अध्यायः 042

अथानुगीतापर्व-2

ब्रह्मणा महर्षीन्प्रत्यहङ्कारतत्वाद्भूतादिसृष्टिप्रकारकथनम् ॥ 1 ॥

ब्रह्मोवाच ।

अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥
तेषु भूतानि मुह्यन्ति महाभूतेषु पञ्चसु ।
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च ॥
महाभूतविकारान्ते प्रलये प्रत्युपस्थिते ।
सर्वप्राणभूतां धीरा महदुत्पद्यते भयम् ॥
यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते ।
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥
ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे ।
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन ॥
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ।
क्रियाः करणयुक्ताः स्युरनित्या मोहसंज्ञिताः ॥
लोभप्रजनसम्भूता निर्विशेषा ह्यकिञ्चनाः ।
मांसशोणितसङ्घाता अन्योन्यस्योपजीविनः ॥
बहिरात्मान इत्येते दीनाः कृपणजीविनः ।
प्राणापानावुदानश्च समानो व्यान एव च ॥
अन्तरात्मनि चाप्येते नियताः पञ्च वायवः ।
वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् ॥
त्वग्घ्राणश्रोत्रचक्षूंषि रसना वाक्च संयताः ।
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी ॥
अष्टौ यस्याग्नयो ह्येते दहन्तेऽहङ्क्रियाः सदा ।
स तद्ब्रह्म शुभं याति तस्माद्भूयो न विद्यते ॥
एकादश च यान्याहुरिन्द्रियाणि विशेषतः ।
अहङ्कारात्प्रसूतानि तानि वक्ष्यामि नामतः ॥
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
पादौ पायुरुपस्थश्च हस्तौ वाग्दशमी भवेत् ॥
इन्द्रियग्राम इत्येष मन एकादशं भवेत् ।
एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते ॥
बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च ।
श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः ॥
अविशेषाणि चान्यानि कर्मयुक्तानि यानि तु ।
उभयत्र मनो ज्ञेयं बुद्धिस्तु द्वादशी भवेत् ॥
इत्युक्तानीन्द्रियाण्येतान्येकादश यथाक्रमम् ।
मन्यन्ते कृतमित्येवं विदित्वा तानि पण्डिताः ॥
`त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते ।' स्थलमापस्तथाऽऽकाशं जन्म चापि चतुर्विधम् ॥
अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च ।
चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते ॥
अपराण्यथ भूतानि खेचराणि तथैव च ।
अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् ॥
स्वेदजाः कृमयः प्रोक्ता जन्तवश्च यथाक्रमम् ।
जन्मद्वितीयमित्येतज्जघन्यतरमुच्यते ॥
भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् ।
उद्भिज्जानि च तान्याहुर्भूतानि द्विजसत्तमाः ॥
द्विपादबहुपादानि तिर्यग्गतिमतीनि च ।
जरायुजानि भूतानि विकृतान्यपि सत्तमाः ॥
द्विविधा खलु विज्ञेया ब्रह्मयोनिः सनातना ।
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः ॥
विविधं कर्म विज्ञेयमिज्या दानं च तन्मखे ।
वेदस्याध्ययनं पुण्यमिति वृद्धानुशासनम् ॥
एतद्यो वेत्ति विधिवत्स मुक्तः स्याद्द्विजर्षभाः ।
विमुक्तः सर्वपापेभ्य इति चैव निबोधत ॥
`अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम् ॥'
आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते ।
अधिभूतं तथा शब्दो दिशश्चात्राधिदैवतम् ॥
द्वितीयं मारुतं भूतं त्वगध्यात्मं च विश्रुतम् ।
स्प्रष्टव्यमधिभूतं तु विद्युत्तत्राधिदैवतम् ॥
तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममिष्यते ।
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् ॥
चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते ।
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ॥
पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममुच्यते ।
अधिभूतं तथा गन्धो वायुस्तत्रादिदैवतम् ॥
एषु पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः ।
अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम् ॥
