अध्यायः 027

अथानुगीतापर्व-2

कृष्णेन युधिष्ठिरंप्रति प्रजापतिना एकेनैव शब्देन परब्रह्मोपदेशे देवर्ष्यादीनां स्वस्वयोग्यतानुसारेण नानार्थावगमप्रतिपादकब्राह्मणदंपतिसंवादानुवादः ॥ 1 ॥

ब्राह्मण उवाच ।

एकः शास्ता न द्वितीयोस्ति शास्ता यो हृच्छयस्तमहमनु ब्रवीमि ।
तेनैव युक्तः प्रवणादिवोदकं यथा नियुक्तोस्मि तथा वहामि ॥
एको गुरुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि ।
तेनानुशिष्टा गुरुणा सदैव पुरा हता दानवाः सर्व एव ॥
एको बन्धुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि ।
तेनानुशिष्टा बान्धवा बन्धुमन्तः सप्तर्षयः पार्थ दिवि प्रभान्ति ॥
एकः श्रोता नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि ।
तस्मिन्गुरौ गुरुवासं निरुष्यट शक्रो गतः सर्वलोकामरत्वम् ॥
एको द्वेष्टा नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनु ब्रवीमि ।
तेनानुशिष्टा गुरुणा सदैव लोके द्विष्टाः पन्नगाः सर्व एव ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ॥
देवर्षयश्च नागाश्चाप्यसुराश्च प्रजापतिम् ।
पर्यपृच्छन्नुपासीनं श्रेयोः नः प्रोच्यतामिति ॥
तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् ।
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ॥
तेषां प्रद्रवमाणानामुपदेशं च शृण्वताम् ।
सर्पाणां दंशने भावः प्रवृत्तः पूर्वमे तु ॥
असुराणां प्रवृत्तस्तु दंभभावः स्वभावजः ।
दानं देवा व्यवसिता दममेव महर्षयः ॥
एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः ।
नानाव्यवसिताः सर्वे सर्पदेवर्षिदानवाः ॥
शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् ।
पृच्छतस्तदतो भूयो गुरुरन्यो न विद्यते ॥
तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते ।
गुरुर्बन्धुश्च शास्ता च द्वेष्टा च हृदि संश्रिताः ॥
पापेन विचरँल्लोके पापचारी भवत्ययम् ।
शुभेन विचरँल्लोके शुभचारी भवत्युत ॥
कामचारी तु कामेन य हन्द्रियसुखे रतः ।
ब्रह्मचारी सदैवैष य इन्द्रियजये रतः ॥
अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः ।
ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम् ॥
ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः ।
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ॥
एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः ।
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिताः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥

7-27-1 एकः शास्ता न द्वितीयोस्ति कश्चिद्यथा नियुक्तोऽस्मि तथा चरामि । हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता तेनानुयुक्तः प्रवणादिवोदकमिति क.ट.द.पाठः ॥ 7-27-7 देवाश्च ऋषयश्चेति द्वन्द्वः ॥ 7-27-8 प्राद्रवन्प्रतिपेदिरे । दिशो बहून्मार्गान् ॥ 7-27-13 गुरुर्बोद्धा च श्रोता च द्वेष्टा च हृदि निःसृत इति झ.पाठः ॥

श्रीः