अध्यायः 023

अथाश्रमवासपर्व ॥ 1 ॥

युधिष्ठिरादिभिः कुन्तीधृतराष्ट्रादीनां प्रव्रजनशोकेनाभिमन्युप्रभृतिबन्धुजनानुस्मरणजशोकेन स्वस्वव्यापारेष्वप्यनादरणम् ॥ 1 ॥

वैशम्पायन उवाच ।

वनं गते कौरवेन्द्रे दुःखशोकसमन्विताः ।
बभूवुः पाण्डवा राजन्मातृशोकेनि चान्विताः ॥
तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् ।
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति ॥
कथं न राजा वृद्धः स वने वसति निर्जने ।
गान्धारी च महाभागा सा च कुन्ती पृथा कथम् ॥
सुखार्हः स हि राजर्षिरसुखी तद्वनं महत् ।
किमवस्थः समासाद्य प्रज्ञाचक्षुर्महामनाः ॥
सुदुष्करं कृतवती कुन्ती पुत्रानपास्य सा ।
राज्यश्रियं परित्यज्य वनं सा समरोचयत् ॥
विदुरः किमवस्थश्च भ्रातृशुश्रूषुरात्मवान् ।
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः ॥
आकुमारं च पौरास्ते चिन्ताशोकसमाहताः ।
तत्रतत्र कथाश्चक्रुः समासाद्य परस्परम् ॥
पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः ।
शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे ॥
तथैव वृद्धं पितरं हतपुत्रं जनेश्वरम् ।
गान्धारीं च महाभागां विदुरं च महामतिम् ॥
नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा ।
न राज्ये न च नारीषु न वेदाध्ययनेषु च ॥
परं निर्वेदमगमंश्चिन्तयन्ता नराधिपम् ।
तं च ज्ञातिवधं घोरं संस्मरन्तः पुनःपुनः ॥
अभिमन्योश्च बालस्य विनाशं रणमूर्धनि ।
कर्णस्य च महाबाहोः सङ्ग्रामेष्वपलायिनः ॥
तथैव द्रौपदेयानामन्येषां सुहृदामपि ।
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् ॥
हतप्रवीरां पृथिवीं हृतरत्नां च भारत ।
सदैव चिन्तयन्तस्ते न शमं चोपलेभिरे ॥
द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी ।
नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत् ॥
वैराट्यास्तनयं दृष्ट्वा पितरं ते परिक्षितम् ।
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥

श्रीः