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्वदर्शिनः ।
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ॥
अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते ।
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ॥
प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते ।
अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः ॥
हस्तावध्यात्ममित्याहुरद्यात्मविदुषो जनाः ।
अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम् ॥
वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते ।
वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् ॥
अध्यात्मं मन इत्याहुः पञ्चभूतात्मचारकम् ।
अधिभूतं च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम् ॥
अहङ्कारस्तथाऽध्यात्मं सर्वसंसारकारणम् ।
अभिमानोऽधिभूतं च रुद्रस्तत्राधिदैवतम् ॥
अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी ।
अधिभूतं तु विज्ञेयमहस्तत्राधिदैवतम् ॥
यथावदध्यात्मविधिरेष वः कीर्तितो मया ।
ज्ञानमस्य हि धर्मज्ञाः प्राप्तं ज्ञानवतामिह ॥
इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ।
सर्वाण्येतानि संधाय मनसा सम्प्रधारयेत् ॥
क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते ।
ज्ञानसम्पन्नसत्त्वानां तत्सुखं विदुषां मतम् ॥
अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् ।
निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा ॥
गुणागुणमनासङ्गमेकचर्यमनन्तरम् ।
एतद्ब्राह्मणजं वृत्तमाहुरेकपदं सुखम् ॥
विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः ।
विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा ॥
कामानात्मनि संयम्य क्षीणतृष्णः समाहितः ।
सर्वभूतसुहृन्मैत्रो ब्रह्मभूयाय कल्पते ॥
इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् ।
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते ॥
यथाऽग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते ।
तथेन्द्रियनिरोधेन महानात्मा प्रकाशतदे ॥
यदा पश्यति भूतानि प्रसन्नात्माऽत्मनो हृदि ।
स्वयंज्योतिस्तदासूक्ष्मात्सूक्ष्मं प्राप्नोत्यनुत्तमम् ॥
अग्नी रूपं रसं स्रोतो वायुः स्पर्शनमेव च । मही गन्धधरा घ्राणमाकाशः श्रवणं तथा ।
`दृश्यमादित्यमेवाहुरध्यात्मविदुषो जनाः ॥'
रोगशोकसमाविष्टं पञ्चस्रोतःसमावृतम् ।
पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् ॥
रजस्वलमथादृश्यं त्रिगुणं सप्तधातुकम् ।
संसर्गाभिरतं मूढं शरीरमिति धारणा ॥
दुश्चरं जीवलोकेऽस्मिन्सत्वं प्रति समाश्रितम् ।
एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते ॥
एतन्महार्णवं घोरमगाधं मोहसंझितम् ।
विसृजन्संक्षिपेच्चैव मोहयन्स्वापयञ्जगत् ॥
कामं क्रोधं भयं लोभमभिद्रोहमथानृतम् ।
इन्द्रियाणां निरोधेन सतस्त्यजति दुस्त्यजान् ॥
यस्यैते निर्जिता लोके त्रिगुणाः पञ्चधातवः ।
व्योम्नि तस्य परं स्थानमानन्तमथ लक्ष्यते ॥
पञ्चेन्द्रियमहाकूलां मनःस्रोतोभयावहाम् ।
नदीं मोहह्रदां तीर्त्वा कामक्रोधावुभौ जयेत् ॥
स सर्वदोषनिर्मुक्तस्ततः पश्यति तत्परम् ।
मनो मनसि सन्धाय पश्यन्नात्मानमात्मनि ॥
सर्ववित्सर्वभूतेषु द्रक्ष्यत्यात्मानमात्मनि ।
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः ॥
ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा ।
स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः ॥
स हि धाता विधाता च स प्रभुः सर्वतोमुखः ।
हृदयं सर्वभूतानां महानात्मा प्रकाशते ॥
तं विप्रसङ्घाश्च सुरासुराश्च यक्षाः पिशाचाः पितरो वयांसि ।
रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव सदा स्तुवन्ति ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विचत्वारिंशोऽध्यायः ॥ 42 ॥

7-42-7 लोकप्रजनसंयुक्ता इति क.ट.पाठः ॥ 7-42-9 इत्युक्ता इति क.पाठः ॥ 7-42-25 जातस्याध्ययनं पुण्यमिति झ.पाठः ॥ 7-42-64 पितरश्च सिद्धा इति क.पाठः ॥

श्रीः