अध्यायः 015

अथाश्रमवासपर्व ॥ 1 ॥

धृतराष्ट्रेण भीष्मदुर्योधनाद्युद्देश्यकश्राद्धे धनवस्रान्नादिना ब्राह्मणादिसंतर्पणम् ॥ 1 ॥

वैशम्पायन उवाच ।

विदुरेणैवमुक्तस्तु धृतराष्ट्रो जनाधिपः ।
प्रीतिमानभवद्राजन्राज्ञो जिष्णोश्च कर्मणा ॥
ततोऽभिरूपान्भीष्माय ब्राह्मणानृषिसत्तमान् ।
पुत्रार्थे सुहृदां चैव स समीक्ष्य सहस्रशः ॥
कारयित्वाऽन्नपानानि यानान्याच्छादनानि च ।
सुवर्णमणिरत्नानि दासीदासपरिच्छदान् ॥
कंबलानि च रत्नानि ग्रामान्क्षेत्रं तथा धनम् ।
सालङ्कारान्गजानश्वान्कन्याश्चैव वरस्त्रियः ॥
आदिश्यादिश्य सर्वेभ्यो ददौ स नृपसत्तमः ।
द्रोणं संकीर्त्य भीष्मं च सोमदत्तं च बाह्लिकम् ॥
दुर्योधनं च राजानं पुत्रांश्चैव पृथक्पृथक् ।
जयद्रथपुरोगांश्च सुहृदश्चापि सर्वशः ॥
स श्राद्धयज्ञो ववृते बहुगोधनदक्षिणः ।
अनेकधनरत्नौघो युधिष्ठिरमते तदा ॥
अनिशं यत्र पुरुषा गणका लेखकास्तदा ।
युधिष्ठिरस्य वचनादपृच्छन्त स्म तं नृपम् ॥
आज्ञापय किमेतेभ्यः प्रदेयं दीयतामिति ।
तदुपस्थितमेवात्र वचनान्ते ददुस्तदा ॥
शते देये दशशतं सहस्रं चायुतं तथा ।
दीयते वचनाद्राज्ञः कुन्तीपुत्रस्य धीमतः ॥
एवं स वसुधाराभिर्वर्षमाणो नृपांबुदः ।
तप्रयामास विप्रांस्तान्वर्षन्भूमिमिवांबुदः ॥
ततोऽन्तन्तरमेवात्र सर्ववर्णान्महामते ।
अन्नपानरसौघेण प्लावयामास पार्थिवः ॥
सवस्त्रधनरत्नौघो मृदङ्गनिनदस्वनः ।
गवाश्वमकरावर्तो नानारत्नमहाकरः ॥
ग्रामाग्रहारद्वीपाढ्यो मणिहेमजलार्णवः ।
जगत्संप्लावयामास धृतराष्ट्रोडुपोद्धतः ॥
एवं स पुत्रपौत्राणां पितॄणामात्मनस्तथा ।
गान्धार्याश्च महाराज प्रददावौर्द्वदेहिकम् ॥
परिश्रान्तो यदासीत्स ददद्दानान्यनेकशः ।
निवर्तयामास तदा दानयज्ञं नराधिपः ॥
एवं स राजा कौरव्यश्चक्रे दानमहाक्रतुम् ।
नटनर्तकलास्याढ्यं बह्वन्नरसदक्षिणम् ॥
दशाहमेवं दानानि दत्त्वा राजांऽबिकासुतः ।
बभूव पुत्रपौत्राणामनृणो भरतर्षभ ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥

7-15-13 सवस्त्रफेनरतौघ इति क.थ.पाठः ॥

श्रीः