अध्यायः 031

अथ पुत्रदर्शनपर्व ॥ 2 ॥

धृतराष्ट्राश्रमे भ्रात्रादिभिः सैन्येन च सह मासमेकं निवसति युधिष्ठिरे कदाचन व्यासधृतराष्ट्रौ परिवार्य नारादादिभिर्गान्धार्यादिभिः पाण्डवैश्च समुपवेशनम् ॥ 1 ॥ तत्र गान्धार्या व्यासम्प्रति धृतराष्ट्रस्य पुत्रदिदृक्षानिवेदने व्यासेन कुन्तींप्रति तदभीष्टनिवेदनचोदना ॥ 2 ॥

जनमेजय उवाच ।

वनवासं गते विप्र धृतराष्ट्रे महीपतौ ।
सभार्ये नृपशार्दूले वध्वा कुन्त्या समन्विते ॥
विदुरे चापि धर्मज्ञे धर्मराजं व्यपश्रिते ।
वसत्सु पाण्डुपुत्रेषु सर्वेष्वाश्रममण्डले ॥
यत्तदाश्चर्यमिति वै करिष्यामीत्युवाच ह ।
व्यासः परमतेजस्वी महर्षिस्तद्वदस्व मे ॥
वनवासे च कौरव्याः कियन्तं कालमच्युतः ।
युधिष्ठिरो नरपतिर्न्यवसत्सजनस्तदा ॥
किमाहाराश्च ते तत्र ससैन्या न्यवसन्प्रभो ।
सान्तःपुरा महात्मान एतदिच्छामि वेदितुम् ॥
वैशम्पायन उवाच ।
`वनवासगतं राजन्धृतराष्ट्रं महीपतिम् ।
युधिष्ठिरोऽभ्ययाद्द्रष्टुं ससैन्यो भ्रातृभिः सह ