अध्यायः 009

अश्वमेधपर्व ॥ 1 ॥

बृहस्पतिना इन्द्रंप्रति स्वानुजेन संवर्तेन मरुत्तस्य याजनकथनपूर्वकं तद्विघटनचोदना ॥ 1 ॥ अग्निना मरुत्तमेत्य याजनाय बृहस्पतिस्वीकरणरूपेन्द्रसन्देशकथनम् ॥ 2 ॥ तथा पुनरिन्द्रमेत्य मरुत्तेन स्वसंदेशापरिग्रहणनिवेदनम् ॥ 3 ॥ तथा इन्द्रेण पुनर्मरुत्ते स्वसन्देशनिवेदनचोदने संवर्ततपोभयात्तदनङ्गीकरणम् ॥ 4 ॥

इन्द्र उवाच ।

कच्चित्सुखं स्वपिषि त्वं बृहस्पते कच्चिन्मनोज्ञाः परिचारकास्ते ।
कच्चिद्देवानां सुखकामोसि विप्र कच्चिद्देवास्त्वां परिपालयन्ति ॥
बृहस्पतिरुवाच ।
सुखं शये शयने देवराज तथा मनोज्ञाः परिचारका मे ।
तथा देवानां सुखकामोस्मि नित्यं देवाश्च मां सुभृशं पालयन्ति ॥
इन्द्र उवाच ।
कुतो दुःखं मानसं देहजं वा पाण्डुर्विवर्णश्च कुतस्त्वमद्य ।
आचक्ष्व मे ब्राह्मण यावदेता- न्निहन्मि सर्वांस्तव दुःखकर्तॄन् ॥
बृहस्पतिरुवाच ।
मरुत्तमाहुर्मघवन्यक्ष्यमाणं महायज्ञेनोत्तमदक्षिणेन ।
संवर्तो याजयतीति मे श्रुतं तदिच्छामि न स तं याजयेत् ॥
इन्द्र उवाच ।
सर्वान्कामाननुयातोसि विप्र त्वं देवानां मन्त्रयसे पुरोधाः ।
उभौ च ते जरामृत्यू व्यतीतौ किं संवर्तस्तव कर्ताऽद्य विप्र ॥
बृहस्पतिरुवाच ।
देवैः सह त्वमसुरान्सम्प्रणुद्य जिघांससे चाप्युत सानुबन्धान् ।
यंयं समृद्धं पश्यसि तत्रतत्र दुःखं सपत्नेषु समृद्धिभावः ॥
अतोस्मि देवेन्द्र विवर्णरूपः सपत्नो मे वर्धते तन्निशम्य ।
सर्वोपायैर्मघवन्संनियच्छ संवर्तं वा पार्थिवं वा मरुत्तम् ॥
इन्द्र उवाच ।
एहि गच्छ प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते ।
अयं वै त्वां याजयिता बृहस्पति- स्तथाऽमरं चैव करिष्यतीति ॥
अग्निरुवाच ।
अहं गच्छामि तव शक्राद्य दूतो बृहस्पतिं परिदातुं मरुत्ते ।
वाचं सत्यां पुरुहूतस्य कर्तुं बृहस्पतेश्चापचितिं चिकीर्षुः ॥
व्यास उवाच ।
ततः प्रायाद्धूमकेतुर्महात्मा वनस्पतीन्वीरुधश्चावमृद्गन् ।
कामाद्धिमान्ते परिवर्तमानः काष्ठातिगो मातरिश्वेव नर्दन् ॥
मरुत उवाच ।
आश्वर्यमद्य पश्यामि रूपिणं वह्निमागतम् ।
आसनं सलिलं पाद्यं गां चोपानय वै मुने ॥
अग्निरुवाच ।
आसनं सलिलं पाद्यं प्रतिनन्दामि तेऽनघ ।
इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् ॥
मरुत उवाच ।
कच्चिच्छ्रीमान्देवराजः सुखी च कच्चिच्चास्मान्प्रीयते धूमकेतो ।
कच्चिद्देवा अस्य वशे यथाव- त्प्रब्रूहि त्वं मम कार्त्स्न्येन देव ॥
अग्निरुवाच ।
शक्रो भृशं सुसुखी पार्थिवेन्द्र प्रातिं चेच्छत्यजरां वै त्वया सः ।
देवाश्च सर्वे वशगास्तस्य राज- न्संदेशं त्वं शृणु मे देवराज्ञः ॥
यदर्थं मां प्राहिणोत्त्वत्सकाशं बृहस्पतिं परिदातुं मरुत्ते ।
अयं गुरुर्याजयतां नृप त्वां मर्त्यं सन्तममरं त्वां करोतु ॥
मरुत उवाच ।
संवर्तोऽयं याजयिता द्विजो मां बृहस्पतेरञ्जलिरेष तस्य ।
न चैवासौ याजयित्वा महेन्द्रं मर्त्यं सन्तं याजयन्नद्य शोभेत् ॥
अग्निरुवाच ।
ये वै लोका देवलोके महान्तः सम्प्राप्स्यसे तान्देवराजप्रसादात् ।
त्वां चेदसौ याजयेद्वै बृहस्पति- र्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः ॥
तथा लोका मानुषा ये च दिव्याः प्रजापतेश्चापि ये वै महान्तः ।
