अध्यायः 018

अथाश्रमवासपर्व ॥ 1 ॥

कुन्त्या स्वस्य वनगमनाध्यवसायेन विषीदतो युधिष्ठिरादीन्प्रति सहेतूपन्यासं समाश्वासनम् ॥ 1 ॥

कुन्त्युवाच ।

एवमेतन्महाबाहो यथा वदसि पाण्डवः ।
कृतमुद्धरणं पूर्वं मया वः सीदतां नृपाः ॥
द्यूतापहृतराज्यानां पतितानां सुखादपि ।
ज्ञातिभिः परिभूतानां कृतमुद्धरणं मया ॥
कथं पाण्डोर्न नश्येत संततिः पुरुषर्षभाः ।
यशश्च वो न नश्येत इति चोद्धरणं कृतम् ॥
यूयमिन्द्रसमाः सर्वे देवतुल्यपराक्रमाः ।
मा परेषां मुखप्रेक्षाः स्थेत्येवं तत्कृतं मया ॥
कथं धर्मभृतां श्रेष्ठो राजा त्वं वासवोपमः ।
पुनर्वने न दुःखी स्या इति चोद्धरणं कृतम् ॥
नागायुतसमप्राणः ख्यातविक्रमपौरुषः ।
नायं भीमोत्ययं गच्छेदिति चोद्धरणं कृतम् ॥
भीमसेनादवरजस्तथाऽयं वासवोपमः ।
विजयो नावसीदेत इति चोद्धरणं कृतम् ॥
नकुलः सहदेवश्च तथेमौ गुरुवर्तिनौ ।
क्षुधा कथं न सीदेतामिति चोद्धरणं कृतम् ॥
इयं च बृहती श्यामा तथाऽत्यायतलोचना ।
वृथा सभातले क्लिष्टा मा भूदिति च तत्कृतं ॥
अपेक्षतामेव वो भीम वेपन्तीं कदलीमिव ।
स्त्रीधर्मिणीमरिष्टाङ्गीं तथा द्यूतपराजिताम् ॥
दुःशासनो यदा मौर्ख्याद्दासीवत्पर्यकर्षत ।
तदैव विदितं मह्यं पराभूतमिदं कुलम् ॥
निषण्णाः कुरवश्चैव तदा मे श्वशुरादयः ।
सा दैवं नाथमिच्छन्ती व्यलपत्कुररी यथा ॥
केशपक्षे परामृष्टा पापेन् हतबुद्धिना ।
यदा दुःशासनेनैषा तदा मुह्याम्यहं नृपाः ॥
युष्मत्तेजोविवृद्ध्यर्तं मया ह्युद्धरणं कृतम् ।
तदानीं विदुलावाक्यैरिति तद्वित्त पुत्रकाः ॥
कथं न राजवंशोऽयं नश्येत्प्राप्य सुतान्मम ।
पाण्डोरिति मया पुत्रस्तस्मादुद्धरणं कृतम् ॥
न तस्य पुत्राः पौत्रा वा क्षतवंशस्य पार्थिव ।
लभ्ते सुकृताँल्लोकान्यस्माद्वंशः प्रणश्यति ॥
भुक्तं राज्यफलं पुत्रा भर्तुर्मे विपुलं पुरा ।
महादानानि दत्तानि पीतः सोमो यथाविधि ॥
नाहमात्मफलार्थं वै वासुदेवमचूचुदम् ।
विदुलायाः प्रलापैस्तैः पालनार्थं च तत्कृतम् ॥
नाहं राज्यफलं पुत्राः कामये पुत्रनिर्जितम् ।
पतिलोकानहं पुण्यान्कामये तपसा पिभो ॥
श्वश्रूश्वशुरयोः कृत्वा शुश्रूषां वनवासिनोः ।
तपसा शोषयिष्यामि युधिष्ठिर कलेवरम् ॥
निवर्तस्व कुरुश्रेष्ठ भीमसेनादिभिः सह ।
धर्मे ते धीयतां बुद्धिर्मनस्तु महदस्तु च ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥

7-18-10 पश्यन्त्या मे तथा भीतां वेपन्तीमिति क.थ.पाठः ॥

श्रीः