अध्यायः 036

अथानुगीतापर्व-2

कृष्णेनार्जुनंप्रति परब्रह्मस्वरूपतत्प्राप्तिसाधनादिप्रतिपादकगुरुशिष्यसंवादानुवादः ॥ 1 ॥

अर्जुन उवाच ।

ब्रह्म यत्परमं ज्ञेयं तन्मे व्याख्यातुमर्हसि ।
भतो हि प्रसादेन सूक्ष्मे मे रमते मतिः ॥
वासुदेव उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥
कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम् ।
शिष्यः पप्रच्छ मेधावी किंस्विच्छ्रेयः परंतप ॥
भगवन्तं प्रपन्नोऽहं निःश्रेयसपराणः ।
याचे त्वां शिरसा विप्र यद्ब्रूयां ब्रूहि तन्मम ॥
तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह ।
कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज ॥
इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः ।
प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ॥
शिष्य उवाच ।
कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम् ।
कुतो जातानि भूतानि स्थावराणि चराणि च ॥
केन जीवन्ति भूतानि तेषामायुश्च किं परम् ।
किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः ॥
के पन्थानः शिवाश्च स्युः किं सुखं कि च दुष्कृतम् ।
एतान्मे भगवन्प्रश्नान्याथातथ्येन सुव्रत ॥
वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः ।
त्वदन्यः कश्च न प्रश्नानेतान्वक्तुमिहार्हति ॥
ब्रूहि धर्मविदां श्रेष्ठ परं कौतूहलं मम ।
मोक्षधर्मार्थकुशलो भवाँल्लोकषु गीयते ॥
सर्वसंशयसंच्छेत्ता त्वदन्यो न च विद्यते ।
संसारभीरवश्चैव मोक्षकामास्तथा वयम् ॥
वासुदेव उवाच ।
तस्मै सम्प्रतिपन्नाय यथावत्परिपृच्छते ।
शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने ॥
छायाभूताय दान्ताय यतते ब्रह्माचारिणे । तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः ।
गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम ॥
गुरुरुवाच ।
ब्रह्मणोक्तमिदं धर्ममृषिप्रवरसेवितम् ।
वेदविद्यासमावाप्तं तत्त्वभूतार्थभावनम् ॥
ज्ञानं त्वेव परं विद्यः संन्यासं तप उत्तमम् । यस्तु वेद निराबाधं ज्ञानतत्त्वं विनिश्चयात् ।
सर्वबूतस्थमात्मानं स सर्वगतिरिष्यते ॥
ये विद्वान्सहसंवासं विवासं चैव पश्यति ।
तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते ॥
यो न कामयते किञ्चिन्न किञ्चिदभिमन्यते ।
इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते ॥
प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् ।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् ।
महाहङ्कारविटप इन्द्रियाङ्कुरकोटरः ॥
महाभूतविशेषश्च विशेषप्रतिशाखवान् ।
सदापर्णः सदापुष्पः शुभाशुभफलोदयः ॥
आजीवः सर्वभूतानां ब्रह्मबीजः सनातनः । एतज्ज्ञात्वा च तत्त्वानि ज्ञानेन परमासिना ।
छित्त्वा चामरतां प्राप्य जहाति मृत्युजन्मनी ॥
भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् ।
सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम् ॥
प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते ।
बुद्ध्वा यदिहं संसिद्धा भवन्तीह मनीषिणः ॥
उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् ।
प्रजापतिभरद्वाजौ गौतमो भार्गवस्तथा ॥
वसिष्ठः कश्यपश्चैव विश्वामित्रोऽत्रिरेव च ।
मार्गान्सर्वान्परिक्रम्य परिश्रान्तः स्वकर्मभिः ॥
ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः ।
ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् ॥
तं प्रणम्य महात्मानं सुखासीनं महर्षयः ।
पप्रच्छुर्विनयोपेता नैःश्रेयसमिदं परम् ॥
कथं कर्म कृतं साधु कथं मुच्येत किल्बिषात् ।
के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतं ॥
कौ चोभौ कर्मणां मार्गौ प्राप्नुयुर्दक्षिणोत्तरौ ।
निरयं चापवर्गं च भूतानां प्रभवाप्ययौ ॥
इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः ।
तत्तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम् ॥
ब्रह्मोवाच ।
सत्याद्भूतानि जातानि स्थावराणि चराणि च । तपसा तानि जीवन्ति जीवितं तद्धि सुव्रतम् ।
स्वां योनिं पुनरागम्य वर्तते स्वेन कर्मणा ॥
सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् ॥
ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः ।
सत्याद्भूतानि जातानि सत्यं भूतमयं जगत् ॥
तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः ।
अतीक्रोधसंतापा नियता धर्मसेतवः ॥
अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान् ।
तानहं सम्प्रवक्ष्यामि शाश्वताँल्लोकभावनान् ॥
चातुर्विद्यं तथा वर्णांश्चातुराश्रमिकान्पृथक् ।
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ॥
पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः ।
नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः ॥
गदन्तस्तु ममाद्येह पन्थानं दुर्विदं परैः ।
निबोधत महाभागा निखिलेन परं पदम् ॥
ब्रह्मचर्यमिहैवाहुराश्रमं प्रथमं पदम् । गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम् ।
ततः परं तु विज्ञेयमध्यात्मं परमं पदम् ॥
ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः ।
नोपैति यावदध्यात्मं तावदेतान्न पश्यति ॥
तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत ।
फलमूलानिलभुजां मुनीनां वसतां वने ॥
वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते ।
सर्वेषामेव वर्णानां गृहस्थोऽयं विशिष्यते ॥
श्रद्धालक्षणमित्येकं धर्मं धीराः प्रचक्षते । `नैष्ठिकोऽथ यतिर्वाऽपि विरक्तो ब्रह्मदर्शनः ॥'
इत्येवं देवयाना वः पन्थानः परिकीर्तिताः ।
सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः ॥
एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः ।
कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ॥
अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना ।
विषयस्थानि सर्वाणि वर्तमानानि भागशः ॥
महानात्मा तथाऽव्यक्तमहंकारस्तथैव च ।
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च ॥
विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः ।
चतुर्विंशतिरेषा वस्तत्वानां परिकीर्तिता ॥
तत्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ ।
स धीरः सर्वभूतेषु न मोऽहमधिगच्छति ॥
तत्त्वानि यो वेदयते यथातथं गुणांश्च सर्वानखिलाश्च देवताः ।
विधूतपाप्मा प्रविमुच्य बन्धनं स सर्वलोकानमलान्समश्नुते ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्त्रिंशोऽध्यायः ॥

7-36-10 कश्च कोऽपि ॥ 7-36-29 कथं कर्म क्रियात्साद्यु इति झ. झ.पाठः । क्रियात्कुर्वीत । के । नोऽस्माकम् ॥ 7-36-43 गार्हस्थ्यं तद्विधीयते इति झ.पाठः ॥

श्रीः