अध्यायः 059
उदङ्काय वरदानात्परं द्वारकामागच्छता कृष्णेन मध्ये रैवतकप्रवेशः ॥ 1 ॥ रैवतकोत्सववर्णनम् ॥ 2 ॥ ततः कृष्णेन स्वभवनमेत्य मातापितृभ्यामभिवादनम् ॥ 3 ॥
जनमेजय उवाच ।
उदङ्कस्य वरं दत्त्वा गोविन्दो द्विजत्तम ।
						अत ऊर्ध्वं महाबाहुः किं चकार महायशाः ॥
						वैशम्पायन उवाच । 
					उदङ्काय वरं दत्त्वा प्रायात्सात्यकिना सह ।
						द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः ॥
					सरांसि सरितश्चैव वनानि च गिरींस्तथा ।
						अतिक्रम्याससादाथ रम्यां द्वारवतीं पुरीम् ॥
					वर्तमाने महाराज महे रैवतकस्य च ।
						उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा ॥
					अलङ्कृतस्तु स गिरिर्नानारूपैर्विचित्रितैः ।
						बभौ रत्नमयैः कोशैः संवृतः पुरुर्षर्षभ ॥
					काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च ।
						वासोभिश्च महाशैलः कल्पवृक्षैस्तथैव च ॥
					दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः ।
						गुहानिर्झरदेशेषु दिवाभूतो बभूव ह ॥
					एताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः ।
							पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत् ।
						
						अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव ॥
						
					मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत ।
						गायतां पर्वतेन्द्रस्य दिविस्पृगिव निःस्वनः ॥
					प्रमत्तमत्तसम्मत्तक्ष्वेडितोद्धुष्टसंकुलः ।
						तथा किलकिलाशब्दैर्भूधरोऽभून्मनोहरः ॥
					विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् ।
						वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् ॥
					सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह ।
						
						दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् ।
							बभौ परमकल्याणो महस्तस्य महागिरेः ॥
						
					पुण्यावसथवान्वीरैः पुण्यकृद्भिर्निषेवितः ।
						विहारो वृष्णिवीराणां महे रैवतस्य ह ॥
					स नानावेश्मसंकीर्णो देवलोक इवाबभौ ।
						तदा च कृष्णसान्निध्यान्मुदा देवगणैर्युतः ॥
					`स्तुवन्त्यन्तर्हिता देवा गन्धर्वाश्च सहर्षिभिः ।
						साधकः सर्वधर्माणामसुराणां विनाशकः ॥
					त्वं स्रष्टा सृज्यमाधारं कारणं धर्मवेदवित् ।
						त्वया सत्क्रियते देव ज जानीमोऽत्र मायया ॥
					केवलं त्वाऽभिजानीमः शरणं परमेश्वरम् ।
						ब्रह्मादीनां च गोविन्द सान्निध्वं शरणं नमः ॥
					इति स्तुते मानुषैश्च पूजिते देवकीसुते ।'
							शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् ॥
						
					ततः सम्पूज्यमानः स विवेश भवनं शुभम् ।
						गोविन्दः सात्यकिश्चैव जग्मतुर्भवनं स्वकम् ॥
					विवेश च प्रहृष्टात्मा चिरकालप्रवासतः ।
						कृत्वा नसुकरं कर्म दानवेष्विव वासवः ॥
					उपायान्तं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तथा ।
						अभ्यगच्चन्महात्मानं देवा इव शतक्रतुम् ॥
					स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा ।
						अभ्यवादयत प्रीतः पितरं मातरं तदा ॥
					ताभ्यां स सम्परिष्वक्तः सान्त्वितश्च महाभुजः ।
						उपोपविष्टैः सर्वैस्तैर्वृष्णिभिः परिवारितः ॥
					स विश्रान्तो महातेजाः कृतपादावनेजनः ।
						कथयामास तत्सर्वं पृष्टः पित्रा महाहवम् ॥ ॥
					इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥
7-59-4 महे उत्सवे ॥ 7-59-7 दीपभूतो बभूवहेति क.थ.पाठः ॥ 7-59-10 प्रमत्ताः क्रीडाद्यासत्तयानवहिताः । मत्ताः मद्यादिना । सम्मता हृष्टाः ॥ 7-59-23 सात्यकिश्च महाभुज इति क.पाठः ॥
श्रीः
