अध्यायः 115

कृष्णेन युधिष्ठिरंप्रति विषुवाख्यपुण्यकालस्य महिमानुवर्णनपूर्वकं तत्र दानादिप्रशंसनम् ॥ 1 ॥ तथा गायत्रीजपमाहात्म्यकथनम्, अश्वत्थमाहात्म्यकथनं च ॥ 2 ॥ तथा नानाधर्मकथनपूर्वकं शिंशुमाराकृतिनिरूपणम्, पञ्चगव्यविधानकथनं च ॥ 3 ॥

वैशम्पायन उवाच ।

केशवेनैवमाख्याते धर्मपुत्रः पुनःपुनः ।
पप्रच्छ दानकालस्य विशेषं च विधिं नृप ॥
युधिष्ठिर उवाच ।
देव किं फलमाख्यातं विषुवेष्मवरेश्वर ।
सूर्येन्दूपप्लवे चैव वस्तुमर्हति तत्फलम् ॥
भगवानुवाच ।
शृणुष्व राजन्विषुवे सोमार्कग्रहणेषु च ।
व्यतीपातेऽयने चैव दानं स्यादक्षयं फलम् ॥
राजन्नयनयोर्मध्ये विषुवं सम्प्रचक्षते ।
समे रात्रिदिने तत्र सन्ध्यायां विषुवे नृप ॥
ब्रह्माऽहं शङ्करश्चापि तिष्ठामः सहिताः सकृत् ।
क्रियाकरणकार्याणामेकीभावत्वकारणात् ॥
अस्माकमेकीभूतानां निष्कलं परमं पदम् ।
तन्मुहूर्तं परं पुण्यं राजन्विषुवसंज्ञितम् ॥
तदेवाद्यक्षरं ब्रह्म परं ब्रह्मेति कीर्तितम् ।
तस्मिन्मुहूर्ते सर्वे तु चिन्तयन्ति परं पदम् ॥
देवाश्च वसवो रुद्राः पितरश्चाश्विनौ तथा ।
साध्याश्च विश्वे गन्धर्वाः सिद्धा ब्रह्मर्षयस्तथा ॥
सोमादयो ग्रहाश्चैव सरितः सागरास्तथा ।
मरुतोत्सरसो नागा यक्षराक्षसगुह्यकाः ॥
एते चान्ये च राजेन्द्र विषुवे संयतेन्द्रियाः ।
सोपवासाः प्रयत्नेन भवन्ति ध्यानतत्पराः ॥
अन्नं गावस्तिलान्भूमिं कन्यादानं तथैव च । गृहमायतनं धान्यं वाहनं शयनं तथा ।
यच्चान्यच्च मया प्रोक्तं तत्प्रयच्छ युधिष्ठिर ।
दीयते विषुवेष्वेवं श्रोत्रियेभ्यो विशेषतः ॥
तस्य दानस्य कौन्तेय क्षयं नैवोपपद्यते ।
वर्धतेऽहरहः पुण्यं तद्दानं कोटिसंमितम् ॥
विषुवे स्नपनं यस्तु मम कुर्याद्धरस्य वा ।
अर्चनां च यतान्यायं तस्य पुण्यफलं शृणु ॥
दशजन्मकृतं पापं तस्य सद्यो विनश्यति ।
दशानामश्वमेधानामिष्टानां लभते फलम् ॥
विमानं दिव्यमारूढः कामरूपी यथासुखम् ।
स याति मामकं लोकं रुद्रलोकमथापि वा ॥
तत्रस्थैर्देवगन्धर्वेर्गीयमानो यथासुखम् ।
दिव्यवर्षसहस्राणि कोटिमेकं तु मोदते ॥
ततश्चापि च्युतः कालादिह लोके द्विजोत्तमः ।
चतुर्णामपि वेदानां पारगो ब्रह्मिविद्भवेत् ॥
चन्द्रसूर्यग्रहे व्योम्नि मम वा शङ्करस्य वा ।
गायत्रीं मामिकां वाऽपि जपेद्यः शङ्करस्य वा ॥
शङ्खर्तूर्यस्वनैश्चैव कांस्यघण्टास्वनैरपि ।
कारयेत्तु ध्वनिं भक्त्या तस्य पुण्यफलं शृणु ॥
गान्धर्वैर्होमजप्यैश्च जप्तैरुत्कृष्टनामभिः ।
दुर्बलोपि भवेद्राहुः सोमश्च बलवान्भवेत् ॥
सूर्येन्दूपप्लवे चैव श्रोत्रियेभ्यः प्रदीयते ।
तत्सहस्रगुणं भूत्वा दांतारमुपतिष्ठति ॥
महापातकयुक्तोपि यद्यपि स्यान्नरोत्तम ।
निष्पापस्तत्क्षणादेव तेन दानेन जायते ॥
