अध्यायः 030

अथानुगीतापर्व-2

ब्राह्मणेन स्वभार्यांप्रति हिंसाया अकर्तव्यत्वे महर्षिवचसां प्रमाणीकरणोपयोगितया परशुरामचरित्रकथनारम्भः ॥ 1 ॥ रामेण कार्तवीर्ये निहते तदनुयायिभिर्जमदग्नेर्हनम् ॥ 2 ॥ ततः क्रुद्धेन रामेण त्रिःसप्तकृत्वः सर्वक्षत्रियहनने तत्पितृभी रामस्य परिसान्त्वप्रयतनम् ॥ 3 ॥

ब्राह्मण उवाच ।

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ॥
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
येन सागरपर्यन्ता धनुषा निर्जिता मही ॥
स कदाचित्समुद्रान्ते विचरन्बलदर्पितः ।
अवीकिरच्छरशतैः समुद्रमिति नः श्रुतम् ॥
तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाचह ।
मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ॥
मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः ।
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥
अर्जुन उवाच ।
मत्समो यदि संग्रामे शरासनधरः क्वचित् ।
विद्यते तं समाचक्ष्व यः समो मे महामृधे ॥
समुद्र उवाच ।
महर्षिर्जमदग्निस्ते यदि राजन्पुरा श्रुतः ।
तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ॥
ततः स राजा प्रययौ क्रोधेन महता वृतः ।
स तमाश्रममागम्य राममेवान्वपद्यत ॥
स रामप्रतिकूलानि चकार सह बन्धुभिः ।
आयासं जनयामास रामस्य च महात्मनः ॥
ततस्तेजः प्रजज्वाल रामस्यामिततेजसः ।
प्रदहन्रिपुसैन्यानि तदा कमललोचने ॥
ततः परशुमादाय स तं बाहुसहस्रिणम् ।
चिन्छेद सहसा रामो बहुशाखमिव द्रुमम् ॥
तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः ।
असीनादाय शक्तीर्श्च भार्गवं पर्यधावयन् ॥
रामोऽपि धनुरादाय रथमारुह्य सत्वरः ।
विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ॥
ततस्तु क्षत्रियाः केचिज्जमदग्निं निहत्य च ।
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥
तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् ।
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥
एवं ते द्रविडाऽभीराः पुण्ड्राश्च शबरैः सह ।
वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ॥
ततश्च हतवीरासु क्षत्रियासु पुनः पुनः ।
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ॥
एकविंशतिमे याते रामं वागशरीरिणी ।
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥
रामराम निवर्तस्व कं गुणं तात पश्यसि ।
क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ॥
तथैव तं महात्मानमृचीकप्रमुखास्तदा ।
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ॥
पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् ।
नार्हन्तीह भवन्तो मां निवारयितुमित्युत ॥
पितर ऊचुः ।
नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतांवर ।
नेह युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिंशोऽध्यायः ॥ 30 ॥

7-30-15 तेषामुपरतं कर्मेति ट.पाठः ॥ 7-30-16 व्युत्थानात्क्षत्रधर्मिण इति झ.पाठः ॥

श्रीः