अध्यायः 028
					अथानुगीतापर्व-2
					 कृष्णने युधिष्ठिरंप्रति
						विद्याब्रह्मणोररण्यत्वरूपणपरब्राह्मणदंपतिसंवादानुवादः ॥ 1 ॥ 
					
						ब्राह्मण उवाच । 
					
						संकल्पदंशमशकं शोकहर्षहिमातपम् ।
						मोहान्धकारतिमिरं लोभव्याधिसरीसृपम् ॥
					 
					
						विषयैकात्ययाध्वानं कामक्रोधकिरातकम् ।
						तदतीत्य महादुर्गं प्रविष्टोस्मि महद्वनम् ॥
						ब्राह्मण्युवाच । 
					 
					
						क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः ।
						कियन्तः पर्वताश्चैव कियत्यध्यनि तद्वनम् ॥
						ब्राह्मण उवाच । 
					 
					
						नैतदस्ति पृथग्भावः किञ्चिनद्यत्ततः सुखम् ।
						नैतदस्त्यपृथग्भावः किञ्चिद्दुःखतरं ततः ॥
					 
					
						तस्माद्ध्रस्वतरं नास्ति न ततोस्ति महत्तरम् ।
						नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ॥
					 
					
						न तत्राविश्यि शोचन्ति न प्रहृष्यन्ति च द्विजाः ।
						न च बिभ्यति केभ्यश्चिन्नैभ्यो बिभ्यति केचन ॥
					 
					
						तस्मिन्वने सप्त महाद्रुमाश्च
							फलानि सप्तातिथयश्च सप्त ।
						
						सप्ताश्रमाः सप्त समाधयश्च
							दीक्षाश्च सप्तैतदरण्यरूपम् ॥
						
					 
					
						पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च ।
						सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वन्म् ॥
					 
					
						सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च ।
						सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥
					 
					
						`शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च ।
							सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्'
						
					 
					
						सुरभीणि द्विवर्णानि पुष्पाणि च फलानि च ।
						सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥
					 
					
						सुरभीण्येकवर्णानि पुष्पाणि च फलानि च ।
						सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥
					 
					
						बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च ।
						विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ॥
					 
					
						एको वह्निः सुमना ब्राह्मणोत्र
							पञ्चेन्द्रियाणि समिधश्चात्र सन्ति ।
						
						तेभ्यो वृक्षाःक सप्त फलन्ति दीक्षा
							गुणाः फलान्यतिथयः फलाशाः ॥
						
					 
					
						आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः ।
						अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ॥
					 
					
						प्रज्ञावृक्षं मोक्षफलं शान्तिच्छायासमन्वितम् ।
						ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम् ॥
					 
					
						येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति पुनर्भवः ।
						ऊर्ध्वं चाधश्च तिर्यक्च तस्य नान्तोऽधिगम्यते ॥
					 
					
						सप्त स्त्रियस्तत्र चरन्ति सत्या-
							स्त्ववाङ्मुखा भानुमत्यो जनित्र्यः ।
						
						ऊर्ध्वं रसानाददते प्रजाभ्यः
							सर्वान्यथा नित्यमनित्यता च ॥
						
					 
					
						तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च ।
						सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखैः सह ॥
					 
					
						यशो वर्चो भगश्चैव विजयः सिद्धतेजसः ।
						एतमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ॥
					 
					
						ऋषयः पर्वताश्चैव सन्ति तत्र समासतः ।
						नद्यश्च परितो वारि वहन्त्यो ब्रह्मिसम्भवम् ॥
					 
					
						नदीनां सङ्गमश्चैव वैताने समुपहरे ।
						स्वात्मतृप्ता यतो यान्ति साक्षादेव पितामहम् ॥
					 
					
						कृशाशाः सुव्रताः शान्तास्तपसा दग्धकिल्बिषाः ।
						आत्मन्यात्मानमावेश्य ब्राह्मणास्तमुपासते ॥
					 
					
						शमिमप्यत्र शंसन्ति विद्यारण्यविदो जनाः ।
						तदरण्यमभिप्रेत्य यथातत्वमजायत ॥
					 
					
						एतदेवेदृशं पुण्यमरण्यं ब्राह्मणा विदुः ।
						विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ॥ ॥
					 
					 इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥ 
					 7-28-7 सप्तर्षयः सप्त तथेन्धनानि इति क.थ.पाठः ॥ 7-28-9
						चतुर्वर्णानि दिव्यानीति क.थ.पाठः ॥ 7-28-13 सृजन्तः पादपास्तत्र व्याप्य
						तिष्ठन्ति तद्वनमिति क.ट.थ.पाठः ॥ 7-28-19 तत्रोपयन्ति चेति झ.पाठः । तेच
						सप्तर्षयः सिद्धा इति क.थ.पाठः ॥ 7-28-20 भगश्चोजो विजयः सिद्धितेजसी इति
						क.थ.पाठः ॥ 7-28-24 ऋचमप्यत्र पश्यन्ति विद्यारण्येति क.थ.पाठः ॥ 7-28-25
						विदित्वा नानुपश्यन्ति क्षेत्रज्ञा नानुदर्शनमिति क.थ.पाठः ॥ 
					
					
					
					
					श्रीः