तेते जिता देवराज्यं च कृत्स्नं बृहस्पतिर्याजयेच्चेन्नरेन्द्र ॥
संवर्त उवाच ।
मा स्मैव त्वं पुनरागाः कथंचि- द्बृहस्पतिं परिदातुं मरुत्ते ।
मा त्वां धक्ष्ये चक्षुषा दारुणेन संक्रुद्धोऽहं पावक त्वं निबोधः ॥
व्यास उवाच ।
ततो देवानगमद्धूमकेतु- दीहाद्भीतो व्यथितोऽश्वत्थपर्णवत् ।
तं वै दृष्ट्वा प्राह शक्रो महात्मा बृहस्पतेः सन्निधौ हव्यवाहम् ॥
यस्त्वं गतः प्रहितो जातवेदो बृहस्पतिं परिदातुं मरुत्ते ।
तत्किं प्राह स नृपो यक्ष्यमाणः कच्चिद्वचः प्रतिगृह्णाति तच्च ।
अग्निरुवाच ।
न ते वाचं रोचयते मरुत्तो बृहस्पतेरञ्जलिं प्राहिणोत्सः ।
संवर्तो मां याजयितेत्युवाच पुनः पुनः स मया याच्यमानः ॥
उवाचेदं मानुषा ये च दिव्या । प्रजापतेर्ये च लोका महान्तः ।
तांश्चेल्लभेयं संविदं तेन कृत्वा तथापि नेच्छेयमिति प्रतीतः ॥
इन्द्र उवाच ।
पुनर्गत्वा पार्थिवं त्वं समेत्य वाक्यं मदीयं प्रापय स्वार्थयुक्तम् ।
पुनर्यद्युक्तो न करिष्यते वच- स्त्वत्तो वज्रं सम्प्रहर्तास्मि तस्मै ॥
अग्निरुवाच ।
गन्धर्वराड्यात्वयं तत्र दूतो बिभेम्यहं वासव तत्र गन्तुम् ।
संरब्धो मामब्रवीत्तीक्ष्णरोषः संवर्तो वाक्यं चरितब्रह्मचर्यः ॥
यद्यागच्छेः पुनरेवं कथंचि- द्बृहस्पतिं परिदातुं मरुत्ते ।
दहेयं त्वां चक्षुषा दारुणेन संक्रुद्ध इत्येतदवैहि शक्र ॥
शक्र उवाच ।
त्वमेवान्यान्दहसे जातवेदो न हि त्वदन्यो विद्यते भस्मकर्ता ।
त्वत्संस्पर्शात्सर्वलोको बिभेति अश्रद्धेयं वदसे हव्यवाह ॥
अग्निरुवाच ।
दिवं देवेन्द्र पृथिवीं च सर्वां संवेष्टयेस्त्वं स्वबलेनैव शक्र ।
एवंविधस्येह सतस्तवासौ कथं वृत्रस्त्रिदिवं प्राग्जहार ॥
इन्द्र उवाच ।
नगण्डिकाकारयोगं करेऽणुं न चारिसोमं प्रपिबामि वह्ने ।
न क्षीणशक्तौ प्रहारामि वज्रं को मे सुखाय प्रहरेत मर्त्यः ॥
प्रव्रजयेयं कालकेयान्पृथिव्या- मपाकर्षन्दानवानन्तरिक्षात् ।
दिवः प्रह्लादमवसानमानयं को मेऽसुखाय प्रहरेत मानवः ॥
अग्निरुवाच ।
यत्र शर्यातिं च्यवनो याजयिष्य- न्सहाश्विभ्यां सोममगृह्णदेकः ।
तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ता- च्छर्यातियज्ञं स्म तं महेन्द्र ॥
वज्रं गृहीत्वा च पुरन्दर त्वं सम्प्राहार्षीश्च्यवनस्यातिघोरम् ।
स ते विप्रः सह वज्रेणि बाहु- मपागृह्णात्तपसा जातमन्युः ॥
ततो रोषात्सर्वतो घोररूपं सपत्नं ते जनयामास भूयः ।
मदं नाम्ना चासुरं विश्वरूपं यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः ॥
हनुरेका जगतीस्था तथैका दिवं गता महतो दानवस्य ।
सहस्रं दन्तानां शतयोजनानां सुतीक्ष्णानां घोररूपं बभूव ॥
वृत्ताः स्थूला रजतस्तम्भवर्णा दंष्ट्राश्चतस्रो द्वे शते योजनानाम् ।
स त्वां दन्तान्विदशन्नभ्यधाव- ज्जिघांसया शूलमुद्यम्य घोरम् ॥
तं नापश्यस्त्वं तदा घोररूपं सर्वे वै त्वां ददृशुर्दर्शनीयम् ।
यस्माद्भीतः प्राञ्जलिस्त्वं महर्षि- मागच्छेथाः शरणं दानवघ्न ॥
क्षात्राद्बलाद्ब्रह्मबलं गरीयो न ब्रह्मतः किञ्चिदन्यद्गरीयः ।
सोहं जानन्ब्रह्मतेजो यथाव- न्न संवर्त गन्तुमिच्छामि शक्र ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि नवमोऽध्यायः ॥ 9 ॥

