अध्यायः 003

अथाश्रमवासपर्व ॥ 1 ॥

भीमसेनपरुषभाषणश्रवणान्निर्वेदमुपगतवता धृतराष्ट्रेणि सहगान्धार्या वनगमनाध्यवसायः ॥ 1 ॥ तथा सकलपौरानयनेन तेषु स्वाध्यवसायनिवेदनम् ॥ 2 ॥

वैशम्पायन उवाच ।

युधिष्ठिरस्य नृपतेर्दुर्योधनपितुस्तदा ।
नान्तरं दद्दशू राज्ये पुरुषाः प्रणयं प्रति ॥
यदा तु कौरवो राजा पुत्रं सस्मार बालिशम् ।
तदा भीमं हृदा राजन्नपध्याति स पार्थिवः ॥
कौरवश्चैव भीमश्च हृदाऽन्योन्यमवर्तताम् । ध्यायन्तौ श्लक्ष्णया वाचा त्वन्योन्यमभितिष्टितां
अप्रकाशं व्यलीकानि चकारास्य वृकोदरः ।
आज्ञां प्रत्यहरच्चापि कृतकैः पुरुषैः सदा ॥
स्मरन्दुर्मन्त्रितं तस्य वृत्तान्यप्यस्य कानिचित् । `असकृच्चाप्युवाचेदं हतास्ते मन्दचेतसः ॥'
अथ भीमः सुहृन्मध्ये बाहुशब्दं तथाऽकरोत् ।
संश्रवे धृतराष्ट्रस्य गान्धार्याश्चाप्यमर्षणः ॥
स्मृत्वा दुर्योधनं शत्रुं कर्णदुःखासनावपि ।
प्रोवाचेदं सुसंरब्धो भीमः सपरुषं वचः ॥
अन्धस्य नृपतेः पुत्रा मया परिघवाहुना ।
नीता लोकममुं सर्वे नानाशस्त्रास्त्रयोधिनः ॥
इमौ तौ परिघप्रख्यौ भुजौ मम दुरासदौ ।
ययोरन्तरमासाद्य धार्तराष्ट्राः क्षयं गताः ॥
ताविमौ चन्दनेनाकौ वन्दनीयौ च मे भुजौ ।
याभ्यां दुर्योधनो नीतः क्षयं ससुतबान्धवः ॥
एतास्चान्याश्च विविधाः शल्यभुता नराधिपः ।
वृकोदरस्य ता वाचः श्रुत्वा निर्वेदमागमत् ॥
सा च बुद्धिमती देवी कालपर्यायवेदिनी । गान्धारी सर्वधर्मज्ञा तान्यलीकानि शुश्रुवे ।
`कुन्तीं वर्या तु संवीक्ष्य शापे नास्याकरोन्मति'
ततः पञ्चदशे वर्षे समतीते नराधिपः ।
राजा निर्वेदमापेदे भीमवाग्बाणपीडितः ॥
`सुखासक्तं कृच्छ्रपरं ज्ञात्वा चैव युधिष्ठिरम् । तपोयोगात्तपस्तप्तुं मनश्चक्रे महामतिः ॥'
नान्वबुध्यत तद्राजा कुन्तीपुत्रो युधिष्ठिरः ।
श्वेताश्वोवाऽथकुन्ती वा द्रौपदी वा यशस्विनी ॥
माद्रीपुत्रौ च भीमस्य मतं तावन्ववर्तताम् ।
राज्ञस्तु चित्तं रक्षन्तौ नोचतुः स्वयमप्रियम् ॥
ततः समानयामास धृतराष्ट्रः सुहृज्जनम् ।
बाष्पसंदिग्धमत्यर्थमिदमाह च तान्भृशम् ॥
विदितं भवतामेतद्यथा वृत्तः कुरुक्षयः ।
ममापराधात्तत्सर्वमिति ज्ञेयं तु कौरवाः ॥
योऽहं दुष्टमतिं मन्दो ज्ञातीनां भयवर्धनम् । दुर्योधनं कौरवाणामाधइपत्येऽभ्यषेचयम् ।
यच्चाहं वासुदेवस्य नाश्रौषं वाक्यमर्थवत् ॥
वध्यतां साध्वयं पापः सामात्य इति दुर्मतिः ।
पुत्रस्नेहाभिभूतस्तु हितमुक्तो मनीषिभिः ॥
