधिमहौषधिम् ।
संसारार्णवसारं त्वां प्रणमामि गतिर्भव ॥
सर्ववेदैकवेद्याय सर्ववेदमयाय च ।
वासुदेवाय नित्याय नमो भक्तप्रियाय ते ॥
दयया दुःखमोहान्मां सुमुद्धर्तुमिहार्हसि । कर्मभिर्बहुभिः पापैर्बद्धं पाहि जनार्दन ॥'
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वकसम्भव ।
पद्म्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः ॥
द्यावापृथिव्योर्यन्मध्यं जठरेण तवावृतम् ।
भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत ॥
संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम् ।
पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् ॥
वैशम्पायन उवाच ।
तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय । वरं वृणीष्वेति तदा तमुदङ्कोऽब्रवीदिदम् ।
पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते ।
यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् ॥
तमब्रकवीत्पुनः कृष्णो मा त्वमत्र विचारय । अवश्यमेतत्कर्तव्यममोघं दर्शनं मम ॥
उदङ्कक उवाच ।
अवश्यं करणीयं च यद्येतन्मन्यसे विभो ।
तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् ॥
ततः संहृत्य तत्तेजः प्रोवाचोदङ्कमीश्वरः ।
एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ ॥
ततः कदाचिद्भगवानुदङ्कस्तोयकाङ्क्षया ।
तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ॥
ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम् ।
अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् ॥
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् ।
तस्याधःस्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः ॥
स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव । एह्युदङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह ।
कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम् ॥
इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दन । चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम् ।
पुनःपुनश्च मातङ्ग पिबस्वेति तमब्रवीत् ।
न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना ॥
स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना ।
श्वभिः सह महाराज तत्रैवान्तरधीयत ॥
उदङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः ।
मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना ॥
अथ तेनैव मार्गेण शङ्कचक्रगदाधरः ।
आजगाम महाबाहुरुदङ्कश्चैनमब्रवीत् ॥
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम ।
सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो ॥
इत्युक्तवचनं तं तु महाबुद्धिर्जनार्दनः ।
उदङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत् ॥
यादृशेनेह रूपेण योग्यं दातुं धृतेन वै ।
तादृशं खलु ते दत्तं यच्च त्वं नावबुध्यथाः ॥
मया त्वदर्थमुक्तो वै वज्रपाणिः पुरंदरः ।
उदङ्कायामृतं देहि तोयरूपमिति प्रभुः ॥
स मामुवाच देवेन्द्र न मर्त्योऽमर्त्यतां व्रजेत् ।
अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन ॥
अमृतं देयमित्येव मयोक्तः स शचीपतिः ।
स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् ॥
यदि देयमवश्यं वै मातङ्गोऽहं महामते ।
भूत्वाऽमृतं प्रदास्यामि भार्गवाय महात्मने ॥
यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै । प्रदातुमेष गच्छामि भार्गवस्यामृतं विभो ।
प्रत्याख्यातस्त्वहं तेन दास्यामि न कथञ्चन ॥
स तथा समयं कृत्वा तेन रूपेण वासवः । उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत् ।
चाण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः ॥
यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम् ।
तोयेप्सां तव दुर्धर्षां करिष्ये सफलामहम् ॥
येष्वहःसु च ते ब्रह्मन्सलिलेप्सा भविष्यति ।
तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ॥
रसवच्च प्रदास्यन्ति तोयं ते भृगुनन्दन ।
उदङ्गमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते ॥
इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह ।
अद्याप्युदङ्कमेघाश्च मरौ वर्षन्ति भारत ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चपश्चाशोऽध्यायः ॥ 55 ॥

7-55-3 ते रूपमैश्वरमिति झ.पाठः ॥ 7-55-19 एष्टव्ये जलेऽपेक्षिते सति ॥ 7-55-21 मातङ्गं चण्डालविशेषम् ॥ 7-55-22 अधः पाददेशे स्रोतसो दृतेर्वारीति संबन्धः । ततः शङ्कितमानस इति क.ट.थ.पाठः ॥ 7-55-24 चिक्षेप निन्दितवान् ॥ 7-55-27 प्रलब्धं वञ्चितम् ॥

श्रीः