अध्यायः 002
अथाश्रमवासपर्व ॥ 1 ॥
युधिष्ठिरेण नागराणां धृतराष्ट्रानुशासनपूर्वकं सहभ्रातृभिरप्रमादेन तत्परितोषणम् ॥ 1 ॥
वैशम्पायन उवाच ।
एवं सम्पूजितो राजा पाण्डवैरंबिकासुतः ।
विजहार यथापूर्वमृषिभिः पर्युपस्थितः ॥
ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः ।
तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत ॥
आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः ।
उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः ।
मया चैव भवद्भिश्च मान्य एष नराधिपः ॥
निदेशे धृतराष्ट्रस्य यस्तिष्ठति स मे सुहृत् ।
विपरीतश्च मे शत्रुर्नियम्यश्च भवेन्नरः ॥
परिवृत्तेषु चाहःसु पुत्राणां श्राद्धकर्मणि ।
ददौ च राजा वित्तानि यावदस्य चिकीर्षितम् ॥
ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः ।
ब्राह्मणेभ्यो यथार्हेभ्यो ददौ वित्तान्यनेकशः ॥
धर्मिराजश्च भीमश्च सव्यसाची यमावपि ।
तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया ॥
कथं नु राजा वृद्धः स पुत्रपौत्रवधार्दितः ।
शोकमस्मत्कृतं प्राप्यि न म्रियेतेति चिन्त्य ते ॥
यावद्धि कुरुवीरस्य जीवत्पुत्रस्य वै सुखम् ।
तावत्सुखमवाप्नोति भोगांश्चैव व्यवस्थितान् ॥
ततस्ते सहिताः पञ्च भ्रातरः पाण्डुनन्दनाः ।
तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने ॥
धृतराष्ट्रश्च तान्सर्वान्विनीतान्नियमे स्थितान् ।
शिष्यवृत्तिं समापन्नान्गुरुवत्प्रत्यपद्यत ॥
गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः ।
आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य सा ॥
एवं धर्मभृतांश्रेष्ठो धर्मराजो युधिष्ठिरः ।
भ्रातृभिः सहितो धीमान्पूजयामासं तं नृपम् ॥
स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः ।
न ददर्श तदा किञ्चिदप्रियं पाण्डुनन्दने ॥
वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु ।
प्रीतिमानभवद्राजा धृतराष्ट्रोंऽबिकासुतिः ॥
सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् ।
सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव ॥
प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वहः ।
वैचित्रवीर्य नृपतौ समाचरत सर्वदा ॥
यद्यद्ब्रूते च किञ्चित्स धृतराष्ट्रो जनाधिपः ।
गुरु वा लघु वा कार्यं गान्धारी च तपस्विनी ॥
तं स राजा महाराज पाण्डवानां धुरंधरः ।
पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा ॥
तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः ।
अन्वतप्यत संस्मृत्य पुत्रं तं मन्दचेतसम् ॥
सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः ।
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् ॥
ब्राह्मणान्स्वस्तिवाच्याथ हुत्वा चैव हुताशनम् ।
आयूंषि पाण्डुपुत्राणामाशंसत नराधिपः ॥
न तां प्रीतिं परामाप पुत्रेभ्यः स तदा पुरा ।
यां प्रीतिं पाण्डुपुत्रेभ्यः सदाऽवाप नराधिपः ।
ब्राह्मणानां यथा वृत्तः क्षत्रियाणां यथाविधः ।
तथा विट्शूद्रसङ्घानामभवत्स प्रियस्तदा ॥
यच्च किञ्चित्तदा पापं धृतराष्ट्रसुतैः कृतम् ।
अकृत्वा हृदि तत्पापं तं नृपं सोन्ववर्तत ॥
यः कश्चिदपि यत्किञ्चित्प्रमादादंबिकासुते ।
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः ॥
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै ।
उवाच दुष्कृतं कश्चिद्युधिष्ठिरभयान्नरः ॥
धृत्या तुष्टो नरेन्द्रः स गान्धारी विदुरस्तथा ।
अजातशत्रोर्वृत्तेन न तु भीमस्य पार्थिवः ॥
अन्ववर्तत भीमोपि निश्चितो धर्मजं नृपम् ।
धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः ॥
राजानमनुवर्तन्त धर्मपुत्रममित्रहा ।
अन्ववर्तत संक्रुद्धो हृदयेन पराङ्मुखः ॥ ॥
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि द्वितीयोऽध्यायः ॥ । 2 ॥
7-2-4 निरस्यश्च भवेन्नर इति क.थ.पाठः ॥
श्रीः