अध्यायः 114

कृष्णेन युधिष्ठिरंप्रति केशवादिभगवन्मूर्त्युपास्तिपूर्वकं मार्गशीर्षादिद्वादशद्वादशीव्रताचरणफलकथनम् ॥ 1 ॥ युधिष्ठिरेण विस्तरेण कृष्णस्तवनम् ॥ 2 ॥ पुनः कृष्णेन युधिष्ठिराय एकादश्युपवासपूर्वकं द्वादश्यां भगवत्पूजायाः फलकथनम् ॥ 3 ॥

युधिष्ठिर उवाच ।

एवं संवत्सरं पूर्णमेकभुक्तेन यः क्षिपेत् ।
तस्य पुण्यफलं यद्वै तन्ममाचक्ष्व केशव ॥
भगवानुवाच ।
शृणु पाण्डव तत्त्वं मे वचनं पुण्यमुत्तमम् ।
यदकृत्वाऽथवा कृत्वा नरः पापैः प्रमुच्यते ॥
एकभुक्तेन वर्तेत नरः संवत्सरं तु यः ।
ब्रह्मचारी जितक्रोधो ह्यधश्शायी जितेन्द्रियः ॥
शुचिश्चि स्नानतो व्यग्रः सत्यवागनसूयकः । अर्चन्नेव तु मां नित्यं मद्गतेनान्तरात्मना ।
सन्ध्ययोस्तु जपेन्नित्यं मद्गायत्रीं समाहितः ॥
नमो ब्रह्मण्यदेवायेत्यसकृन्मां प्रणम्य च ।
विप्रमग्रासने कृत्वा यावकं भैत्रमेव वा ॥
भुक्त्वा तु वाग्यतो भूमावाचान्तस्य द्विजन्मनः ।
नमोऽस्तु वासुदेवायेत्युक्त्वा तु चरणौ स्पृशेत् ॥
मासेमासे समाप्ते तु भोजयित्वा द्विजाञ्शुचीन् ।
संवत्सरे ततः पूर्णे दद्यात्तु व्रतदक्षिणाम् ॥
नवनीतमयीं गां वा तिलधेनुमथापि वा । विप्रहस्तच्युतैस्तोयैः सहिरण्यैः समुक्षितः ।
तस्य पुण्यफलं राजन्कथ्यमानं मया शृणु ॥
दशजन्मकृतं पापं ज्ञानतोऽज्ञानतोपि वा ।
तद्विनश्यति तस्याशु नात्र कार्या विचारणा ॥
युधिष्ठिर उवाच ।
सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम् ।
यच्च निःश्रेयसं लोके तद्भवान्वक्तुमर्हति ॥
भगवानुवाच ।
शृणु राजन्यथापूर्वं मयाऽभीष्टं तु मोदते ।
तथा ते कथयिष्यामि मद्भक्ताय युधिषठिर ॥
यस्तु भक्त्या शुचिर्भूत्वा पञ्चम्यां मे नराधिप । उपवासव्रतं कुर्यात्त्रिकालं चार्चयंस्तु माम् ।
सर्वक्रतुफलं लब्ध्वा मम लोके महीयते ॥
युधिष्ठिर उवाच ।
भगवन्देवदेवेश पञ्चमी नाम का तव ।
तामहं श्रोतुमिच्छामि कथयस्व ममानघ ॥
भगवानुवाच ।
पर्वद्वयं च द्वादश्यां श्रवणं च नराधिप ।
मत्पञ्चमीति विख्यातां मत्प्रिया च विशेषतः ॥
तस्मात्तु ब्राह्मणश्रेष्ठैर्मन्निवेशितबुद्धिभिः ।
उपवासस्तु कर्तव्यो मत्प्रियार्तं विशेषतः ॥
द्वादश्यामेव वा कुर्यादुपवासमशक्नुवन् ।
तेनाहं परमां प्रीति यास्यामि नरपुङ्गव ॥
अहोरात्रेण द्वादश्यां मार्गशीर्षेण केशवम् ।
उपोष्य पूजयेद्यो मां सोऽस्वमेधफलं लभेत् ॥
द्वादश्यां पुष्यमासे तु नाम्ना नारायणं तु माम् ।
उपोष्य पूजयेद्यो मां वाजिमेधफलं लभेत् ॥
द्वादश्यां माघमासे तु मामुपोष्य तु माधवम् ।
पूजयेद्यः समाप्नोति राजसूयफलं नृप ॥
द्वादश्यां फाल्गुने मासि गोविन्दाख्यमुपोष्य माम् ॥
पूजयेद्यः समाप्नोति ह्यतिरात्रफलं नृप ॥
द्वादश्यां मासि चैत्रे तु मां विष्णुं समुपोष्य यः ।
पूजयंस्तदवाप्नोति पौण्डरीकस्य यत्फलम् ॥
द्वादश्यां मासि वैशाखे मधुसूदनसंज्ञितम् ।
उपोष्य पूजयेद्यो मां सोग्निष्टोमस्य पाण्डव ॥
द्वादश्यां ज्येष्ठमासे तु मामुपोष्य त्रिविक्रमम् ।
अर्ययेद्यः समाप्नोति गवां मेधफलं नृप ॥
आषाढे वामनाख्यं मां द्वादश्यां समुपोष्य यः ।
नरमेधस्य स फलं प्राप्नोति भरतर्षभ ॥