चन्द्रसूर्यप्रकाशेन विमानेन विराजता ।
याति सोमपुरं रम्यं सेव्यमानोप्सरोगणैः ॥
यावदृक्षाणि तिष्ठन्ति गगने शशिना सह ।
तावत्कालं स रजेन्द्र सोमलोके महीयते ॥
ततश्चापि च्युतः कालादिह लोके युधिष्ठिर ।
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत् ॥
युधिष्ठिर उवाच ।
भगवंस्तव गायत्री जप्यते च कथं विभो ।
किं वा तस्य फळं देव ममाचक्ष्व सुरेश्वर ॥
भगवानुवाच ।
द्वादश्यां विषुवे चैव चन्द्रसूर्यग्रहे तथा ।
अयने श्रवणे चैव व्यतीपाते तथैव च ॥
अश्वत्तदर्शने चैव तथा मद्दर्शनेऽपि च । जप्या तु मम गायत्री चाथवाऽष्टाक्षरं नृप ।
आर्जितं दुष्कृतं तस्य नाशयेन्नात्र संशयः ॥
युधिष्ठिर उवाच ।
अश्वत्थदर्शनं चैव किं त्वद्दर्शनसंमितम् ।
एतत्कथय मे देव परं कौतूहलं हि मे ॥
भगवानुवाच ।
अहमश्वत्थरूपेण पालयामि जगत्त्रयम् ।
अस्वत्थो न स्थितो यत्र नाहं तत्र प्रतिष्ठितः ॥
यत्राहं संस्थितो राजन्नस्वत्थश्चापि तिष्ठति ।
यस्त्वेनमर्चयेद्भक्त्या स मां साक्षात्समर्चति ॥
यस्त्वेनं प्रहरेत्कोपान्मामेव प्रहरेत्तु सः ।
तस्मात्प्रदक्षिणं कुर्यान्न चिन्द्यादेनमन्वहम् ॥
व्रतस्य पारणं तीर्थमार्जवं तीर्थमुच्यते ।
देवशुश्रूषणं तीर्तचं गुरुशुश्रूषणं तथा ॥
पितृशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा ।
दाराणां तोषणं तीर्तं गार्हस्थ्यं तीर्थमुच्यते ॥
आतिथेयः परं तीर्थं ब्रह्मतीर्थं सनातनम् ।
ब्रह्मिचर्यं परं तीर्तं त्रेताग्निस्तीर्थमुच्यते ॥
मूलं धर्मं तु विज्ञाय मनस्तत्रावधार्यताम् ॥
गच्छ तीर्थानि कौन्तेय धर्मो धर्मेण वर्धते ॥
द्विविधं तीर्थमित्याहुः स्थावरं जङ्गमं तथा ।
स्तावराज्जङ्गमं तीर्थं ततो ज्ञानपरिग्रहः ॥
कर्म्णाऽपि विशुद्धस्य पुरुषस्येह भारत ।
हृदये सर्वतीर्थानि तीर्थभूतः स उच्यते ॥
गुरुतीर्थं परं ज्ञानमतस्तीर्तं न विद्यते ।
ज्ञानतीर्तं परं तीर्तं ब्रह्मतीर्तं सनातनम् ॥
क्षमा तु परमं तीर्तं सर्वतीर्थेषु पाण्डव ।
क्षमावतामयं लोकः परश्चैव क्षमावताम् ॥
मानितोऽमानितो वाऽपि पूजितोऽपूजितोपि वा ।
आक्रुष्टस्तर्जितो वाऽपि क्षमावांस्तीर्थमुच्यते ॥
क्षमा यशः क्षमा दानं क्षमा यज्ञः क्षमा दमः ।
क्षमाऽहिंसा क्षमा धर्मः क्षमा चेन्द्रियनिग्रहः ॥
क्षमा दया क्षमा यज्ञः क्षमयैव धृतं जगत् ।
क्षमावान्ब्राह्मणो देवः क्षमावान्ब्राह्मणो वरः ॥
क्षमावानाप्नुयात्स्वर्गं क्षमावानाप्नुयाद्यशः ।
क्षमावान्प्राप्नुयान्मोक्षं तस्मात्साद्युः स उच्यते ॥
आत्मा नदी भारतपुण्यतीर्थ- मात्मा तीर्थं सर्वतीर्थप्रधानम् ।
आत्मा यज्ञः सततं मन्यते वै स्वर्गो मोक्षः सर्वमात्मन्यधीनम् ॥
आचारनैर्मल्यमुपागतेन सत्यक्षमानिस्तुलशीतलेन ।
