अध्यायः 113
कृष्णेन युधिष्ठिरंप्रति कार्तिकादिद्वादशमासेषु एकभुक्तव्रताचरणप्रकारनिरूपणपूर्वकं तत्फलकथनम् ॥ 1 ॥
वैशंपायन उवाच ।
केशवेनैवमुक्ते तु चान्द्रायणविधिक्रमे ।
						अपृच्छत्पुनरन्यांश्च धर्मान्धर्मात्मजो नृप ॥
						युधिष्ठिर उवाच । 
					सर्वभूतपते श्रीमन्सर्वभूतनमस्कृत ।
						सर्वभूतहितं धर्मं सर्वज्ञ कथयस्व नः ॥
						भगवानुवाच । 
					यद्दरिद्रजनस्यापि स्वर्ग्यं सुखकरं भवेत् ।
						सर्वपापप्रशमनं तच्छृणुष्व युधिष्टिर ॥
					कार्तिकाद्यास्तु ये मासा द्वादशैव प्रकीर्तिताः ।
						तेष्वेकबुक्तनिमः सर्वेषामुच्यते मया ॥
					कार्तिके यस्तु वै मासे नन्दायां संयतेन्द्रियः ।
						एकभुक्तेन मद्भक्तो मासमेकं तु वर्तते ॥
					जलं वा न पिबेन्मासे नान्तरं भोजनात्परम् ।
						आदित्यरूपं मां नित्यमर्चयन्सुसमाहितः ॥
					व्रतान्ते भोजयेद्विप्रान्दक्षिणां सम्प्रदाय च ।
						क्रोधलोभविनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥
					विधिवत्कपिलादाने यत्पुण्यं समुदाहृतम् ।
							तत्पुण्यं समनुप्राप्य सूर्यकलोके महीयते ।
						
						ततश्चापि च्युतः कालात्पुरुषेषूपजायते ॥
						
					मार्गशीर्षं तु यो मासमेकभुक्तेन वर्तते ।
						
						कामं क्रोधं च लोभं च परित्यज्य यथाविधि ॥
						
					स्नात्वा चादित्यरूपं मामर्ययेन्नियतेन्द्रियः ।
						जपेच्चैव च गायत्रीं मामिकां वाग्यतेन्द्रियः ॥
					मासे परिसमाप्ते तु भोजयित्वा द्विजाञ्शुचिः ।
						तानर्चयति मद्भक्त्या तस्य पुण्यफलं शृणु ॥
					अग्निहोत्रे कृते पुण्यमाहिताग्नेस्तु यद्भवेत् ।
							तत्पुण्यं फलमासाद्य योनेनांऽबरशोभिना ।
						
						सह सप्तर्षिलोकेषु यथाकामं यथासुखम् ॥
						
					ततश्चापि च्युतः कालाद्धरिवर्षेषु जायते ।
						तत्र प्रकामं क्रीडित्वा राजा पश्चाद्भविष्यति ॥
					******** क्षिपेदेवमेकभुक्तेन यो नरः ।
						अर्चयन्नेव मां नित्यं मद्गतेनान्तरात्मना ॥
					अहिंसासत्यसहितः क्रोधहर्षविवर्जितः ।
						एवं युक्तस्य राजेन्द्र शृणु यत्फलमुत्तमम् ॥
					विप्रातिथ्यसहस्रेषु यत्पुण्यं समुदाहृतम् ।
						तत्पुण्यं समनुप्राप्य शक्रलोके महीयते ॥
					अवतीर्णस्ततः कालादिलावर्षेषु जायते ।
						तत्र स्थित्वा चिरं कालमस्मिन्विप्रो भविष्यति ॥
					माघमासं सदा यस्तु वर्तते चैकभुक्ततः ।
							मदर्चनपरो भूत्वा डंभक्तोधविवर्जितः ।
						
						मामिकामपि सावित्रीं सन्ध्यायां तु जपेद्बुधः ॥
						
					दत्त्वा दु दक्षिणामन्ते भोजयित्वा द्विजानपि ।
							नमिस्करोति तान्भक्त्या मद्गतेनान्तरात्मना ।
						
