अध्यायः 013

अथाश्रमवासपर्व ॥ 1 ॥

भीमे दुर्योधनादिभ्यः श्राद्धदानाय धनदानमरोचयति सति युधिष्ठिरेण विदुरंप्रति धृतराष्ट्रे निजगृहकोशाद्धनदाननिवेदनकथनम् ॥ 1 ॥

अर्जुन उवाच ।

भीम ज्येष्ठो गुरुर्मे त्वं नातोऽन्यद्वमुक्तुमुत्सहे ।
धृताराष्ट्रस्तु राजर्षिः सर्वथा मानमर्हति ॥
न स्मरन्त्यपराद्धानि स्मरन्ति सुकृतान्यपि ।
असंभिन्नार्थमर्यादाः साधवः पुरुषोत्तमाः ॥
इति तस्य वचः श्रुत्वा फल्गुनस्य महात्मनः ।
विदुरं प्राह धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ॥
इदं मद्वचनात्क्षत्तः कौरवं ब्रूहि पार्थिवम् ।
यावदिच्छति पुत्राणां दातुं तावद्ददाम्यहम् ॥
भीष्मादीनां च सर्वेषां सुहृदामुपकारिणाम् ।
मम कोशादिति विभो मा भूद्भीमः सुदुर्मनाः ॥
वैशम्पायन उवाच ।
इत्युक्त्वा धर्मराजस्तमर्जुनं प्रत्यपूजयत् ।
भीमसेनः कटाक्षेण वीक्षांचक्रे धनंजयम् ॥
ततः स विदुरं धीमान्वाक्यमाह युधिष्ठिरः ।
न भीमसेन कोपं स नृपतिः कर्तुमर्हति ॥
परिक्लिष्टो हि भीमस्तु हिमवृष्ट्यातपादिभिः ।
दुःखैर्बहुविधैर्धीमानरण्ये विदितं तव ॥
किंतु मद्वचनाद्ब्रूहि राजानं भरतर्षभम् ॥
यद्यदिच्छसि यावच्च गृह्यतां मद्गृहादिति ॥
यन्मात्सर्यमयं भीमः करोति भृशदुःखितः ।
न तन्मनसि कर्तव्यमिति वाच्यः स पार्थिवः ॥
यन्ममास्ति धनं किञ्चिदर्जुनस्य च वेश्मनि ।
तस्य स्वामी महाराज इति वाच्यः स पार्थिवः ॥
ददातु राजा विप्रेभ्यो यथेष्टं क्रियतां व्ययः ।
पुत्राणां सुहृदां चैव गच्छत्वानृण्यमद्य सः ॥
इदं चापि शरीरं मे तवायत्तं जनाधिप ।
धनानि चेति विद्धि त्वं क्षत्तर्नास्त्यत्र संशयः ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि त्रयोदशोऽध्यायः ॥ । 13 ॥

श्रीः