7-9-29 नाहं दौर्बल्याद्वृत्रेण जित इति वक्तं स्वसामर्थ्यमिन्द्रो वह्निप्रति वदति नगण्डिकाकारयोगं करेणुम् । नगं पर्वतं डीयते विहायसा गच्छतीति डीः पक्षी अल्पो डीर्डिका मक्षिकामशकादिस्तस्या आकारेण योगोस्यास्तीत्येवंरूपं अणुं सूक्ष्मं करेकुर्वे । कृञश्छान्दसं भौवादिकत्वम् । करेणेतिपाठे करोमीत्यध्याहारः । पार्थोधिं करे कर्तुमगस्त्य इवाहं पर्वतमपि मशकीकर्तुं समर्थोस्मीत्यर्थः । कुतस्तर्हि वृत्रस्त्वां नाराधितवानित्यत आह न चारिसोमं प्रपिबामि वह्ने । अरिसोमं शत्रुदत्तं सोमम् । त्वयैव स कुती न निर्जित इत्यत आह न क्षीणशक्तौ प्रहरामि वज्रमित्यादिना न दण्डकान्नारकान्नो कलिङ्गान्न करूशान्सोमं प्रपिबामि वह्ने । न दुर्बलायावसृजामि वज्रं को मे सुखी यः प्रहरेन्मनुष्यः इति क.थ.पाठः ॥

श्रीः