अध्यायः 009

अर्जुनेन व्यासाश्रमे तद्दर्शनम् ॥ 1 ॥ तस्मिन्द्वारकावृत्तान्तनिवेदनम् ॥ 2 ॥ व्यासेनार्जुनंप्रति युधिष्ठिरादीनामपि स्वर्गगमनसूचनम् ॥ 3 ॥ ततोऽर्जुनेन हास्तिनपुरमेत्य युधिष्ठिरे द्वारकावृत्तान्तादिनिवेदनम् ॥ 4 ॥

वैशम्पायन उवाच ।

प्रविश्य त्वर्जुनो राजन्नाश्रमं सत्यवादिनः ।
ददर्शासीनमेकान्तो मुनिं सत्यवतीसुतम् ॥
स तमासाद्य धर्मज्ञमुपतस्थे महाव्रतम् ।
अर्जुनोस्मीति नामास्तै निवेद्याभ्यवदत्ततः ॥
स्वागतं तेऽस्त्विति प्राह मुनिः सत्यवतीसुतः ।
आस्यतामिति होवाच प्रसन्नात्मा महामुनिः ॥
तमप्रतीतमनसं निःश्वसन्तं पुनःपुनः ।
निर्विष्णमनसं दृष्ट्वा पार्थं व्यासोऽब्रवीदिदम् ॥
नखकेशदशाकुंभवारिणा किं समुक्षितः ।
आवीरजानुगमनं ब्राह्मणो वा हतस्त्वया ॥
युद्धे पराजितो वाऽसि दतश्रीरिव लक्ष्यसे । न त्वां प्रभिन्नं जानामि किमिदं भरतर्षभ ।
श्रोतव्यं चेन्मया पार्थ क्षश्रिप्रमाख्यातुमर्हसि ॥
अर्जुन उवाच ।
यः स मेघवपुः श्रीमान्बृहत्पङ्कजलोचनः ।
स कृष्णः सह रामेण त्यक्त्वा देहं दिवं गतः ॥
`तदनुस्मृत्य संमोहं तदा शोकं महामते ।
प्रयामि सर्वदा मह्यं मुमूर्षा चोपजायते ॥
तद्वाक्यस्पर्शनालोकसुखं चामृतसन्निभम् । संस्मृत्य देवदेवस्य प्रमुह्यित्यमृतात्मनः ॥'
मौसले वृष्णिवीराणां विनाशो ब्रह्मशापजः ।
बभूव वीरान्तकरः प्रभासे रोमहर्षणः ॥
एते शूरा महात्मानः सिंहदर्पा महाबलाः ।
भोजवृष्ण्यन्धका ब्रह्मन्नन्योन्यं तैर्हतं युधि ॥
गदापरिघशक्तीनां सहाः परिघबाहवः ।
त एरकाभिर्निहताः पश्य कालस्य पर्ययम् ॥
हतं पञ्चशतं तेषां सहस्रं बाहुशालिनाम् ।
निधनं समनुप्राप्तं समासाद्येतरेतरम् ॥
पुनःपुनर्न मृष्यामि विनाशममितौजसाम् ।
चिन्तयानो यदूनां च कृष्णस्य च यशस्विनः ॥
शोषणं सागरस्येव मन्दरस्येव चालनम् ।
नभसः पतनं चैव शैत्यमग्नेस्तथैव च ॥
अश्रद्धेयमहं मन्ये विनाशं शार्ङ्गधन्वनः ।
न चेह स्थातुमिच्छामि लोके कृष्णविनाकृतः ॥
इतः कष्टतरं चान्यच्छृणु तद्वै तपोधन ।
मनो मे दीर्यते येन चिन्तयानस्य वै मुहुः ॥
पश्यतो वृष्णिदाराश्च मम ब्रह्मन्सहस्रशः ।
आभीरैरभिभूयाजौ हृताः पञ्चनदालयैः ॥
धनुरादाय तत्राहं नाशकं तस्य पूरणे ।
यथापुरा च मे वीर्यं भुजयोर्न तथाऽभवत् ॥
अस्त्राणि मे प्रनष्टानि विविधानि महामुने ।
शराश्च क्षयमापन्नाः क्षणेनैव समन्ततः ॥
पुरुषस्चाप्रमेयात्मा शङ्खचक्रगदाधरः ।
चतुर्भुजः पीतवासाः श्यामः पद्मदलेक्षणः ॥
यश्च याति पुरस्तान्मे रथस्य सुमहाद्युतिः ।
प्रदहन्रिपुसैन्यानि न पश्याम्यहमद्य तम् ॥
येन पूर्वं प्रदग्धानि शत्रुसैन्यानि तेजसा ।
शरैर्गाण्डीवनिर्मुक्तैरहं पश्चादशातयम् ॥
तमपश्यन्विषीदामि घूर्णामीव च सत्तम ।
परिनिर्विण्णचेताश्च शान्तिं नोपलभेऽपि च ॥
`देवकीनन्दनं देवं वासुदेवमजं प्रभुम् ।' विना जनार्दनं वीरं नाहं जीवितुमुत्सहे ॥
श्रुत्वैव हि गतं विष्णुं ममापि मुमुहुर्दिशः ।
प्रनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः ॥
उपदेष्टुं मम श्रेयो भवानर्हति सत्तम ॥
व्यास उवाच ।
`देवांशा देवभूतेन सम्भूतास्ते गतास्सह ।
धर्मव्यवस्थारक्षार्थं देवेन समुपेक्षिताः' ॥
ब्रह्मशापविनिर्दग्धा वृष्ण्यन्धकसमहारथाः ।
विनष्टाः कुरुशार्दूल न ताञ्शोचितुमर्हसि ॥
भवितव्यं तथा तच्च दिष्टमेतन्महात्मनाम् ।
उपेक्षितं च कृष्णेन शक्तेनापि व्यपोहितुम् ॥
त्रैलोक्यमपि गोविन्दः कृत्स्नं स्थावरजङ्गमम् ।
प्रसहेदन्यथा कर्तुं कुतः शापं महात्मनाम् ॥
`स्त्रियश्च ताः पुरा शप्ताः प्रभासे कुपितेन वै । अष्टावक्रेण मुनिना तदर्थं त्वद्बलक्षयम् ॥'
रथस्य पुरतो याति यः स चक्रगदाधरः ।
तव स्नेहात्पुराणर्षिर्वासुदेवश्चतुर्भुजः ॥
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः ।
मोक्षयित्वा तनुं प्राप्तः कृष्णः स्वस्थानमुत्तमम् ॥
त्वयाऽपीह महत्कर्म देवानां पुरुषर्षभ ।
कृतं भीमसहायेन यमाभ्यां च महाभुज ॥
कृतकृत्यांश्च वो मन्ये संसिद्धान्कुरुपुङ्गव ।
गमनं प्राप्तकालं व इदं श्रेयस्करं विभो ॥
बलं बुद्धिश्च तेजश्च प्रतिपत्तिश्च भारत ।
भवन्ति भवकालेषु विपद्यन्ते विपर्यये ॥
कालमूलमिदं सर्वं जगद्बीजं धनंजय ।
काल एव समादत्ते पुनरेव यदृच्छया ॥
स एव बलवान्भूत्वा पुनर्भवति दुर्बलः ।
स एवेशश्च भूत्वेह परैराज्ञाप्यते पुनः ॥
कृतकृत्यानि चास्त्राणि गतान्यद्य यथागतम् ।
पुनरेष्यन्ति ते हस्तं यदा कालो भविष्यति ॥
कालो गन्तुं गतिं मुख्यां भवतामपि भारत ।
एतच्छ्रेयो हि वो मन्ये परमं भरतर्षभ ॥
वैशम्पायन उवाच ।
एतद्वचनमाज्ञाय व्यासस्यामिततेजसः ।
अनुज्ञातो ययौ पार्थो नगरं नागसाह्वयम् ॥
प्रविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम् ।
आचष्ट तद्यथावृत्तं वृष्ण्यन्धककुलं प्रति ॥ ॥

