अध्यायः 096

अथ वैष्णवधर्मपर्व ॥ 3 ॥

युधिष्ठिरेण कृष्णंप्रति वैष्णवधर्मप्रशंसनपूर्वकं तत्कथनप्रार्थना ॥ 1 ॥ वसिष्ठादिभिस्तच्छुश्रूषया तत्समीपोपसर्पणम् ॥ 2 ॥ कृष्णेन युधिष्ठिरादीन्प्रति वैष्णवधर्मप्रशंसनपूर्वकं स्वमहिमानुबोधनम् ॥ 3 ॥

जनमेजय उवाच ।

अश्वमेधे पुरावृत्ते केशवं केशिसूदनम् ।
धर्मसंशयमुद्दिश्य किमपृच्छत्पितामहः ॥
वैशम्पायन उवाच ।
पश्चिमेनाश्वमेधेन यदा स्नातो युधिष्ठिरः ।
तदा राजा नमस्कृत्य केशवं पुनरब्रवीत् ॥
भववन्वैष्णवा धर्माः किंफलाः किंपरायणाः ।
किं धर्ममधिकृत्याथ भवतोत्पादिताः पुरा ॥
यदि तेहमनुग्राह्यः प्रियोस्मि मधुसूदन ।
श्रोतव्या यदि मे कृष्ण तन्मे कथय सुव्रत ॥
पवित्रा किल ते धर्माः सर्वपापप्रणाशनाः ।
सर्वधर्मोत्तमाः पुण्या भगवंस्त्वन्मुखोद्गताः ॥
याञ्श्रुत्वा ब्रह्महा गोघ्नो मातृहा गुरुतल्पगः ।
पाकर्भेदी कृतघ्नश्च सुरापो ब्रह्मविक्रयी ॥
मित्रविश्वासघाती च वीरहा भ्रूणहा तथा ।
तपोविक्रयिणश्चैव दानविक्रयिणस्तथा ॥
आत्मविक्रमयिणो मूढा जीवेद्यश्च विकर्मभिः ।
पापाः शठा नैकृतिका डांभिका दूषकास्तथा ॥
रसभेदकरा ये च ये च स्युर्ब्रह्मघातकाः ।
शूद्रप्रेष्यकराश्चोरा विप्रा ये च पुरोहिताः ॥
निक्षेपहारिणः स्त्रीघ्नास्तथा ये पारदारिकाः ।
एते चान्ये च पापा ये मुच्यन्तेतेऽपि किल्बिषात् ॥
तानाचक्ष्व सुरश्रेष्ठ त्वद्भक्तस्य ममाच्युत ॥
वैशंपायन उवाच ।
इत्येवं कथिते देवे धर्मपुत्रेण संसदि ।
वसिष्ठाद्यास्तपोयुक्ता मुनयस्तत्वदर्शिनः ॥
श्रोतुकामाः परं गुह्यं वैष्णवं धर्ममुत्तमम् ।
तथा भागवताश्चैव ततस्तं पर्यवारयन् ॥
युधिष्ठिर उवाच ।
तत्वतस्तव भावेन पादमूलमुपागतम् ।
यदि जानासि मां भक्तं स्निग्धं वा भक्तवत्सल ॥
धर्मगुह्यानि सर्वाणि वेत्तुमिच्छामि तत्वतः ।
धर्मान्कथय मे देव यद्यनुग्रहभागहम् ॥
श्रुता मे मानवा धर्मा वासिष्ठाः काश्यपास्तथा ।
गार्गीया गौतमीयाश्च तथा गोपालकस्य च ॥
पराशरकृताः पूर्वा मैत्रेयस्य च धीमतः ।
औमा माहेश्वराश्चैव नन्दिधर्माश्च पावनाः ॥
ब्रह्मणा कथिता ये च कौमाराश्च श्रुता मया ।
धूमायनकृता धर्माः काण्डवैश्वानरा अपि ॥
भार्गवा याज्ञवल्क्याश्च मार्कण्डेयकृता अपि ।
भारद्वाजकृता ये च बृहस्पतिकृताश्च ये ॥
कुणेश्च कुणिबाहोश्च विश्वामित्रकृताश्च ये ।
सुमन्तुजैमिनिकृताः शाकुनेयास्तथैव च ॥
पुलस्त्यपुलहोद्गीताः पावकीयास्तथैव च ।
अगस्त्यगीता मौद्गल्याः शाण्डिल्याः शलभायनाः ॥
वालखिल्यकृता ये च ये च सप्तर्षिभिस्तथा ।
आपस्तंबकृता धर्माः शङ्खस्य लिखितस्य च ॥
प्राजापत्यास्तथा याम्या माहेन्द्राश्च श्रुता मया ।
वैयाघ्रव्यासकीयाश्च विभण्डककृताश्च ये ॥
नारदीयाः श्रुता धर्माः कापोताश्च श्रुता मया ।
तथा विदुरवाक्यानि भृगोरङ्गिरसस्तथा ॥
क्रौञ्चा मृदङ्गगीताश्च सौर्या हारीतकाश्च ये ।
