अध्यायः 020

अथाश्रमवासपर्व ॥ 1 ॥

धृतराष्ट्रेण विदुरादिभिः सह गङ्गातीरात्कुरुक्षेत्रमेत्य तत्र शतयूपाश्रमे व्यासाज्ञया तदुपदिष्टविधिना तीव्रतपश्चरणम् ॥ 1 ॥

वैशम्पायन उवाच ।

ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते ।
निवासमकरोद्राजा विदुरस्य मते स्थितः ॥
तत्रैनं पर्युपातिष्ठन्ब्राह्मणा वनवासिनः ।
क्षत्रविट्शूद्रसङ्खाश्च बहवो भरतर्षभ ॥
स तैः परिवृतो राजा कथाभिः परिनन्द्य तान् ।
अनुजज्ञे स शिष्यान्वै विधिवत्प्रतिपूज्य च ॥
सायाह्ने स महीपालस्ततो गङ्गामुपेत्य च ।
चकार विधिवच्छौचं गान्धारी च यशस्विनी ॥
ते चैवान्ये पृथक् सर्वे तीर्थेष्वाप्लुत्य भारत ।
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः ॥
कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा ।
गान्धारीं च पृथा राजन्गङ्गातीर्थमुपानयत् ॥
राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः ।
जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः ॥
ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः ।
सानुगो नृपतिर्वृद्धो नियतः संयतेन्द्रियः ॥
तत्राश्रमपदं धीमानभिगम्य स पार्थिवः ।
आससादाथ राजर्षिं शतयूपं मनीषिणम् ॥
स हि राजा महानासीत्केकयेषु परंपतः ।
स्वपुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत् ॥
तेनासौ सहितो राजा ययौ व्यासाश्रमं प्रति ।
तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम् ॥
स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः ।
शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा ॥
तस्मै सर्वं विधिं राज्ञे राजाऽऽचख्यौ महामतिः ।
आरण्यकं महाराज व्यासस्यानुमते तदा ॥
एवं च तपसा राजन्धृतराष्ट्रो महामनाः ।
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा ॥
तथैव देवी गान्धारी वल्कलाजिनधारिणी ।
कुन्त्या सह महाराजि समानव्रतचारिणी ॥
कर्मणा मनसा वाचा चक्षुषा चैव ते नृप ।
सन्नियम्येन्द्रियग्राममास्थिताः परमं तपः ॥
त्वगस्थिभूतः परिशुष्कमांसो जटाजिनी वल्कलसंवृताङ्गः ।
स पार्तिवस्तत्र तपश्चचार महर्षिवत्तीव्रमपेतमोहः ॥
क्षत्ता च धर्मार्थविदग्र्यबुद्धिः ससंजयस्तं नृपतिं सदारम् ।
उपाचरद्धोरतपोर्जितात्मा तदा कृशो वल्कलचीरवासाः ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि विंशोऽध्यायः ॥ 20 ॥

श्रीः