अध्यायः 082

अश्वमेधपर्व ॥ 1 ॥

उलूप्यार्जुनंप्रति चित्राङ्गदादीनां समराङ्गणागमने कारणाभिधानम् ॥ 1 ॥ तथा बभ्रुवाहनेन तस्य पराजये विस्तरेण हेतुकथनम् ॥ 2 ॥

अर्जुन उवाच ।

किमागमनकृत्यं ते कौरव्यकुलनन्दिनि ।
मणलूरपतेर्मातुस्तथैव च रणाजिरे ॥
कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे ।
मम वा चपलापाङ्गि कच्चित्वं शुभमिच्छसि ॥
कच्चित्ते पृथुलश्रोणि नाप्रियं प्रियदर्शने ।
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ॥
कच्चिन्नु राजपूत्री ते सपत्नी चैत्रवाहनी ।
चित्राङ्गदा वरारोहा नापराध्यति किञ्चन ॥
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ । न मे त्वमपराद्धोसि न हि मे बभ्रुवाहनः ।
न जनित्री तथाऽस्येयं मम यो प्रेष्यवत्थिता ॥
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् ।
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ॥
त्वत्प्रियार्थं हि कौरव्य कृतमेतन्मया विभो ।
यत्तच्छृणु महाबाहो निखिलेन धनंजय ॥
महाभारतयुद्धे यत्त्वया शान्तनवो नृपः ।
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ॥
न हि भीष्मस्त्वया वीर युद्ध्यमानो हि पातितः ।
शिखण्डिना तु संयुक्तस्तमाश्रित्य हतस्त्वया ॥
तस्य शान्तिमकृत्वा त्वं त्यजेथा यदि जीवितम् । कर्मणा तेन पापेन पतेथा निरये ध्रुवम् ।
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि ॥
वसुभिर्वसुधापाल गङ्गया च महामते ।
पुरा हि श्रुतमेतत्ते वसुभिः कथितं मया ॥
गङ्गायास्तीरमाश्रित्य हते शान्तनवे नृप । आप्लुत्य देवा वसवः समेत्य च महानदीम् ।
इदमूचुर्वचो घोरं भागीरथ्या मते तदा ॥
एष शान्तनवो भीष्मो निहतः सव्यसाचिना ।
अयुद्ध्यमानः सङ्ग्रामे संसक्तोऽन्येन भामिनि ॥
तदनेनानुषङ्गेण वयमद्य धनञ्जयम् ।
शापेन योजयामेति तथाऽस्त्विति च साऽब्रवीत् ॥
तदहं पितुरावेद्य प्रविश्य व्यथितेन्द्रिया ।
अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ॥
पिता तु मे वसून्गत्वा त्वदर्थे समयाचत ।
पुनः पुनः प्रसाद्यैतांस्त एनमिदमब्रुवन् ॥
पुत्रस्तस्य महाभाग मणलूरेश्वरो युवा ।
स एनं रणमध्यस्थः शरैः पातयिता भुवि ॥
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति ।
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः ॥
तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः ।
न हि त्वां देवराजोऽपि समरेषु पराजयेत् ॥
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः ।
न हि दोषो मम मतः कथं वा मन्यसे विभो ॥
इत्येवमुक्तो विजयः प्रसन्नात्माऽब्रवीदिदम् ।
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि ॥
इत्युक्त्वा सोऽब्रवीत्पुत्रं मणलूरपतिं जयः ।
चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तदा ॥
युधिष्ठिरस्याश्वमेधः परिचैत्रीं भविष्यति ।
तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप ॥
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः ।
उवाच पितरं धीमानिदमस्राविलेक्षणः ॥
उपयास्यामि धर्मज्ञ भवतः सासनादहम् ।
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ॥
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् ।
भार्याभ्यां सह धर्मज्ञ माभूत्तेऽत्र विचारणा ॥
उषित्वेह निशामेकां सुखं स्वभवने प्रभो ।
पुनरश्वानुगमनं कर्तासि जयतांवर ॥
इत्युक्ताः स तु प्रत्रेण तदा वानरकेतनः ।
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ॥
विदितं ते महाबाहो यथा दीक्षां चराम्यहम् ।
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ॥
यथाकामं व्रजत्येष यज्ञियाश्वो नरर्षभ ।
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम ॥
वैशम्पायन उवाच ।
स तत्र विधिवत्तेन पूजितः पाकशासनिः ।
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥

श्रीः