ये पिशङ्गकृताश्चापि कातपायाः सुवालकाः ॥
उद्दालककृता धर्मा औशनस्यास्तथैव च ।
वैशंपायनगीताश्च ये चान्येऽप्येवमादितः ॥
एतेभ्यः सर्वधर्मेभ्यो देव त्वन्मुखनिस्सृताः ।
पावनात्वात्पवित्रत्वाद्विशिष्टा इति मे मतिः ॥
तस्माद्धि त्वां प्रपन्नस्य त्वद्भक्तस्य च केशव ।
युष्मदीयान्वरान्धर्मान्पुण्यान्कथय मेच्युत ॥
वैशंपायन उवाच ।
एवं पृष्टस्तु धर्मज्ञो धर्मपुत्रेण केशवः ।
उवाच धर्मान्सूक्ष्मार्थान्धर्मपुत्रस्य हर्षितः ॥
एवं ते यस्य कौन्तेय यत्नो धर्मेषु सुव्रत ।
तस्य ते दुर्लभो लोके न कश्चिदपि विद्येत ॥
धर्मः श्रुतो वा दृष्टो वा कथितो वा कृतोपि वा ।
अनुमोदितो वा राजेन्द्र नयतीन्द्रपदं नरम् ॥
धर्मः पिता च माता च धर्मो नाथः सुहृत्तथा ।
धर्मो भ्राता सखा चैव धर्मः स्वामी परंतप ॥
धर्मादर्थश्च कामश्च धर्माद्भोगाः सुखानि च ।
धर्मार्दैश्वर्यमेवाग्र्यं धर्मात्स्वर्गगतिः परा ॥
धर्मोयं सेवितः शुद्धस्त्रायते महतो भयात् ।
धर्माद्द्विजत्वं देवत्वं धर्मः पावयते नरम् ॥
यदा च क्षीयते पापं कालेन पुरुषस्य तु ।
तदा संजायते बुद्धिर्धर्मं कर्तुं युधिष्ठिर ॥
जन्मान्तरसहस्रैस्तु मनुष्यत्वं हि दुर्लभम् ।
तद्गत्वापीह यो धर्मं न करोति स्ववञ्चितः ॥
कुत्सिता ये दरिद्राश्च विरूपा व्याधितास्तथा ।
परद्वेष्याश्च मूर्खाश्च न तैर्धर्मः कृतः पुरा ॥
ये च दीर्घायुषः शूराः पण्डिता भोगिनस्तथा ॥
नीरोगा रूपसंपन्नास्तैर्धर्मः सुकृतः पुरा ॥
एवं धर्मः कृतः शुद्धो नयते गतिमुत्तमाम् ।
अधर्मं सेवते यस्तु तिर्यग्योन्यां पतत्यसौ ॥
इदं रहस्यं कौन्तेय शृणु धर्ममनुत्तमम् ।
कथयिष्ये परं धर्मं तव भक्तस्य पाण्डव ॥
इष्टस्त्वमसि मेऽत्यर्थं प्रपन्नश्चापि मां सदा ।
परमार्थमपि ब्रूयां किं पुनर्धर्मसंहिताम् ॥
इदं मे मानुषं जन्म कृतमात्मनि मायया ।
धर्मसंस्थापनार्थाय दुष्टानां नाशनाय च ॥
मानुष्यं भावमापन्नं ये मां गृह्णन्त्यवज्ञया ।
संसारान्तर्हि ते मूढास्तिर्यग्योनिष्वनेकशः ॥
ये च मां सर्वभूतस्थं पश्यन्ति ज्ञानचक्षुषा ।
मद्भक्तांस्तान्सदा युक्तान्मत्समीपं नयाम्यहम् ॥
मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः ।
मद्भाक्तानां तु मानुष्ये सफल जन्म पाण्डवा ॥
अपि पापेष्वभिरता मद्भक्ताः पाण्डुनन्दन ।
मुच्यन्ते पातकैः सर्वैः पद्मपत्रमिवांभसा ॥
जन्मान्तरसहस्रेषु तपसा भावितात्मनाम् ।
भक्तिरुत्पद्यते तात मनुष्याणां न संशयः ॥
यच्च रूपं परं गुह्यं कूटस्तमचलं ध्रुवम् ।
न दृश्यते तता देवैर्मद्भक्तैर्दृश्यते यथा ॥
अपरं यच्च मे रूपं पर्रादुर्भावेषु दृश्यते ।
तदर्चयन्ति सर्वार्थैः सर्वभूतानि पाण्डव ॥
कल्पकोटिसहस्रेषु व्यतीतेष्वागते च ।
दर्शयामीह तद्रूपं यच्च पश्यन्ति मे सुराः ॥
स्तित्युत्पत्त्यव्ययकरं यो मां ज्ञात्वा प्रपद्यते ।