द्वादश्यां श्रावणे मासि श्रीधराख्यमुपोष्य माम् ।
पूजयेद्य समाप्नोति पञ्चयज्ञफलं नृप ॥
मासे भाद्रपदे यो मां हृषीकेशाख्यमर्चयेत् ।
उपोष्य स समाप्नोति सौत्रामणिफलं नृप ॥
द्वादश्यामाश्वयुङ्मासे पद्मनाभमुपोष्य माम् ।
अर्चयेद्यः समाप्नोति गोसहस्रफलं नृप ॥
द्वादश्यां कार्तिके मासि मां दामोदरसंज्ञितम् ।
उपोष्य पूजयेद्यस्तु सर्वक्रतुफलं नृप ॥
केवलेनोपवासेन द्वादश्यां पाण्डुनन्दन ।
यत्फलं पूर्वमुद्दिष्टं तस्यार्धं लभते नृप ॥
श्रावणेऽप्येवमेवं मामर्चयेद्भक्तिमान्नरः ।
मम सालोक्यमाप्नोति नात्र कार्या विचारणा ॥
मासेमासे समभ्यर्च्य क्रमशो मामतन्द्रितः ।
पूर्मे संवत्सरे कुर्यात्पुनः संवत्सरं तु माम् ॥
अविघ्नमर्चयानस्तु यो मद्भक्तो मत्परायणः ।
अविघ्नमर्चयानस्तु मम सायुज्यमाप्नुयात् ॥
अर्चयेत्प्रीतिमान्यो मां द्वादस्यां वेदसंहिताम् ।
स पूर्वोक्तफलं राजँल्लभते नात्र संशयः ॥
गन्धं पुष्पं फलं तोयं पत्रं वा मूलमेव वा ।
द्वादश्यां मम यो दद्यात्तत्समो नास्ति मत्प्रियः ॥
एतेन विधिना सर्वे देवाः शक्रपुरोगमाः ।
मद्भक्ता नरशार्दूल स्वर्गलोकं तु भुञ्जते ॥
वैशम्पायन उवाच ।
एवं वदति देवेशे केशवे पाडुनन्दनः ।
कृताञ्जलिः स्तोत्रमिदं भक्त्तया धर्मात्मजोऽब्रवीत् ॥
सर्वलोकेश देवेश हृषीकेशक नमोस्तु ते ।
सहस्रशिरसे नित्यं सहस्राक्ष नमोस्तु ते ॥
त्रयीमय त्रयीनाथ त्रयीस्तुत नमोनमः ।
यज्ञात्मन्यज्ञसंभूत यज्ञनाथ नमोनमः ॥
चतुर्मूर्ते चतुर्बाहो चतुर्व्यूह नमोनमः ।
लोकात्मँल्लोककृन्नाथ लोकावास नमोनमः ॥
सृष्टिसंहारकर्त्रे तु नरसिंह नमोनमः ।
भक्तप्रिय नमस्तेऽस्तु कृष्ण नाथ नमोनमः ॥
लोकप्रिय नमस्तेऽस्तु भक्तवत्सल ते नमः ।
ब्रह्मवास नमस्तेऽस्तु ब्रह्मनाथ नमोनमः ॥
रुद्ररूप नमस्तेऽस्तु रुद्रकर्मिरताय ते ।
पञ्चयज्ञ नमस्तेऽस्तु सर्वयज्ञ नमोनमः ॥
कृष्णप्रिय नमस्तेऽस्तु कृष्णनाथ नमोनमः ।
योगिप्रिय नमस्तेऽस्तु योगिनाथ नमोनमः ॥
हयवक्त्र नमस्तेऽस्तु चक्रपाणे नमोनमः ।
पञ्चभूत नमस्तेऽस्तु पञ्चायुध नमोनमः ॥
वैशम्पायन उवाच ।
भक्तिगद्गदया वाचा स्तुवत्येवं युधिष्ठिरे ।
गृहीत्वा केशवो हस्ते प्रीतात्मा तं न्यवारयत् ॥
निवार्य च पुनर्वाचा भक्तिनम्रं युधिष्ठिरम् ।
वक्तुमेव नरश्रेषठ धर्मपूत्रं प्रचक्रमे ॥
भगवानुवाच ।
अन्यवत्किमिदं राजन्मां स्तौषि नरपुङ्गव ।
तिष्ठ पृच्छ यथापूर्वं धर्मपूत्र युधिष्ठिर ॥
युधिष्ठिर उवाच ।
भगवंस्त्वत्प्रसादात्तु धर्मं स्मृत्वा पुनःपुनः ।
न शान्तिरस्ति मे देव नृत्यतीव च मे मनः ॥
इदं च धर्मसंपन्नं वक्तुमर्हसि माधव ।
कृष्णपक्षेषु द्वादश्यामर्चनीयः कथं भवेत् ॥
भगवानुवाच ।
शृणु राजन्यथापूर्वं तत्सर्वं कथयामि ते ।
परमं कृष्णद्वादश्यामर्चनायां फलं मम ॥
एकादश्यामुपोष्याथ द्वादश्यामर्चयेत्तु माम् ।
विप्रानपि यथालाभं पूजयेद्भक्तिमान्नरः ॥
स गच्छेद्दक्षिणामूर्तिं मां वा नात्र विचारणा ।
चन्द्रसालोक्यमथवा ग्रहनक्षत्रपूजितः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि चतुर्दशाधिकशततमोऽध्यायः ॥ 114 ॥

श्रीः