अध्यायः 026

अथानुगीतापर्व 2

कृष्णेन युधिष्ठिरंप्रति कर्तृकर्मादिप्रतिपादकब्राह्मणदंपतिसंवादानुवादः ॥ 1 ॥

ब्राह्मण उवाच ।

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
चातुर्होत्रविधानस्य विदानमिह यादृशम् ॥
तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते ।
शृणु मे गदतो भद्रे रहस्यमिदमुद्भुतम् ॥
करणं कर्म कर्ता च मोक्ष इत्येव भामिनि ।
चत्वार एते होतारो यैरिदं जगदावृतम् ॥
होतॄणां साधनं चैव शृणु सर्वमशेषतः । घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् ।
मनो बुद्धिश्च सप्तैते ज्ञेयाः कारणहेतवः ॥
गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः ।
मन्तव्यमवबोद्धव्यं सप्तैते कर्महेतवः ॥
घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः ।
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ॥
स्वगुणान्भक्षयन्त्येते गुणवन्तः शुभाशुभान् ।
असन्तो निर्गुणाश्चैते सप्तैते मोक्षहेतवः ॥
विदुषां बुध्यमानानां स्वंस्वं स्थानं यथाविधि ।
गुणास्ते देवता भूत्वा सततं भुञ्जते हविः ॥
`अदन्हवींषि चान्नानि ममत्वेन विहन्यते ।' आत्मार्थे पाचयन्नन्नं ममत्वेनोपहन्यते ॥
अभक्ष्यभक्षणं चैव मद्यपानं च हन्ति तम् ।
स चान्नं हन्ति तं चान्नं स हत्वा हन्यते पुनः ॥
हन्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः ।
न चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ॥
मनसा मन्यते यच्च यच्च वाचा निगद्यते ।
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते ॥
स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् ।
मनस्येतानि संयम्य हवींष्येतानि सर्वशः ॥
गुणवत्पावको मह्यं दीप्यतेऽन्तःशरीरगः । योगयज्ञः प्रवृत्तो मे ज्ञानं ब्रह्ममयो हविः । प्राणस्तोत्रोऽपानशस्त्रः सर्वत्यागसुदक्षिणः ॥
कर्ताऽनुमन्ता ब्रह्मात्मा होताऽध्वर्युः कृतस्तुतिः ऋतं प्रशास्ता तच्छस्त्रमपवर्गोऽस्य दक्षिणा ॥
ऋचश्चाप्यत्र शंसन्ति नारायणविदो जनाः ।
नारायणाय देवाययदविन्दन्पशून्पुरा ॥
तत्र सामानि गायन्ति तत्र चाहुर्निदर्शनम् ।
देवं नारायणं भीरु सर्वात्मानं निबोध तम् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षडिंशोऽध्यायः ॥ 26 ॥

7-26-11 अद्यमन्नमदन्नह्नि पुनरिति क.पाठः ॥ 7-26-14 दीप्यते हव्यवाहन इति क.ट.थ.पाठः ॥

श्रीः