अध्यायः 073

अर्जुनेन युधिष्ठिरनियोगाद्ब्राह्मणैः क्षत्रियैश्च सह प्रथममुत्तरदिश्यश्वसञ्चारणेन रक्षणाय तदनुसरणम् ॥ 1 ॥

वैशम्पायन उवाच ।

दीक्षाकाले तु सम्प्राप्ते ततस्ते सुमहर्त्विजः ।
विधिवद्दीक्षयामासुरश्वमेधाय पार्थिवम् ॥
कृत्वा स पशुमेधांश्च दीक्षितः पाण्डुनन्दनः ।
धर्मराजो महातेजाः सहर्त्विग्भिर्व्यरोचत ॥
हयश्च हयमेधार्थं स्वयं स ब्रह्मवादिना ।
उत्सृष्टः शास्त्रविधिना व्यासेनामिततेजसा ॥
स राजा राजधर्मेण दीक्षितो विबभौ तदा ।
हेममाली रुक्मकण्ठः प्रदीप्त इव पावकः ॥
कृष्णाजिनी दण्डपाणिः क्षौमवासाः स धर्मजः ।
विबभौ द्युतिमान्भूयः प्रजापतिरिवाध्वरे ॥
तथैवास्यर्त्विजः सर्वे तुल्यवेषा विशांपते ।
बभूवुरर्जुनश्चापि प्रदीप्त इव पावकः ॥
श्वेताश्वः कपिकेतुश्च ससाराश्वं धनञ्जयः ।
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥
**क्षिपन्गाण्डिवं राजन्बद्धगोधाङ्गुलित्रवान् ।
तमश्वं पृथिवीपाल मुदा युक्तः ससार च ॥
अनुमार्गं तदा राजन्नागमत्तत्पुरं विभो ।
द्रष्टुकामं कुरुश्रेष्ठं प्रयास्यनतं धनञ्जयम् ॥
तेषामन्योन्यसम्मर्दादूष्मेव समाजायत ।
दिदृक्षूणां हयं तं च तं चैव हयसारिणम् ॥
ततः शब्दो महाराज दिशः खं प्रतिपूरयन् ।
बभूव प्रेक्षतां नॄमां कुन्तीपुत्रं धनंजयम् ॥
एष गच्छति कौन्तेयस्तुरगश्चैव दीप्तिमान् ।
समन्वेति महाबाहुः संस्पृशन्धनुरुत्तमम् ॥
एवं शुश्राव वदतां गिरो जिष्णुरुदारधीः ।
स्वस्ति तेऽस्तु व्रजारिष्टं पुनश्चैहीति भारत ॥
अथापरे मनुष्येन्द्र पुरुषा वाक्यमब्रुवन् ।
नैनं पश्याम सम्मर्दे धनुरेतत्प्रदृश्यते ॥
एतद्धि भीमनिर्ह्रादं विश्रुतं गाण्डिवं धनुः । स्वस्ति गच्छत्वरिष्टो वै पन्थानमकुतोभयम् ।
निवृत्तमेनं द्रक्ष्यामः पुनरेष्यति च ध्रुवम् ॥
एवमाद्या मनुष्याणां स्त्रीणां च भरतर्षभ ।
शुश्राव मधुरा वाचः पुनःपुनरुदारधीः ॥
याज्ञवल्क्यस्य शिष्यश्च कुशलो यज्ञकर्मणि ।
प्रायात्पार्थेन सहितः शान्त्यर्थं वेदपारगः ॥
ब्राह्मणाश्च महीपाल बहवो वेदपारगाः । अनुजग्मुर्महात्मानं क्षत्रियाश्च विशाम्पते ।
विधिवत्पृथिवीपाल धर्मराजस्य शासनात् ॥
पाण्डवैः पृथिवीमश्वो निर्जितामस्त्रतेजसा ।
चचार स महाराज यथादेशं च सत्तम ॥
तत्र युद्धानि वृत्तानि यान्यासन्पाण्डवस्य ह ।
तानि वक्ष्यामि ते वीर विचित्राणि महान्ति च ॥
स हयः पृथिवीं राजन्प्रदक्षिणमवर्तत ।
ससारेत्तरतः पूर्वं तन्निबोध महीपते ॥
अवमृद्रन्स राष्ट्राणि पार्थिवानां हयोत्तमः ।
शनैस्तदा परिययौ श्वेताश्वश्च महारथः ॥
तत्र सङ्गणना नास्ति राज्ञामयुतशस्तदा ।
येऽयुध्यन्त महाराज क्षत्रिया हतबान्धवाः ॥
किराता यवना राजन्बहवोऽसिधनुर्धराः ।
म्लेच्छाश्चान्ये बहुविधाः पूर्वं ये निकृता रणे ॥
आर्याश्च पृथिवीपालाः प्रहृष्टनरवाहनाः ।
समीयुः पाण्डुपुत्रेण बहवो युद्धदुर्मदाः ॥
एवं वृत्तानि युद्धानि तत्रतत्र महीपते ।
अर्जुनस्य महीपालैर्नानादेशसमागतैः ॥
यान्यत्र हयतो राजन्प्रवृत्तानि महान्ति च ।
तानि युद्धानि वक्ष्यामि कौन्तेयस्य तवानघ ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिसप्ततितमोऽध्यायः ॥ 73 ॥

7-73-9 आकुमारं तदा राजन् इति झ.पाठः ॥ 7-73-17 शिष्यः सोमश्रवाः ॥

श्रीः