अध्यायः 063

युधिष्ठिरेण व्यासाज्ञया भीमादिभिः सहालोच्य यज्ञार्थं धनाहरणाय सहभ्रात्रादिभिर्हिमवत्पार्श्वप्रति प्रस्थानम् ॥ 1 ॥

जनमेजय उवाच ।

श्रुत्वैतद्वचनं ब्रह्मन्व्यासेनोक्तं महात्मना ।
अश्वमेधं प्रति तदा किं भूयः प्रचकार ह ॥
रत्नं च यन्मरुत्तेनि निहितं वसुधातले ।
तदवाप कथं चेति तन्मे ब्रूहि द्विजोत्तम ॥
वैशम्पायन उवाच ।
श्रुत्वा द्वैपायनवचो धर्मिराजो युधिष्ठिरः ।
भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् ॥
अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि ।
श्रुतं वो वचनं वीराः सौहृदाद्यन्महात्मना ॥
कुरूणां हितकामेन प्रोक्तं कृष्णेन धीमता ।
तपोवृद्धेनि महता सुहृदां भूतिमिच्छता ॥
गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा ।
भीष्मेण च महाप्राज्ञ गोविन्देनि च धीमता ॥
संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः ।
आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् ॥
अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः ।
इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः ॥
तच्चाचष्ट तदा व्यासो मरुत्तस्य धनं नृपाः । यद्येतद्वो बहुमतं मन्यध्वं वा क्षमं यदि ।
तदानयामहे सर्वे कतं वा भीम मन्यसे ॥
इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह ।
भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् ॥
रोचते मे महाबाहो यदिदं भाषितं त्वया ।
व्यासाख्यातस्य वित्तस्य समुपानयनं प्रति ॥
तत्प्राप्नुयामहे धर्माद्यद्धनं काङ्क्षितं प्रभो ।
कृतमेव महाराज भवेदिति मतिर्मम ॥
ते वयं प्रणिपातेन गिरीशस्य महात्मनः ।
तदानयामि भद्रं ते समभ्यर्च्य कपर्दिनम् ॥
`तं विभुं देवदेवेशं शूलपाणिं त्रिलोचनम् । अनादिनिधनं शंभुं नमस्यामि महेश्वरम् ॥'
लोकनाथं गणाध्यक्षं तस्यैवानुचरांश्चि तान् ।
प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः ॥
रक्षन्ते ये च तद्द्रव्यं किन्नरा रौद्रदर्शनाः ।
ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे ॥
`स हि देवः प्रसन्नात्मा भक्तानां परमेश्वरः ।
ददात्यमरतां चापि किं पुनः काञ्चनं प्रभुः ॥
वनस्थास्य पुरा जिष्णोरस्त्रं पाशुपतं महत् ।
रौद्रं ब्रह्मसिरश्चादात्प्रसन्नः किं पुनर्धनम् ॥
वयं सर्वे हि तद्भक्ताः स चास्माकं प्रसीदति ।
तत्प्रसादादिदं राज्यं प्राप्तं कौरवनन्दन ॥
अभिमन्योर्वधे वृत्ते प्रतिज्ञाते धनञ्जये । जयद्रथवधार्थाय स्वप्ने लोकगुरुर्निशि ।
प्रसाद्य लब्धवानस्त्रमर्जुनः सहकेशवः ॥
तत्र प्रभातां रजनीं फल्गुनस्याग्रतः प्रभुः ।
जघान सैन्यं शूलेन प्रत्यक्षं सव्यसाचिनः ॥
कस्तां सेनां महाराज मनसाऽपि प्रधर्षयेत् । द्रोणिकर्णबलैर्युक्तां महेष्वासैः प्रहारिभिः ।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥
तस्यैव च प्रसादेव निहतास्तव शत्रवः । अश्वमेधस्य संसिद्धिं तव सम्पादयिष्यति ।'
श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत । प्रीतो धर्मात्मजो राजा बभूवातीव भारत ।
अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्वचः ॥
कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् ।
सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे ॥
ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च ।
अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् ॥
मोदकैः पायसेनाथ मांसापूपैस्तथैव च ।
आशास्य च महात्मानं प्रययुर्मुदिता भृशम् ॥
तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ ।
प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते ॥
ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च ।
ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः ॥
समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् ।
धृतराष्ट्रं सभार्यं वै पृथां च पृथुलोचनाम् ॥
मूले निक्षिप्य कौरव्यं युयुत्सुं धृतराष्ट्रजम् । सम्पूज्यमानाः पौरैश्च ब्राह्मणैश्च मनीषिभिः ।
`प्रययुः पाण्डवा वीरा नियमस्थाः शुचिव्रताः' ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥

श्रीः