अध्यायः 005

अथाश्रमवासपर्व ॥ 1 ॥

व्यासेन युधिष्ठिरंप्रति सहेतूपन्यासं धृतराष्ट्रस्य धृतराष्ट्रस्य वनगमनाभ्यनुज्ञानचोदनापूर्वकं स्वाश्रमगमनम् ॥ 1 ॥ युधिष्ठिरेणि धृतराष्ट्रंप्रति कृच्छ्रेण तदभ्यनुज्ञानाङ्गीकरणम् ॥ 2 ॥

व्यास उवाच ।

युधिष्ठिर महाबाहो ********** कुरुनन्दनः ।
धृतराष्ट्रो महातेजास्तत्कुरुष्वाविचारयन् ॥
अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः ।
नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम ॥
गान्धारी च महाभागा प्राज्ञा करुणवेदिनी ।
पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् ॥
अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः ।
अनुज्ञां लभतां राजा मां वृथेह मरिष्यति ॥
`स्वस्थो भवत्वयं धीमान्वनेषु मधुगन्धिषु ।' राजर्षीणां पुराणानामनुयातु गतिं नृपः । राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः ॥
वैशम्पायन उवाच ।
इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा ।
प्रत्युवाच महातेजा धर्मराजो महामुनिम् ॥
भगवानेव नो मान्यो भगवानेव नो गुरुः ।
भगवानस्य राज्यस्य कुलस्य च परायणम् ॥
अहं तु पुत्रो भगवन्पिता राजा गुरुश्च मे ।
निदेशवती च पितुः पुत्रो भवति धर्मतः ॥
वैशम्पायन उवाच ।
इत्युक्तः स तु तं प्राह व्यासो वेदविदांवरः ।
युधिष्ठिरं महातेजाः पुनरेव महाकविः ॥
एवमेतन्महाभाग यथा वदसिं भारत ।
राजाऽयं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः ॥
सोयं मयाऽभ्यनुज्ञातस्त्वथा च पृथिवीपतिः ।
करोतु स्वमभिप्रायं मा स्म विघ्नकरो भव ॥
एष एव परो धर्मो राजर्षीणां युधिष्ठिर ।
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् ॥
पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता ।
शिष्यभूतेन राजाऽयं गुरुवत्पर्युपासितः ॥
क्रतुभिर्दक्षिणावद्भी रत्नपर्वतशोभितैः ।
महद्भिरिष्टं गौर्भुक्ता प्रजाश्च परिपालिताः ॥
पुत्रसंस्यं च विपुलं राज्यं विप्रोषिते त्वयि ।
त्रयोदशसमा भुक्तं दत्तं च विविधं वसु ॥
त्वया चायं नरव्याघ्र गुरुशुश्रूषयाऽनघ ।
आराधितः स भृत्येन गान्धारी च यशस्विनी ॥
अनुजानीहि पितरं समयोऽस्म तपोविधौ ।
न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर ॥
वैशम्पायन उवाच ।
एतावदुक्त्वा वचनमनुमान्य च पार्थिवम् ।
तथाऽस्त्विति च तेनोक्तः कौतेयेन ययौ वनम् ॥
गते भगवति व्यासे राजा पाण्डुसुतस्तदा ।
प्रोवाच पितरं वृद्धं मन्दंमन्दमिवानतः ॥
यदाह भगवान्व्यासो यच्चापि भवतो मतम् ।
यथाऽऽह च महेष्वासः कृपो विदुर एव च ॥
युयुत्सुः संजयश्चैव तत्कर्तास्म्यहमञ्जसा ।
सर्व एव हि मान्या मे कुलस्य हि हितैषिणः ॥
इदं तु याचे नृपते त्वामहं शिरसा नतः ।
क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

7-5-17 तपोविधौ तपःकरणे ॥ 18 ॥

श्रीः