ज्ञानांबुना स्नाति हि नित्यमेवं किं तस्य भूयः सलिलेन तीर्थम् ॥
युधिष्ठिर उवाच ।
भगवन्सर्वपापघ्नं प्रायश्चित्तमदुष्करम् ।
त्वद्भक्तस्य सुरश्रेष्ठ मम त्वं वक्तुमर्हसि ॥
भगवानुवाच ।
रहलस्यमिदमत्यर्थमश्राव्यं पापकर्मणाम् ।
अधार्मिकाणामश्राव्यं प्रायश्चित्तं ब्रवीमि ते ॥
पावनं ब्राह्ममं दृष्ट्वा मद्गतेनान्तरात्मना ।
नमो ब्रह्मण्यदेवायेत्यभिवादनमाचरेत् ॥
प्रदक्षिणं च यः कुर्यात्पुनरष्टाक्षरेण तु ।
तेन तुष्टेन विप्रेणि तत्पापं क्षपयाम्यहम् ॥
पोत्रकृष्टां वराहस्य मृत्तिकां शिरसा वहन् ।
प्राणायामशतं कृत्वा नरः पापैः प्रमुच्यते ॥
दक्षिणावर्तशङ्खाद्वा कपिलाशृङ्गतोपि वा ।
प्राक्स्रोतसं नदीं गत्वा ममायतनसंनिधौ ॥
सलिलेन तु यः स्नायात्सकृदेव रविग्रहे ।
तस्य यत्संचितं पापं तत्क्षणादेव नश्यति ॥
मस्तकान्निस्सृतैस्तोयैः कपिलाया युधिष्ठिर । गोमूत्रेणापि यः स्नायाद्रोहिण्यां मम वा दिने ।
विप्रपादच्युतैर्वाऽपि तोयैः पापं प्रणश्यति ॥
नमस्येद्यस्तु मद्भक्त्या शिंशुमारं प्रजापतिम् ।
चतुर्दशाङ्गसंयुक्तं तस्य पापं प्रणस्यति ॥
ततश्चतुर्दशाङ्गानि शृणु तस्य युधिष्ठिर ।
शिरो धर्मो हनुर्ब्रह्मा वृषावुत्तरदक्षिणौ ॥
हृदयं तु भवेद्विष्णुरंसौ स्यातां तथाऽश्विनौ ।
अत्रिर्मध्यं भवेद्राजँल्लिङ्गं संवत्सरं भवेत् ॥
मित्रावरुणकौ पादावूरुद्वन्द्वं हुताशनः ।
ततः पश्चाद्भवेदिन्द्रस्ततः पश्चात्प्रजापतिः ॥
अभयं च ततः पश्चात्स एव ध्रुवसंज्ञिकः ।
एतान्यङ्गानि सर्वाणि शिंशुमारप्रजापतेः ॥
विबेत्तु पञ्चगव्यं यः पौर्णमास्यामुपोष्य तु ।
तस्य नश्यति यत्पापं तत्पापं पूर्वसंचितम् ॥
तथैव ब्रह्मकूर्च तु समन्त्रं तु पृथक्पृथक् ।
मासिमासि विबेद्यस्तु तस्य पापं प्रणश्यति ॥ पात्रं च ब्रह्मकूर्चं च शृणु तत्र च भारत ।
पालाशं पद्मपत्रं च ताम्रं वाऽथ हिरण्ययम् ।
सादयित्वा तु गृह्णीयात्तत्तु पात्रमुदाहृतम् ॥
गायत्र्या गृह्णते मूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राण्वेति वै दधि ॥
तेजोसिशुक्लमित्याज्यं देवस्यत्वेति कुशोदकम् ।
आपोहिष्ठेत्यृचा गृह्यि यवचूर्णं यथाविधि ॥
ब्रह्मणे च यथा हुत्वा समिद्धे च हुताशने ।
आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु ॥
उद्धृत्य प्रणवेनैव पिबेतु प्रणवेन तु ।
महताऽपि स पापेन त्वचेवाहिर्विमुच्यते ॥
भद्रं न हति यः पादं पठन्नृक्सहितां तदा ।
अन्तर्जले वाऽभ्यादित्ये तस्य पापं प्रणश्यति ॥
मम सूक्तं जपेद्यस्तु नित्यं मद्गतमानसः ।
न पापेन स लिप्येत पद्मपत्रमिवांभसा ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकप्रर्वणि वैष्णवधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥ 115 ॥

श्रीः