अध्यायः 107

कृष्णेन युधिष्ठिरंप्रति साक्षाद्ब्रह्महत्याया अकरणेपि तत्तुल्यफलकदुष्कृतकथनम् । 1 ॥ तथा अभोज्यान्नानां पापिनां लक्षणकथनम् ॥ 2 ॥

युधिष्ठिर उवाच ।

इदं मे तत्वतो देव वक्तुमर्हस्यशेषतः ।
हिंसामकृत्वा यो मर्त्यो ब्रह्महत्यामवाप्नुयात् ॥
भगवानुवाच ।
ब्राह्मणं स्वयमाहूय भिक्षार्थं वृत्तिकर्शितम् ।
ब्रूयान्नास्तीति यः पश्चात्तमाहुर्ब्रह्मघातकम् ॥
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत ।
वृत्तिं हरति दुर्बुद्धइस्तमाहुर्ब्रह्मघातकम् ॥
आश्रमे वाऽऽलये वाऽपि ग्रामे वा नगरेऽपि वा ।
अग्निं यः प्रक्षिपेत्क्रुद्धस्तमाहुर्ब्रह्मघातकम् ॥
गोकुलस्य तृषार्तस्य जलान्ते वसुधाधिप ।
उत्पादयति यो विघ्नं तमाहुर्ब्रह्मघातकम् ॥
यः प्रवृत्तां श्रुतिं सम्यक्छास्त्रं वा मुनिभिः कृतम् ।
दूषयत्यनभिज्ञाय तमाहुर्ब्रह्मघातकम् ॥
चक्षुषा वाऽपि हीनस्य पङ्गोर्वाऽपि जडस्य वा ।
हरेद्वै यस्तु सर्वस्वं तमाहुर्ब्रह्मघातकम् ॥
गुरुं त्वंकृत्यं हुंकृत्य अतिक्रम्य च शासनम् ।
वर्तते यस्तु मूढात्मा तमाहुर्ब्रह्मघातकम् ॥
क्रोधाद्वा यदि वा द्वेषादाक्रुष्टस्तर्जितोपि वा ।
ऋतौ स्त्रियं वा नोपेयात्तमाहुर्ब्रह्मघातकम् ॥
यावत्सारो भवेद्दीनस्तन्नाशे यस्य दुःस्थितिः ।
तत्सर्वस्वं हरेद्यो वै तमाहुर्ब्रह्मघातकम् ॥
युधिष्ठिर उवाच ।
सप्वेषामपि दानानां यत्तु दानं विशिष्यते ।
अभोज्यान्नाश्च ये विप्रास्तान्ब्रवीहि सुरोत्तम ॥
भगवानुवाच ।
अन्नमेव प्रशंसन्ति देवा ब्रह्मपुरस्सराः ।
अन्नेन सदृशं दानं न भूतं न भविष्यति ॥
अन्नमूर्जस्करं लोके ह्यन्नात्प्राणाः प्रतिष्ठिताः ।
अबोज्यान्नान्मया राजन्वक्ष्यमाणान्निबोध मे ॥
दीक्षितस्य कदर्यस्य क्रुद्धस्य निकृतस्य च ।
अभिशप्तस्य षण्डस्य पाकभेदकरस्य च ॥
चिकित्सकस्य दूतस्य तथा चोच्छिष्टभोजिनः ।
उग्रान्नं सूतकान्नं च शूद्रोच्छेषणमेव च ॥
द्विषदन्नं न भोक्तव्यं पतितान्नं च यच्छ्रुतम् ।
तथा च पिशुनस्यान्नं यज्ञविक्रयिणस्तथा ॥
शैलूषं तन्तुवायान्नं कृतघ्नस्यान्नमेव च ।
अंबष्ठकनिषादानां रङ्गावतरकस्य च ॥
सुवर्णकर्तुर्वैणस्यि शस्त्रविक्रयिणस्तथा ।
सूताना शौण्डिकानां च वैद्यस्य रजकस्य च ॥
स्त्रीजितस्य नृशंसस्य तथा माहिषिकस्य च ।
अनिर्दशानां प्रेतानां गणिकानां तथैव च ॥
बन्दिनो द्यूतकर्तुश्च तथा द्यूतविदामपि ।
परिवित्तस्य यच्चान्नं परिवेत्तुस्तथैव च ॥
यश्चाग्रदिधिषुर्विप्रो दिधिषूपपिस्तथा ।
तयोरप्युभयोरन्नं राज्ञां चापि विवर्जयेत् ॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।
आयुः सुवर्णकारान्नं यशश्चार्मावकृन्तिनः ॥
गणान्नं गणिकान्नं च लोकेभ्यः परिकीर्तितम् ।
पूयं चिकित्सकस्यान्नं शुक्लं तु वृषलीपतेः ॥
विष्ठा वार्धुषिकस्यान्नं तस्मात्तत्परिवर्जयेत् ।
तेषां त्वगस्थिरोमाणि भुङ्क्ते योऽन्नं तु भक्षयेत् ॥
अमात्यान्नमथैतेषां भुक्त्वा तु त्रियहं क्षिपेत् ।
मत्या भुक्त्वा सकृद्वाऽपि प्राजापत्यं चरेद्द्विजः ॥
दानानां च फलं यद्वै शृणु पाण्डव तत्वतः ।
जलदस्तृप्तिमाप्नोति सुखमक्षयमन्नदः ॥
तिलदश्च प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ।
भूमदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः ॥
गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ।
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ॥
अनडुद्दः श्रियं जुष्टां गोदो गोलोकमश्नुते ।
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ॥
धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसाम्यताम् ।
सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ॥
हिरण्यभूगवाश्वाजवस्त्रशय्यासनादिषु । योर्चितः प्रतिगृह्णाति दद्यादुचितमेव च ।
तावुभौ गच्छतः स्वर्गं नरकं च विपर्यये ॥
अनृतं न वदेद्विद्वांस्तपस्तप्त्वा न विस्मयेत् ।
नार्तोप्यभिभवेद्विप्रान्न दत्त्वा परिकीर्तयेत् ॥
यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
आयुर्विप्रावमानेन दानं तु परिकीर्तनात् ॥
एकः प्रजायते जन्तुरेक एव प्रमीयते ।
अकोऽनुभुङ्क्ते सुकृतमेकश्चाप्नोति दुष्कृतम् ॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ ।
विमुखा बान्धवा यान्ति धर्मस्तमनुवर्तते ॥
अनागतानि कार्याणि कर्तुं गणयते मनः ।
शरीरकं समुद्दिश्य स्मयते नूनमन्तकः ॥
तस्माद्धर्मसहासस्तु धर्मं संचिनुयात्सदा ।
धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥
येषां तटाकानि बहूदकानि सभाश्च कूपाश्च शुभाः प्रपाश्च ।
अन्नप्रदानं मधुरा च वाणी यमस्य ते निर्विषया भवन्ति ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि सप्ताधिकशततमोऽध्यायः ॥ 107 ॥

श्रीः