अध्यायः 099

कृष्णेन युधिष्ठिरंप्रति बीजयोन्योः शुद्ध्यशुद्धिनिरूपणम् ॥ 1 ॥ तथा गायत्रीमहिमानुवर्णनम् ॥ 2 ॥ ब्राह्मणमहिमप्रशंसनम् । ब्राह्मणावमन्तॄणां नारकयातनानुवर्णनं च ॥ 3 ॥

वैशंपायन उवाच ।

श्रुत्वैवं सात्विकं दानं राजसं तामसं तथा ।
पृथक्पृथक्त्वेन गतिं फलं चापि पृथक्पृथक् ॥
अवितृप्तः प्रहृष्टात्मा पुण्यं धर्मामृतं पुनः ।
युधिष्ठिरो धर्मरतः केशवं पुनरब्रवीत् ॥
बीजयोनिविशुद्धानां लक्षणानि वदस्व मे ।
बीजदोषेण लोकेश जायन्ते च कथं नराः ॥
आचारदोषं देवेशं वक्तुगर्हस्यशेषतः ॥
ब्राह्मणानां विशेषं च गुणदोषौ च केशव ॥
चातुर्वर्ण्यस्य कुत्स्नस्य वर्तमानाः प्रतिग्रहे । केन विप्रा विशेषेण तरन्ते तारयन्ति च ।
एतान्कथय देवेश त्वद्भक्तस्य नमोस्तु ते ॥
भगवानुवाच ।
शृणु राजन्यथावृत्तं बीजयोनिं शुभाशुभम् ।
येन तिष्ठति लोकोयं विनश्यति च पाण्डव ॥
अविप्लुतब्रह्मचर्यो यस्तु विप्रो यथाविधि ।
स बीजं नाम विज्ञेयं तस्य बीजं शुभं भवेत् ॥
कन्या चाक्षतयोनिः स्यात्कुलीना पितृमातृतः । ब्राह्मणादिषु विवाहेषु परिणीता यथाविधि ।
सा प्रशस्ता वरारोहा तस्या योनिः प्रशस्यते ॥
मनसा कर्मणा वाचा या गच्छेत्परपूरुषम् ।
योनिस्तस्या नरश्रेष्ठ गर्भाधानं न चार्हति ॥
स्वैरिण्या यस्तु पापात्मा संतानार्थमिहेच्छति ।
स कुलान्पातयत्याशु दशपूर्वान्दशापरान् ॥
दुष्टयोनौ तु यो मोहाद्रेतः सिञ्चति मूढधीः । तद्रेतसा समुत्पन्नः षडङ्गविदपि द्विजः ।
साधुभिः स बहिष्कार्यः श्वापाक इव पार्थिवा ॥
कर्मणा मनसा वाचा या भवेत्स्वैरचारिणी ।
सा कुलघ्रीति विज्ञेया तस्यां जातः श्वपाचकः ॥
दैवे पित्र्ये तथा दाने भोजने सहभाषणे ।
शयने सहसंबन्धे न योग्या दृष्टयोनिजाः ॥
न तस्माद्दुष्टयोन्यां तु गर्भमुत्पादयेद्बुधः ।
मोहेन कुरुते यस्तु कुलं हन्ति त्रिपूरुषम् ॥
कानीकनश्च सहोञश्च तथोभौ कुण्डगोलकै । आरूढपतिताज्जातः परितस्यापि यः सुतः ।
षडेते विप्रचण्डाला निकृष्टाः श्वपचादपि ॥
यो यत्र तत्र वा रेतः सिक्त्वा शूद्रासु वा चरेत् ।
कामचारी स पापात्मा बीजं तस्याशुभं भवेत् ॥
अशुद्धं तद्भवेद्बीजं शुद्धां योनि न चार्हति ।
दूषयत्यपि तां योनिं शुना लीढं हविर्यथा ॥
शूद्रयोनौ पतेद्बीजं हाहाशब्दं द्विजन्मनः ।
कुर्यात्पुरीषगर्तेषु पतितोऽस्मीति दुःखितः ॥
मामधःपातयन्नेष पापात्मा काममोहितः ।
अधोगतिं प्रजोत्क्षिप्रमिति शप्त्वा पतेत्तु तत् ॥
