अध्यायः 044

अथानुगीतापर्व-2

ब्रह्मणा महर्षीन्प्रति स्वस्वजातिषु श्रेष्ठवस्तु प्रतिपादनपूर्वकं ज्ञानस्याविनाशित्वकथनेन तस्यैव श्रेयःसाधनत्वोक्तिः ॥ 1 ॥

ब्रह्मोवाच ।

यदादिमध्यपर्यन्तं ग्रहणोपायमेव च ।
नामलक्षणसंयुक्तं सर्वं वक्ष्यामि तत्त्वतः ॥
अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः ।
श्रवणादीनि ऋक्षाणि ऋतवः शिशिरादयः ॥
भूमिरादिस्तु गन्धानां रसानामाप एव च ।
रूपाणामादिरग्निस्तु स्पर्शादिर्वायुरुच्यते ॥
शब्दस्यादिस्तथाऽऽकाशमेष भूतकृतो गुणः ।
अतः परं प्रवक्ष्यामि भूतानामादिमुत्तमम् ॥
आदित्यो ज्योतिषामादिरग्निर्भूतादिरुच्यते ।
सावित्री सर्वविद्यानां देवतानां प्रजापतिः ॥
ओङ्कारः सर्ववेदानां वचसां प्राण एव च ।
यदस्मिन्नियतं लोके सर्वं सावित्रमुच्यते ॥
गायत्री च्छन्दसामादिः प्रजानां सर्ग उच्यते ।
गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः ॥
श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् ।
प्रसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः ॥
कृतमादिर्युगानां च सर्वेषां नात्र संशयः ।
हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा ॥
सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते ।
द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः ॥
स्थावराणां तु भूतानां सर्वेषामविशेषतः ।
ब्रह्मक्षेत्रं सदा पुण्यं प्लक्षः प्रवरजः स्मृतः ॥
अहं प्रजापतीनां च सर्वेषां नात्र संशयः ।
मम विष्णुरचिन्त्यात्मा स्वयंभूरिति संस्मृतः ॥
पर्वतानां महामेरुः सर्वेषामग्रजः स्मृतः ।
दिशां च प्रदिशां चोर्ध्वं दिक्पूर्वा प्रथमा तथा ॥
तथा त्रिपथगा गङ्गा नदीनामग्रजा स्मृता ।
तथा सरोदपाननां सर्वेषां सागरोऽग्रजः ॥
देवदानवभूतानां पिशाचोरगरक्षसाम् ।
नरकिन्नरयक्षाणां सर्वेषामीश्वरः प्रभुः ॥
आदिर्विश्वस्य जगतो विष्णुर्ब्रह्ममयो महान् ।
ततः परतरं यस्मात्त्रैलोक्ये नेह विद्यते ॥
आश्रमाणां च सर्वेषां गार्हस्थ्यं नात्र संशयः ।
लोकानामादिरव्यक्तं सर्वस्यान्तस्तदेव च ॥
अहान्यस्तमयान्तानि उदयान्ता च शर्वरी ।
सुखस्यान्तं सदा दुःखं दुःखस्यान्तं सदा सुखम ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगाश्च वियोगान्ता मरणान्तं च जीवितम् ॥
सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् ।
अशाश्वतं हि लोकेऽस्मिन्सदा स्थावरजङ्गमम् ॥
इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये ।
सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते ॥
तस्माज्ज्ञानेन शुद्धेन प्रशान्तात्मा जितेन्द्रियः ।
निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुश्चत्वारिशोऽध्यायः ॥ 44 ॥

7-44-2 श्रविष्ठादीनि सर्वाणिति क.ट.थ.पाठः ॥ 7-44-3 रूपाणां ज्योतिरादित्य इति झ.पाठः ॥ 7-44-8 हुतं अग्नौ ब्राह्मणे वा देवतोद्देशेन दत्तम् ॥ 7-44-11 ब्रह्मवृक्षः सदा पुण्यः इति क.थ.पाठः ॥ 7-44-14 सरोदपाननां सरसां कूपादीनां च । संधिरार्षः । तथाचाश्वो वाहनानां सर्वेषां सागरोग्रज इति क.पाठः ॥ 7-44-15 ईश्वरः रुद्रः ॥

श्रीः