विदुरेणाथ भीष्मेण द्रोणेन च कृपेण च । पदेपदे भगवता व्यासेन च महात्मना ।
संजयेनाथ गान्धार्या तदिदं तप्यते मया ॥
यच्चाहं पाण्डुपुत्रेषु गुणवत्सु महात्मसु ।
न न्यस्तवाञ्श्रियं दीप्तां पितृपैतामहीमिमाम् ॥
विनाशं पश्यमानो हि सर्वराज्ञां गदाग्रजः ।
एतच्छ्रेयस्तु परमममन्यत जनार्दनः ॥
सोहमेतान्यलीकानि दुर्वृत्तान्यात्मनस्तदा ।
हृदये शल्यभूतानि धारयामि सहस्रशः ॥
विशेषतस्तु दह्यामि वर्षे पञ्चदशेऽद्य वै ।
अस्य पापस्य शुद्ध्यर्थं नियतोस्मि सुदुर्मतिः ॥
चतुर्थे नियते काले कदाचिदपि चाष्टमे ।
तृष्णाविनयनं भुञ्जे गान्धारी वेद तन्मम ॥
करोत्याहारमिति मां सर्वः परिजनः सदा ।
युधिष्ठिरभयादेति भृशं तप्यति पाण्डवः ॥
भूमौ शये जप्यपरो दर्भष्वजिनसंवृतः ।
नियमव्यपदेशेन गान्धारी च यशस्विनी ॥
अहं पुत्रशतं वीरं सङ्ग्रामेष्वपलायिनम् ।
नानुतप्ये हतं तत्र क्षत्रधर्मं हि तं विदुः ॥
इत्युक्त्वा धर्मराजानमभ्यभाषत कौरवः ।
भद्रं ते यादवीमातर्वचश्चेदं निबोध मे ॥
सुखमध्युषितः पुत्र त्वया सुपरिपालितः ।
मया दानानि दत्तानि श्राद्धानि च पुनःपुनः ॥
प्रकृष्टं च मया पुत्र पुण्यं चीर्णं यथाबलम् ।
गान्धारी हतपुत्रेयं धैर्येणोदीक्षते च माम् ॥
द्रौपद्या ह्यपकर्तारस्तव चैश्वर्यहारिणः ।
समतीता नृशंसास्ते स्वधर्मेण हता युधि ॥
न तेषु प्रतिकर्तव्यं पश्यामि कुरुनन्दन ।
सर्वे शस्त्रजिताँल्लोकान्गतास्तेऽभिमुखं हताः ॥
आत्मनस्तु हितं पुण्यं प्रतिकर्तव्यमद्य ते ।
गान्धार्याश्चैव राजेन्द्र तदनुज्ञातुमर्हसि ॥
त्वं तु शस्त्रभृतां श्रेष्ठः सततं धर्मवत्सलः ।
राजा गुरुः प्राणभृतां तस्मादेतद्ब्रवीम्यहम् ॥
अनुज्ञातस्त्वया वीर संश्रयेयं वनान्यहम् ।
चीरवल्कलभृद्राजन्गान्धार्या सहितोऽनया ॥
तवाशिषः प्रयुञ्जानो भविष्यामि वनेचरः । उचितं नः कुले तात सर्वेषां भरतर्षभ ।
पुत्रेष्वैश्चर्यमाधाय वयसोन्ते वनं नृप ॥
तत्राहं वायुभक्षो वा निराहारोपि वा वसन् ।
पत्न्या सहानया वीर चरिष्यामि तपः परम् ॥
त्वं चापि फलभाक्तात तपसः पार्थिवो ह्यसि ।
फलभाजो हि राजानः कल्याणस्येतरस्य वा ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

7-3-3 तथैव भीमसेनोऽपि धृतराष्ट्रं जनाधिपम् । नामर्षयत राजेन्द्रि सदैव दुष्टवद्धृदेति झ.पाठः ॥ 7-3-24 सोहमेतान्यतीतानीति क.पाठः ॥ 7-3-26 तृष्णविनयनं तृषामात्रापहं मण्डदि नतु क्षुद्व्याधिहरम् ॥

श्रीः