आत्मा हि शुक्लमुद्दिष्टं दैवतं परमं महत् ।
तस्मात्सर्वप्रयत्नेन निरुन्ध्याच्छुक्लमात्मनः ॥
आयुस्तेजो बलं वीर्यं प्रज्ञा श्रीश्च महद्यशः ।
पुण्यं च मत्प्रियत्वं च लभते ब्रह्मचर्यया ॥
अविप्लुतब्रह्मचर्यैर्गृहस्थश्रममाश्रितैः ।
पञ्चयज्ञपरैर्धर्मः स्थाप्यते पृथिवीतले ॥
सायंप्रातस्तु ये सन्ध्यां सम्यङ्नित्यमुपासते ।
नावं वेदमयीं कृत्वा तरन्ते तारयन्ति च ॥
यो जपेत्पावनीं देवीं गायत्रीं वेदमातरम् ।
न सीदेत्प्रतिगृह्णानः पृथिवीं च ससागराम् ॥
ये चास्य दुःस्थिताः केचिद्ग्रहाः सूर्यादयो दिवि ।
ते चास्य सौम्या जायन्ते शिवाः शुभकरास्तथा ॥
यत्र यत्र स्थिताश्चैव दारुणाः पिशिताशनाः ।
घोररूपा महाकाया धर्षयन्ति न तं द्विजम् ॥
पुनन्तीह पृथिव्यां च चीर्णवेदव्रता नराः ।
चतुर्णामपि वेदानां सा हि राजन्गरीयसी ॥
अचीर्णिव्रतवेदा ये विकर्मफलमाश्रिताः । ब्राह्ममा नाममात्रेण तेऽपि पूज्या युधिष्ठिर ।
किं पुनर्यस्तु सन्ध्ये द्वे नित्यमेवोपतिष्ठते ॥
शीलमध्ययनं दानं शौचं मार्दवमार्जवम् ।
तस्माद्वेदाद्विशिष्टानि मनुराह प्रजापतिः ॥
भूर्भुवस्स्वरिति ब्रह्म यो वेदनिरतो द्विजः ।
स्वदारनिरतो दान्तः स विद्वान्स च भूसुरः ॥
सन्ध्यामुपासते ये वै नित्यमेव द्विजोत्तमाः ।
ते यान्ति नरशार्दूल ब्रह्मलोकं न संशयः ॥
सावित्रीमात्रसारोपि वरो विप्रः सुयन्त्रितः ।
नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥
सावित्रीं चैव वेदांश्च तुलयाऽतोलयन्पुरा । सदेवर्षिगणाश्चैव सर्वे ब्रह्मपुरस्सराः ।
चतुर्णामपि वेदानां सा हि राजन्गरीयसी ॥
यथा विकसिते पुष्पे मधु गृह्णन्ति षट्पदाः ।
एवं गृहीता सावित्री सर्ववेदे च पाण्डवः ॥
तस्मात्तु सर्ववेदानां सावित्री प्राण उच्यते ।
निर्जीवा हीतरे वेदा विना सावित्रिया नृपः ॥
नायन्त्रितश्चतुर्वेदी शीलभ्रष्टः स कुत्सितः ।
शीलवृत्तसमायुक्तः सावित्रीपाठको वरः ॥
सहस्रपरमां देवीं शतमध्यां दशावराम् ।
सावित्रीं जप कौतेय सर्वपापप्रणाशिनीम् ॥
युधिष्ठिर उवाच ।
त्रैलोक्यनाथ हे कृष्ण सर्वभूतात्मको ह्यसि ।
नानायोगपर श्रेष्ठ तुष्यसे केन कर्मणा ॥
भागवानुवाच ।
यदि भारसहस्रं तु गुग्गुल्वादि प्रधूपयेत् ।
करोति चेन्नमस्कारमुपहारं च कारयेत् ॥
स्तौति यः स्तुतिभिर्मां च ऋग्यजुस्सामभिः सदा ।
न तोषयति चेद्धिप्रान्नाहं तुष्यामि भारत ॥
ब्राह्मणे पूजिते नित्यं पूजितोस्मि न संशयः ।
