अध्यायः 031

अथानुगीतापर्व-2

परशुरामंप्रति तत्पितृभिः क्षत्रियवधान्निवर्तनायालर्कोपाख्यानकथनम् ॥ 1 ॥ रामेण तच्छ्रवणाद्धिंसातो निवर्त्य तपश्चरणम् ॥ 2 ॥

पितर ऊचुः ।

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ॥
अलर्को नाम राजर्षिरभवत्सुमहातपाः ।
धर्मज्ञः सत्यवादी च महात्मा सुदृढव्रतः ॥
स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् ।
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥
स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह ।
उत्सृय सुमहद्राज्यं सूक्ष्मं प्रति महामते ॥
अलर्क उवाच ।
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः ।
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥
यदिदं चापलात्कर्म सर्वान्मर्त्यांश्चिकीर्षति ।
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ॥
मन उवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तत्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति ।
तस्माद्ध्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥
घ्राण उवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥
अन्यान्याणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥
इयं स्वादून्रसान्भुक्त्वा तानेव प्रति गृध्यति ।
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥
जिह्वोवाच ।
नेमे वाणास्तरिष्यन्ति मामलर्क कथञ्चन ।
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥
अन्यान्वाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥
स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति ।
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः ॥
त्वगुवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥
श्रुत्वा तु विविधाञ्शब्दांस्तानेव प्रतिगृध्यति ।
तस्माच्छ्रोत्रं प्रति शरान्प्रति मुञ्चाम्यहं शितान् ॥
श्रोत्रमुवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन ।
तवैव मर्म भेत्स्यन्ति ततो हास्यति जीवितम् ॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥
दृष्ट्वा रूपाणि बहुशस्तान्येव प्रतिगृध्यति ।
तस्माच्चक्षुर्हनिष्यामि निशितैः सायकैरहम् ॥
चक्षुरुवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यति तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥
इयं निष्ठा बहुविधा प्रज्ञया त्वद्यवस्यति ।
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥
बुद्धिरुवाच ।
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ।
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ॥
पितर ऊचुः ।
ततोऽलर्कस्तपो घोरं तत्रैवास्थाय दुष्करम् ।
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ॥
सुसमाहितचेतास्तु स ततोऽचिन्तयत्प्रभुः । स विचिन्त्य चिरं कालमलर्को द्विजसत्तम ।
नाध्यगच्छत्परं श्रेयो योगान्मतिमतांवरः ॥
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः ।
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ॥
योगेनात्मानमाविश्य सिद्धिं परमिकां गतः ।
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह ॥
अहो कष्टं यदस्माभिः सर्वं बाह्यमनुष्ठितम् । भोगतृष्णासमायुक्तैः पूर्वं राज्यमुपासितम् ।
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥
इति त्वमनुजानीहि राम मा क्षत्रियान्वधीः ।
तषो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ॥
इत्युक्तः पितृभिः सोथ तपो घोरं समास्थितः ।
जामदग्न्यो महाभागे सिद्धिं च परमां गतः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥

7-31-1 अत्र हिंसाया अकार्यत्वे । 1 ॥ 7-31-5 अन्यत्र बाह्यशत्रुभ्य इति शेषः । शत्रुभिरिन्द्रियाख्यवैरिभिः ॥ 5 ॥

श्रीः