अध्यायः 090

अश्वमेधपर्व ॥ 1 ॥

युधिष्ठिरेणाश्वमेधसमापनानन्तरं राज्ञां यथोचितं संमानपूर्वकं स्वस्वदेशान्प्रति प्रस्थापनम् ॥ 1 ॥

वैशम्पायन उवाच ।

श्रपयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः ।
तं तुरङ्गं यथाशास्त्रमालभन्त द्विजातयः ॥
ततः संज्ञप्य तुरगंक विधिवद्याजकर्षभाः । उपसंवेशयांचक्रुस्ततस्तां द्रुपदात्मजाम् ।
कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् ॥
उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजातयः ।
श्रपयामासुरव्यग्रा विधिवद्भरतर्षभ ॥
तं वपाधूमगन्धं तु धर्मराजः सहानुजैः ।
उपाजिघ्रद्यथासास्त्रं सर्वपापापहं तदा ॥
शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप ।
तान्यग्रौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः ॥
संस्थाप्यैवं तस्य राज्ञस्तं यज्ञं शक्रतेजसः ।
व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् ॥
ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि ।
कोटीः सहस्रं निष्काणां व्यासाय तु वसुंधराम् ॥
प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः ।
अब्रवीद्भरतश्रेष्ठं धर्मराजं युधिष्ठिरम् ॥
वसुधा भवतस्त्वेषां संन्यस्ता राजसत्तम ।
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिना ॥
युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः ।
भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ॥
अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता ।
अर्जुनेन जिता चेयमृत्विग्भ्यः प्रापिता मया ॥
वनं प्रवेक्ष्ये विप्राग्र्या विभजध्वं महीमिमाम् ।
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ॥
नाहमादातुमिच्छामि ब्रह्मस्वं द्विजसत्तमाः ॥
इदं नित्यं मनो विप्रा भ्रातॄणां चैव मे सदा ॥
इत्युक्तवति तस्मिंस्तु भ्रातरो द्रौपदी च सा ।
एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् ॥
ततोऽन्तरिक्षे वागासीत्साधुसाध्विति भारत ।
तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः ॥
द्वैपायनस्तथा कृष्णः पुनरेव युधिष्ठिरम् ।
प्रोवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः ॥
दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् ।
हिरण्यं दीयतामेभ्यो ब्राह्मणेभ्यो धराऽस्तु ते ॥
ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम् ।
यथाऽऽह भगवान्व्यासस्तथा त्वं कर्तुमर्हसि ॥
इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह ।
कोटिं कोटिं गवां प्रादाद्दक्षिणां त्रिगुणीकृताम् ॥
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः ।
यत्कृतं कुरुराजेन मरुत्तस्यानुकुर्वता ॥
प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनो मुनिः ।
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते ॥
धरण्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः ।
दूतपापो जितस्वर्गो मुमुदे भ्रातृभिः सह ॥
ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तथा ।
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथासुखम् ॥
यज्ञवाटे च यत्किञ्चिद्धिरण्यं सवि भूषणम् । तोरणानि च यूपांश्च घटान्पात्रीस्तथेष्टकाः ।
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः ॥
अनन्तरं द्विजातिभ्यः क्षत्रिया जह्रिरे वसु । तथा विट्शूद्रसङ्घाश्च तथाऽन्ये म्लेच्छजातयः ।
`कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः ॥'
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् ।
तर्पिता वसुना तेन धर्मिराजेन धीमिता ॥
स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादितः ।
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः ॥
श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा ।
चकार पुण्यकं तेन सुमहत्सङ्घशः पृथा ॥
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह ।
सभाज्यमानः शुशुभे महेन्द्रस्त्रिदशैरिव ॥
पाण़्डवाश्च महीपालैः समेतैरभिसंवृताः ।
अशोभन्त महाराज ग्रहस्तारागणैरिव ॥
राजभ्योपि ततः प्रादाद्रत्नानि विविधानि च ।
गजानश्वानलङ्कारान्त्रियो वासांसि काञ्चनम् ॥
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले ।
विसृजञ्शुशुभे राजन्यथा वैश्रवणस्तथा ॥
आनीय च तथा वीरं राजानं बभ्रुवाहनम् ।
प्रदाय विपुलं वित्तं गृहात्प्रास्थापयनत्तदा ॥
दुःशलायाश्च तं पौत्रं बालकं भरतर्षभ ।
स्वराज्येऽथ पितुर्धामान्स्वसुः प्रीत्या न्वयेशयत् ॥
नृपतींश्चैव तान्सर्वान्सुविभक्तान्सुपूजितान् ।
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः ॥
गोविन्दं च महात्मानं बलदेवं महाबलम् ।
तथाऽन्यान्वृष्णिवीरांश्च प्रद्युम्नाद्यान्सहस्रशः ॥
पूजयित्वा महाराज यथाविधि महाद्युतिः ।
भ्रातृभिः सहितो राजा प्रास्थापरयदरिंदमः ॥
एवं बभूव यज्ञः स धर्मिराजस्य धीमतः ।
बह्वन्नधनरत्नौघः सुरामैरेयसागरः ॥
सर्पिःपङ्का ह्रदा यत्र बभूवुश्चान्नपर्वताः ।
रसालकर्दमा नद्यो बभूवुर्भरतर्षभ ॥
भक्ष्यखाण्डवरागाणां क्रियतां भुज्यतां तथा ।
पशूनां वध्यतां चैव नान्तं ददृशिरे जनाः ॥
मत्तप्रमत्तमुदितं सुप्रीतयुवतीजनम् । मृदङ्गशङ्खनादैस्च मनोरममभूत्तदा ।
दीयतां भुज्यतां चापि तत्र शब्दो महानभूत् ।
दीयतां दीयतां चेति दिवारात्रमवारितम् ॥
तं महोत्सवसंकाशं हृष्टपुष्टजनाकुलम् ।
कथयन्ति स्म पुरुषा नानादेशनिवासिनः ॥
वर्षित्वा धनधाराभिः कामै रत्नै रसैस्तथा ।
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि नवतितमोऽध्यायः ॥ 90 ॥

7-90-2 संज्ञप्य हिंसित्वा तुरगम् । तस्य समीपे तिसृभिः कलाभिः कलनाभिः मन्त्रद्रव्यश्रद्दाख्याभिरुपेतां द्रौपदीं उपसंवेशयां चक्रुः ॥ 7-90-5 अङ्गानि हृदयजिह्वावक्षआदीनी ॥ 7-90-6 संस्थाप्य समाप्य ॥ 7-90-7 तुशब्दश्चार्थे । तेन सर्वेभ्यो वसुधरां ददावित्यर्थः ॥ 7-90-25 अनन्तरं द्विजातिभ्यः विप्रेषु गृहीत्वा निवृत्तेषु शिष्टात् क्षत्रियादयो गहीतवन्त इत्यर्थः ॥ 7-90-38 मैरेयं वृक्षजं मद्यम् ॥ 7-90-40 पिप्पलीशुण्ठीयुक्तो मुद्गयूषः खाण्डवः स एव शर्कारयुक्तो रागः

श्रीः