अध्यायः 034

अथानुगीतापर्व-2

ब्राह्मणेन ब्राह्मणींप्रति स्वमाहात्म्यप्रकाशनम् ॥ 1 ॥

ब्राह्मण उवाच ।

नाहं तथा भूरु चरामि लोके यथा त्वं मां तर्जयसे स्वबुद्ध्या ।
विप्रोस्मिं मुक्तोस्मि वनेचरोस्मि गृहस्थधर्मा व्रतवांस्तथाऽस्मि ॥
नाहमस्मि यता मां त्वं पश्यसे च शुभाशुभे ।
मया व्याप्तमिदं सर्वं यत्किञ्चिज्जगतीगतम् ॥
ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह ।
तेषां मामन्तकं विद्धि दारुणामिव पावकम् ॥
राज्ये पृथिव्यां सर्वस्यामथवापि त्रिविष्टपे ।
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ॥
एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः ।
गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु ॥
लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते ।
नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका ॥
ते भावमेकमायान्ति सरितः सागरं यथा । बुद्ध्याऽयं गम्यते मार्गः शरीरेणि न गम्यते ।
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ॥
तस्मान्मे सुभगे नास्ति परलोककृतं भयम् ।
तद्भावभावनिरता ममैवात्मानमेष्यसि ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥

7-34-3 तेषामन्तर्गतं विद्धि इति क.ध.पाठः ॥ 7-34-7 विद्ध्यान्तवन्ति कर्माणीति क.थ.पाठः ॥ 7-34-8 तस्मात्ते सुभगे इति झ.पाठः । मद्भावभावनिरता मामेवैष्यस्यथात्मनेति क.पाठः ॥

श्रीः