						त्रिकालस्नानयुक्तस्य तस्य पुण्यफलं शृणु ॥
						
					नीलकण्ठप्रयुक्तेन योनेनांऽबरशोभिना ।
						पितृलोकं व्रजेच्छ्रीमान्सेव्यमानोप्सरोणैः ॥
					तत्र प्रकामं क्रीडित्वा भद्राश्वेषूपजायते ।
						ततश्च्युतश्चतुर्वेदी विप्रो भवति भूतले ॥
					यश्चरेत्फाल्गुनं मासमेकभुक्तो जितेन्द्रियः ।
						नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रं जपेत्सदा ॥
					पायसं भोजयेद्विप्रान्व्रतान्ते संयतेन्द्रियः ।
						मदर्चनपरोऽक्रोधस्तस्य पुण्यफलं शृणु ॥
					विमानं सारसैर्युक्तमारूढः कामगामि च ।
						नक्षत्रलोके रमते नक्षत्रसदृशाकृतिः ॥
					ततश्चापि च्युतः कालात्केतुमालेषु जायते ।
						तत्र प्रकामं क्रीडित्वा मानुषेषु मुनिर्भवेत् ॥
					चैत्रमासं तु यो राजन्नेकभुक्तेन वर्तते ।
						ब्रह्मचारी च मद्भक्त्या तस्य पुण्यफलं शृणु ॥
					यदग्निहोत्रिणः पुण्यं यथोक्तं व्रतचारिणः ।
						तत्पुण्यफकलमासाद्य चन्द्रलोके महीयते ॥
					ततोऽवतीर्णो जायेत वर्षे रमणके पुनः ।
						भुक्त्वा कामांस्ततस्तस्मिन्निह राजा भविष्यति ॥
					वैशाखे यस्तु मासे वै ह्येकभुक्तेन वर्तते ।
						द्विजमग्रासने कृत्वा भुञ्जन्भूमौ च वाग्यतः ॥
					नमो ब्रह्मण्यदेवायेत्यर्चयित्वा दिवाकरम् ।
						व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु ॥
					फलं यद्विधिवत्प्रोक्तमग्निष्टोमातिरात्रयोः ।
						तत्पुण्यफलमासाद्य देवलोके महीयते ॥
					ततो हैमवते वर्षे जायते कालपर्ययात् ।
						तत्र प्रकामं क्रीडित्वा विप्रः पश्चाद्भविष्यति ॥
					ज्येष्ठमासं तु यो विप्रो ह्येकभुक्तेन वर्तते ।
						विप्रमग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि ॥
					नमो ब्रह्मण्यदेवायेत्युच्चरन्मां समाहितः ।
						डंभानृतविनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥
					चीर्णे चान्द्रायणे सम्यग्यत्पुण्यं समुदाहृतम् ।
						तत्पुण्यफलमासाद्य देवलोके महीयते ॥
					अथोत्तरकुरौ वर्षे जायते निर्गतस्ततः ।
						ततश्चापि च्युतः कालादिह लोके द्विजो भवेत् ॥
					आषाढमासं यो राजन्नेकभुक्तेन वर्तते ।
						ब्रह्मचारी जितक्रोधो मदर्चनपरायणः ॥
					विप्रमग्रासने कृत्वा भूमौ भुञ्जञ्जितेन्द्रियः ।
						कृत्वा त्रिषवणं स्नानमष्टाक्षरविधानतः ॥
					व्रतान्ते भोजयेद्विद्वान्पायसेन युधिष्ठिर ।
						गुडोदनेन राजेन्द्र तस्य पुण्यफलं शृणु ॥
					कपिलाशतदानस्य यत्पुण्यं पाण्डुनन्दन ।
						तत्पुण्यफलमासाद्य देवलोके महीयते ॥
					ततोऽवतीर्णः काले तु शाकद्वीपे तु जायते ।
						ततश्चापि च्युतः कालादिह विप्रो भविष्यति ॥
					श्रावणं यः क्षिपेन्मासमेकभुक्तेन वर्तते ।
							नमो ब्रह्मण्यदेवायेत्युक्त्वा मामर्चयेत्सदा ।
						
						विप्रमाग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि ॥
						
					पायसेनार्चयन्विप्राञ्जितक्रोधो जितेन्द्रियः ।
						लोभमोहविनिर्मुक्तस्तस्य पुण्यफलं शृणु ॥
					कपिलादानस्य यत्पुण्यं विधिदत्तस्य पाण्डव ।
						तत्पुण्यं सम***प्राप्य शक्रलोके महीयते ॥
					ततश्चापि च्युत कालात्कुशद्वीपे प्रजायते ।
						तत्रि प्रकामं क्रीडित्वा विप्रो भवति मानुषे ॥
					यस्तु भाद्रपदं मासमेकभुक्तेन वर्तते ।
						ब्रह्मचारी जितक्रोधः सत्यसन्धो जितेन्द्रियः ॥
					विप्रमग्रासने कृत्वा पाकभेदविवर्जितः ।
						नमो ब्रह्मण्यदेवायेत्युक्त्वाऽस्य चरणौ स्पृशेत् ॥
					तिलानपि घृतं वाऽपि व्रतान्ते दक्षिमां ददत् ।
						मद्भक्तस्य नरश्रेष्ठ तस्य पुण्यफलं शृणु ॥
					यत्फलं विधिवत्प्रोक्तं राजसूयाश्वमेधयोः ।
						तत्पुण्यफलमासाद्य शक्रलोके महीयते ॥
					ततश्चापि च्युतः कालाज्जायते धनदालये ।
						तत्र प्रकामं क्रीकडित्वा राजा भवति मानुषे ॥
					यश्चाप्याश्वयुजं मासमेकभुक्तेन वर्तते ।
							मद्गायत्रीं जपेद्भक्त्या मद्गतेनान्तरात्मना ।
						
						द्विसन्ध्यं वा त्रिसन्ध्यं वा शतमष्टोत्तरं तु वा ॥
						
					विप्रमग्रासने कृत्वा संयतेन्द्रियमानसः ।
						व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु ॥
					अश्वमेधस्य यत्पुण्यं विधिवत्पाण्डुनन्दन ।
						तत्पुण्यफलमासाद्य मम लोके महीयते ॥
					ततश्चापि च्युतः कालाच्छ्वेतद्वीपे प्रजायते ।
						तत्र भुक्त्वा च भोगांश्च ततो विप्रवरो भवेत् ॥ ॥
					इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधऱ्मपर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥ 113 ॥
श्रीः