आक्रुष्टे चाहमाक्रुष्टो भवामि भरतर्षभ ॥
परा मयि गतिस्तेषां पूजयन्ति द्विजं हि ये ।
यदहं द्विजरूपेण वसामि वसुधातले ॥
यस्तान्पूजयति प्राज्ञो मद्गतेनान्तरात्मना ।
तमहं स्वेन रूपेण पश्यामि नरपुङ्गव ॥
कुब्जाः काणा वामनाश्च दरिद्रा व्याधितास्तथा ।
नावमान्या द्विजाः प्राज्ञैर्मम रूपा हि ते द्विजाः ॥
ये केचित्सागरान्तायां पृथिव्यां द्विजसत्तमाः ।
मम रूपं हि तेष्वेवमर्चितेष्वर्चितोऽस्म्यहम् ॥
बहवस्तु न जानन्ति नरा ज्ञानबहिष्कृताः ।
यदहं द्विजरूपेण वसामि वसुधातले ॥
अवमन्यन्ति ये विप्रान्स्वधर्मान्पातयन्ति ते ।
प्रेषणैः प्रेषयन्ते च शुश्रूषां कारयन्ति च ॥
मृतांश्चात्र परत्रेमान्यमदूता महाबलाः ।
निकृन्तन्ति यथाकामं सूत्रमार्गेण शिल्पिनः ॥
आक्रोशपरिवादाभ्यां ये रमन्ते द्विजातिषु ।
तान्मृतान्यमलोकस्थान्निपात्य पृथिवीतले ॥
आक्रम्योरसि पादेन क्रूरः संरक्तलोचनः ।
अग्निवर्णैस्तु संदंशैर्यमो जिह्वां समुद्धरेत् ॥
ये च विप्रान्निरीक्षन्ते पापाः पापेन चक्षुषा ।
अब्रह्मण्याः श्रुतेर्बाह्या नित्यं ब्रह्मद्विषो नराः ॥
तेषां घोरा महाकाया वक्रतुण्डा महाबलाः ।
उद्धरन्ति मुहूर्तेन स्वगाश्चक्षुर्यमाज्ञया ॥
यः प्रहारं द्विजेन्द्राय दद्यात्कुर्याच्च शोणितम् । अस्थिभङ्गं च यः कुर्यात्प्राणैर्वा विप्रयोजयेत् ।
सोनुपूर्व्येण यातीमान्नरकानेकविंशतिम् ॥
शूलमारोप्यते पश्चाज्ज्वलने परिपच्यते । बहुवर्षसहस्राणि पच्यमानस्त्ववाक्छिराः ।
नावमुच्येत दुर्मेदा न तस्य क्षीयते गतिः ॥
ब्राह्मणान्वा विचार्यैव व्रजन्तै वधकाङ्क्षया ।
शतर्वषसहस्राणि तामिस्रे परिपच्यते ॥
उत्पाद्य शोणितं गात्रात्संरंभमतिपूर्वकम् ।
सपर्ययेण यातीमान्नरकानेकविंशतिम् ॥
तस्मान्नाकुशलं ब्रूयान्न शुष्कां गतिमीरयेत् ।
न ब्रूयात्परुषां वाणीं न चैवैनानतिक्रमेत् ॥
ये विप्राञ्श्लक्ष्णया वाचा पूजयन्ति नरोत्तमाः ।
अर्चितश्च स्तुतश्चैव तैर्भवामि न संशयः ॥
तर्जयन्ति च ये विप्रान्क्रोशयन्ति च भारत ।
आक्रुष्टस्तर्जितश्चाहं तैर्भवामि न संशयः ॥
यश्चन्दनैश्चागरुधूपदीपै- रभ्यर्चयेत्काष्ठमयीं ममार्चाम् ।
तेनार्चितो नैव भवामि सम्य- ग्विप्रार्चनादस्मि समर्चितोऽहम् ॥
विप्रप्रसादाद्धरणीधरोऽहं विप्रप्रसादादसुराञ्जयामि ।
विप्रप्रसादाच्च सदक्षिणोऽहं विप्रप्रसादादजितोऽहमस्मि ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥

श्रीः