अध्यायः 022

अथाश्रमवासपर्व ॥ 1 ॥

शतयूपपृष्टेन नारदेन तंप्रति धृतराष्ट्रस्य वर्षत्रयादूर्ध्वं गान्धार्या सह कुबेरलोकप्राप्तिकथनम् ॥ 1 ॥

वैशम्पायन उवाच ।

नारदस्य तु तद्वाक्यं शशंसुर्द्विजसत्तमाः ।
शतयूपस्तु राजर्षिर्नारदं वाक्यमब्रवीत् ॥
अहो भगवता श्रद्धा कुरुराजस्य वर्धिता ।
सर्वस्य च जनस्यास्य मम चैव महाद्युते ॥
अस्ति काचिद्विवक्षा तु तां मे निगदतः शृणु ।
धृतराष्ट्रं प्रति नृपं देवर्षे लोकपूजित ॥
सर्ववृत्तान्ततत्त्वज्ञो भवान्दिव्येन चक्षुषा ।
युक्तः पश्यसि विप्रर्षे गतयो विविधा नृणाम् ॥
उक्तवान्नृपतीनां त्वं महेन्द्रस्य सलोकताम् ।
न त्वस्य नृपतेर्लोकाः कथितास्ते महामुने ॥
स्थानमप्यस्य नृपतेः श्रोतुमिच्छाम्यहं विभो ।
त्वत्तः कीदृक्कदा चेति तन्ममाख्याहि तत्त्वतः ॥
इत्युक्तो नारदस्तेन वाक्यं सर्वमनोनुगम् ।
व्याजहार सभामध्ये दिव्यदर्शी महातपाः ॥
नारद उवाच ।
यदृच्छया शक्रसदो गत्वा शक्रं शचीपतिम् ।
दृष्टवानस्मि राजर्षे तत्र पाण्डुं नराधिपम् ॥
तत्रेयं धृतराष्ट्रस्य कथा समभवन्नप ।
तपसो दुष्करस्यास्य यदयं तपते नृपः ॥
तत्राहमिदमश्रौषं शक्रस्य वदतः स्वयम् ।
वर्षाणि त्रीणि शिष्टानि राज्ञोस्य परमायुषः ॥
ततः कुबेरभवनं गान्धारीसहितो नृपः ।
प्रयाता धृतराष्ट्रोऽयं राजराजाभिसत्कृतः ॥
कामगेन विमानेन दिव्याभरणभूषितः ।
ऋषिपुत्रो महाभागस्तपसा दग्धकिल्बिषः ॥
सञ्चरिष्यति लोकांश्च देवगन्धर्वरक्षसाम् ।
स्वच्छन्देनेति धर्मात्मा व्यासस्य तु तपोबलात् ॥
देवगुह्यमिदं प्रीत्या मया वः कथितं महत् ।
भवन्तो हि श्रुतधनास्तपसा दग्धकिल्बिषाः ॥
वैशम्पायन उवाच ।
इति ते तस्य तच्छ्रुत्वा देवर्षेर्मधुरं वचः ।
सर्वे सुमनसः प्रीता बभूवुः स च पार्थिवः ॥
एवं कथाभिरन्वास्य धृतराष्ट्रं मनीषिणः ।
विप्रजग्मुर्यथाकामं ते सिद्धगतिमास्थिताः ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥

7-22-12 ऋषिपुत्रो व्यासपुत्रः ॥

श्रीः