अध्यायः 030

व्यासन धृतराष्ट्रंप्रति कुशलादिप्रश्नपूर्वकं विदुरस्य निजस्वरूपादिप्रतिपादनम् ॥ 1 ॥ तथा इतरमहर्षिदुष्करतदभीष्टाश्चर्यकर्मकरणप्रतिज्ञानम् ॥ 2 ॥

वैशम्पायन उवाच ।

ततः समुपविष्टेषु पाण्डवेषु महात्मसु ।
व्यासः सत्यवतीपुत्रः प्रोवाचामन्त्र्य पार्थिवम् ॥
धृतराष्ट्र महाबाहो कच्चित्ते वर्तते तपः ।
कच्चिन्मनस्ते प्रीणाति वनवासे नराधिप ॥
कच्चिद्धृदि न ते शोको राजन्पुत्रविनाशजः ।
कच्चिज्ज्ञानानि सर्वाणि सुप्रसन्नानि तेऽनघ ॥
कच्चिद्बुद्धिं दृढां कृत्वा चरस्यारण्यकं विधिम् ।
कच्चिद्वधूश्च गान्धारी न शोकेनाभिभूयते ॥
महाप्रज्ञा बुद्धिमती देवी धर्मार्थदर्शिनी ।
आगमापायतत्त्वज्ञा कच्चिदेषा न शोचति ॥
कच्चित्कुन्ती च राजंस्त्वां शुश्रूषत्यनहङ्कृता ।
या परित्यज्य स्वं पुत्रं गुरुशुश्रूषणे रता ॥
कच्चिद्धर्मसुतो राजा त्वया प्रत्यभिनन्दितः ।
भीमार्जुनयमाश्चैव कच्चिदेतेऽपि सान्तिताः ॥
कच्चिन्नन्दसि दृष्ट्रैतान्कच्चिते निर्मलं मनः ।
कच्चिच्च शुद्धभावोसि जातज्ञानो नराधिप ॥
एतद्धि त्रितयं श्रेष्ठं सर्वभूतेषु भारत ।
निर्वैरता महाराज सत्यमक्रोध एव च ॥
कच्चित्ते न च मोहोस्ति वनवासेन भारत ।
स्वदत्ते वन्यमन्नं वा उपवासोपि वा भवेत् ॥
विदितं चापि राजेन्द्र विदुरस्य महात्मनः ।
गमनं विधिनाऽनेन धर्मस्य सुमहात्मनः ॥
माण्डव्यशापाद्धि स वै धर्मो विदुरतां गतः ।
महाबुद्धिर्महायोगी महात्मा सुमहामनाः ॥
बृहस्पतिर्वा देवेषु शुक्रो वाऽप्यसुरेषु च ।
न तथा बुद्धिसम्पन्नो यथा स पुरुषर्षभः ॥
तपोबलव्ययं कृत्वा सुचिरात्सम्भृतं तदा ।
माण्डव्येनर्षिणा धर्मो ह्यभिभूतः सनातनः ॥
नियोगाद्ब्रह्मणः पूर्वं मया स्वेन बलेन च ।
वैचित्रवीर्यके क्षेत्रे जातः स सुमहामतिः ॥
भ्राता तव महाराज देवदेवः सनातनः ।
धारणान्मनसा ध्यानाद्य धर्म कवयो विदुः ॥
सत्येन संवर्धयति यो दमेन शमेन च ।
अहिंसया च दानेन तपसा च सनातनः ॥
येन योगबलाज्जातः कुरुराजो युधिष्ठिरः ।
धर्म इत्येष नृपते प्राज्ञेनामितबुद्धिना ॥
यथा वह्निर्यथा वायुर्यथाऽऽपः पृथिवी यथा ।
यथाऽऽकाशं तथा धर्म इह चामुत्र च स्थितः ॥
सर्वगश्चैव राजेन्द्र सर्वं व्याप्य चराचरम् ।
दृश्यते देवदेवैः स सिद्धैर्निर्मुक्तकल्मषैः ॥
यो हि धर्मः स विदुरो विदुरो यः स पाण्डवः ।
स एष राजन्दृश्यस्ते माण्डवः प्रेष्यवत्स्थितः ॥
प्रविष्टः स महात्मानं भ्राता ते बुद्धिसम्मतः ।
दृष्ट्वा महात्मा कौन्तेयं महायोगबलान्वितः ॥
त्वां चापि श्रेयसा योक्ष्ये नचिराद्भरतर्षभ ।
संशयच्छेदनार्थाय प्राप्तं मां विद्धि पुत्रक ॥
न कृतं यैः पुरा कैश्चित्कर्म लोके महर्षिभिः ।
आश्चर्यभूतं तपसः फलं तद्दर्शयामि वः ॥
किमिच्छसि महीपाल मत्तः प्राप्तुमभीप्सितम् ।
द्रष्ट्रुं स्प्रष्टुमथ श्रोतुं तत्कर्तास्मि तवानघ ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि त्रिंशोऽध्यायः ॥ 30 ॥

7-30-6 या परित्यव्य राज्यं स्वमिति क.थ.पाठः ॥

श्रीः