इति श्रीमन्महाभारते शतसाहस्रयां संहितायां वैयासिक्यां मौसलपर्वणि नवमोध्यायः ॥ 9 ॥ ॥ मौसलपर्व समाप्तम् ॥ -------- अस्यानन्तरं महाप्रस्थानिकं पर्व भविष्यति तस्यायमाद्यः श्लोकः । जनमेजय उवाच । एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् । पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ॥ 1 ॥ इदं मौसलपर्व कुंभघोणस्थेन टी.आर्. कृष्णाचार्येण टी. आर्. व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1832 सन 1910.

15-9-5 नखोदकं केशोदकं वस्त्रप्रान्तो दशा तदुदकं कुम्भमुखोदकं च । आवीरजा नारी रजस्वला तस्या रजःप्रस्रबकाले दिनत्रयादर्वाक् अनुगमनं तस्यां मैथुनं ब्राह्मणस्य वधो युद्धे पराजयश्चेति सप्तभिर्निमितैः पुरुषो भ्रष्टश्रीर्भवति । अपि राजोपघातस्ते ब्राह्मणो वेति क.ट.पाठः ॥ 15-9-6 प्रभिन्नं पराजितं त्वां कदाचिदपि न जानामि ॥ 15-9-11 हतं मृतम् । मारितवन्त इत्यर्थः ॥ 15-9-13 पञ्चशतं सहस्रं सहस्रगुणितं पञ्चलक्षामीत्यर्थः ॥ 15-9-13 न केवलं हतं ताडितमपि तु निधनं प्राप्तमित्यर्थः ॥ 15-9-18 पश्यतः अनादरे षष्ठी । मां पश्यन्तमनादृत्येत्यर्थः ॥ 15-9-37 वुद्धिरुपस्थितकार्यावधारणम् । तेजः प्रागल्भ्यम् । प्रतिपत्तिरनागतावेक्षणम् । भवन्ति उत्पद्यन्ते । भवकालेषु ऐश्वर्यावाप्तिसमयेषु । विपर्यये विनाशकाले । विपद्यन्ते विनश्यन्ति ॥ 15-9-38 कालः ईश्वरः जगद्बीजं वियदादिपञ्चकं । समादत्ते संहरति यदा भूतानामपि संहारो भवति कियांस्तत्र भौतिकानां नाश इति तदर्थं शोकोनुचित इति भावः । य एव बलवान्स एव दुर्बलो भवत्येव विपर्ययोऽपि कालमूलो ज्ञेयः ॥ 15-9-40 पुनर्युगान्तरे ॥ 15-9-41 मुख्यां गतिं स्वर्गं गन्तुम् एतत्प्रस्थानं श्रेयः ॥