अनुगृह्णाम्यहं तं वै संसारान्मोचयामि च ॥
अहमादिर्हि देवानां सृष्टा ब्रह्मादयो मया ।
प्रकृतिं स्वामवष्टभ्य जगत्सर्वं सृजाम्यहम् ॥
तमोमूलोहमव्यक्तो रजोमध्ये प्रतिष्ठितः ।
ऊर्ध्वं सत्त्वं विना लोभं ब्रह्मादिस्तंबपर्यतः ॥
मूर्धानं मे विद्धि दिवं चन्द्रादित्यौ च लोचने ।
गावोग्निर्बाह्मणो वक्त्रं मारुतः श्वसनं च मे ॥
दिशो मे बाहवश्चाष्टौ नक्षत्राणि च भूषणम् । अन्तरिक्षमुरो विद्धि सर्वभूतावकाशकम् ।
मार्गो मेघानिलाभ्यां तु यन्ममोदरमव्ययम् ॥
पृथिवीमण्डलं यद्वै द्वीपार्णवनगैर्युतम् ।
सर्वसंधारणोपेतं पादौ मम युधिष्ठिर ॥
स्थितो ह्येकगुणः खेऽहं द्विगुणश्चास्मि मारुते ।
त्रिगुणोग्नौ स्थितोहं वै सलिले च चतुर्गुणः ॥
शब्दाद्या ये गुणाः पञ्च महाभूतेषु पञ्चसु ।
तन्मात्रासंस्थितः सोहं पृथिव्यां पञ्चधास्थितः ॥
अहं सहस्रसीर्षस्तु सहस्रवदनेक्षणः ।
सहस्रबाहूदरधृक्सहस्रोरुः सहस्रपात् ॥
धृत्वोर्वीं सर्वतः सम्यगत्यतिष्ठं दशांगुलम् ।
सर्वभूतात्मभूतस्थः सर्वव्यापी ततोस्म्यहम् ॥
अचिन्त्योहमनन्तोहमजरोहमजो ह्यहम् ।
अनाद्योऽहमवध्योहमप्रमेयोहमव्ययः ॥
निर्गुणोहं निगूढात्मा निर्द्वन्द्वो निर्ममो नृप ।
निष्कलो निर्विकारोहं निदानममृतस्य तु ॥
सुधा चाहं स्वधा चाहं स्वाहा चाहं नराधिप ।
तेजसा तपसा चाहं भूतग्रामं चतुर्विधम् ॥
स्नेहपाशैर्गुणबद्ध्वा धारयाम्यात्ममायया । चातुराश्रमधर्मेहं चातुर्होत्रफलाशनः ।
चतुर्मूर्तिश्चतुर्यज्ञश्चतुराश्रमभावनः ॥
संहृत्याहं जगत्सर्वं कृत्वा वै गर्भमात्मनः ।
शयामि दिव्ययोगेन प्रलयेषु युधिष्ठिर ॥
सहस्रयुगपर्यन्तां ब्राह्मीं रात्रिं महार्णवे ।
स्थित्वा सृजामि भूतानि जङ्गमानि स्थिराणि च ॥
कल्पे कल्पे च भूतानि संहरामि सृजामि च ।
न च मां तानि जानन्ति मायया मोहितानि मे ॥
मम चैवान्धकारस्य मार्गितव्यस्य नित्यशः ।
प्रशान्तस्येव दीपस्य गतिर्नैपोपलभ्यते ॥
न तदस्ति क्वचिद्राजन्यत्राहं न प्रतिष्ठितः ।
न च तद्विद्यते भूतं मयि यन्न प्रतिष्ठितम् ॥
यावन्मित्रं भवेद्भूतं स्थूलं सूक्ष्ममिदं जगत् ।
दीवभूतो ह्यहं तस्मिंस्तावन्मात्रं प्रतिष्ठितः ॥
किंचात्र बहुनोक्तेन सत्यमेतद्ब्रवीमि ते ।
यद्भूतं यद्भविष्यच्च तत्सर्वमहमेव तु ॥
मया सृष्टानि भूतानि मन्मयानि च भारत ।
मामेव न विजानन्ति मायया मोहितानि वै ॥
एवं सर्वं जगदिदं सदेवासुरमानुषम् ।
मत्तः प्रभवते राजन्मय्येव प्रविलीयते ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि षण्णवतितमोऽध्यायः ॥ 96 ॥

7-96-1x एतदारभ्यापर्वसमाप्ति विद्यमानास्त्रयोविंशत्यध्याया दाक्षिणात्यकोशेष्वेव दृश्यन्ते नत्वौत्तराहपाठे । 7-96-2 पञ्चमेनाश्वमेधेनेति ट.पाठः ॥ 7-96-18 शूद्रायनकृता धर्मा इति क.पाठः ॥ 7-96-23 वैभीतककृताश्च ये इति ट.पाठः ॥ 7-96-31 राजेन्द्र पुनाति ह नरं सदेति ट.पाठः ॥

श्रीः