अध्यायः 022

अश्वमेधपर्व ॥ 1 ॥

कृष्णेनार्जुनंप्रति दशेन्द्रियगुणादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः ॥ 1 ॥

ब्राह्मण उवाच ।

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निबोध दशहोतृणां विधानमिह यादृशम् ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चरणौ करौ ।
उपस्थं पायुरिति वाग्घोतृणि दश भामिनि ॥
शब्दस्पर्शौ रूपरसौ गन्धो वाक्यं क्रिया गतिः ।
रेतोमूत्रपुरीषाणां त्यागो दश हवींषि च ॥
दिशो वायू रविश्चन्द्रः पृथ्व्यग्नी विष्णुरेव च ।
इन्द्रः प्रजापतिर्मित्रमग्नयो दश भामिनि ॥
दशेन्द्रियाणि होतृणि हवींषि दश भामिनि ।
विषया नाम समिधो हूयन्ते तु दशाग्निषु ॥
चित्तं स्रुवश्च वित्तं च पवित्रं ज्ञानमुत्तमम् ।
सुविभक्तमिदं पूर्वं जगदासीदिति श्रुतम् ॥
`ततो विविक्ता वित्तासीत्सा वित्तं पर्यवेक्षते ।' सर्वमेवात्र विज्ञेयं चित्ते ज्ञानमवेक्षता ।
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ॥
शरीरभृद्गार्हपत्यस्तस्मादग्निः प्रणीयते ।
मनश्चाहवनीयस्तु तस्मिन्प्रक्षिप्यते हविः ॥
ततो वाचस्पतिर्जज्ञे तं मनः पर्यवेक्षते ।
रूपं भवति वै वक्त्रं तदनुद्रवते मनः ॥
ब्राह्मण्युवाच ।
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् ।
मनसा चिन्तितं पूर्वं वाक्यं समभिपद्यते ॥
केन विज्ञानयोगेन मतिश्चित्तं समास्थिता ।
समुन्नीता नाध्यगच्छत्को वै तां प्रतिबाधते ॥
ब्राह्मण उवाच ।
तन्मनस्थः पतिर्भूत्वा तस्मात्प्रेहन्निवायति ।
तां मतिं मनसः प्राहुर्मनस्तस्मादपेक्षते ॥
प्रश्नं तु वाङ्मनसयोर्यस्मात्त्वमनुपृच्छसि ।
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ॥
उभे वाङ्मनसी गत्वा भूतात्मानमपृच्छताम् ।
आवयोः श्रेष्ठमाचक्ष्व च्छिन्धि नौ संशयं विभो ॥
मन इत्येवि भगवांस्तदा प्राह सरस्वतीम् ।
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ॥
ब्राह्मण उवाच ।
स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम ।
स्थावरं मत्सकाशे वै जङ्गमं विषये तव ॥
यस्तु ते विषये गच्छन्मन्त्रो वर्णः स्वरोपि वा ।
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ॥
तस्माद्भवितुमर्हामि स्वयमभ्येत्य शोभने ।
तस्मादुच्छ्वासमासाद्य प्रवक्ष्यामि सरस्वति ॥
प्राणापानावन्तरे यद्वाग्वै नित्यं स्म तिष्ठति । प्रीयमाणा महाभागे विना प्राणांश्च मामपि ।
प्रजापतिमुपाधावत्प्रसीद भगवन्निति ॥
ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः ।
तस्मादुच्छ्वासमासाद्य न वाग्वदति कर्हिचित् ॥
घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते ।
तयोरपि च घोषिण्या निर्घोर्षैव गरीयसी ॥
गौरिव प्रस्रवत्यर्थान्रसमुत्तमशालिनी ।
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ॥
दिव्यादिव्यप्रभावेन भारती गौः शुचिस्मिते ।
एतयोरन्तरं पश्य सूक्ष्मयोर्यतमानयोः ॥
ब्राह्मण्युवाच ।
अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया ।
किंन्नु पूर्वं तदा देवी व्याजहार सरस्वती ॥
ब्राह्मण उवाच ।
प्राणेन य सम्भवते शरीरे प्राणादपानं प्रतिपद्यते च ।
उदानभूता च विसृज्य देहं व्यानेन सर्वं दिवमावृणोति ॥
ततः समाने प्रतितिष्ठतीह इत्येव पूर्वं प्रजजल्प वागपि ।
तस्मान्मनः स्थावरत्वाद्विशिष्टं तथा देवी जङ्गमत्वाद्विशिष्टाः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥

7-22-22 मासमुत्तमशालिनीति क.ट.थ.पाठः ॥

श्रीः