अध्यायः 070

कृष्णेनाभिमन्युसुतस्य पदप्रवृत्तिनिमित्तकथनपूर्वकं नामकरणम् ॥ 1 ॥ अत्रान्तरे युधिष्ठिरादीनां स्वर्णभारानयनेन हस्तिनपुरंप्रत्यागमनश्रवणेन कृष्णादिभिस्तत्प्रत्युद्यानम् ॥ 2 ॥

वैशम्पायन उवाच ।

ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् ।
तदा तद्वेश्म ते पित्रा तेजसाऽभिविदीपितम् ॥
ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् ।
अन्तरिक्षे च वागासीत्साधु केशव साध्विति ॥
तदस्त्रं ज्वलितं चापि पितामहमगात्तदा ।
ततः प्राणान्पुनर्लेभे पिता तव नरेश्वर ॥
व्यचेष्टत च बालोसौ यथोत्साहं यताबलम् ।
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः ॥
ब्राह्मणा वाचयामासुर्गोविन्दस्यैव शासनात् ।
ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम् ॥
स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः । कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा ।
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः ॥
तत्र मल्ला नटाश्चैव ग्रन्थिकाः सौख्यशायिकाः ।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तं जनार्दनम् ॥
कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ । `सभाजयत संहृष्टो महाराज महाजनः ॥'
उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् ।
अभ्यवादयत प्रीता सह पुत्रेण भारत ॥
ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः । तथैव वृष्णिशार्दूलो नाम चास्याकरोत्प्रभुः ।
पितुस्तव महाराज सत्यसन्धो जनार्दनः ॥
परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः ।
परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा ॥
सोऽवर्धत यथाकालं पिता तव जनाधिप ।
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत ॥
मासजातस्तु ते वीर पिता भवति भारत ।
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः ॥
`मेरुकूटनिभान्भाण्डान्कलशान्भाजनानि च ।
कृताकृतं महद्भीममादाय पुरुषोत्तमाः ॥
भारतैर्वाहनैस्तत्र गोरुते गोरुते पथि ।
निवसन्तो ययुर्देवं स्मरन्तः परमेष्ठिनः ॥
नासीत्तत्र नृपः कश्चिदभारार्तो नृपं विना । भीमादयोऽपि यज्ञार्थं वहन्ते किं पुनर्जनाः ॥'
तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः ।
अलञ्चक्रुश्च माल्यौघैर्नगरं नागसाह्वयम् ॥
पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि ।
वेश्मानि समलञ्चक्रुः पौराश्चापि जनेश्वरः ॥
देवतायतनानां च पूजाः सुविविधास्तथा ।
संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया ॥
राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः ।
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम् ॥
नर्तकैश्चापि नृत्यद्भिर्गायकानां च निःस्वनैः ।
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा ॥
बन्दिभिश्च नरै राजन्स्त्रीसहायैश्च सर्वशः ।
तत्रतत्र विविक्तेषु समन्तादुपशोभितम् ॥
पताका धूयमानाश्च समन्तान्मातरिश्वना ।
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान् ॥
अघोषयंस्तदा चाप पुरुषा राजमार्गतः ।
सर्वरात्रविहारोऽद्य रत्नाभरणलक्षणः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्ततितमोऽध्यायः ॥ 70 ॥

7-70-5 वाचयामासुः स्वस्तीति शेषः ॥ 7-70-7 ग्रम्थिकाः दैवज्ञाः सुखावहं सौख्यं शयनं इति पृच्छन्ति ते सौख्यशायिकाः ॥ 7-70-8 कुरुवंशस्य स्तवं आचक्षते ताभिः कुरुवंशस्तवाख्याभिः ॥ 7-70-9 उत्थाय तु यथाकाममिति क.ट.थ.पाठः ॥ 7-70-10 तस्य कृष्णो ददौ हृष्टो बहुरत्नं विशेषतः । तथान्ये वृष्णिशार्दूला इति झ.पाठः ॥

श्रीः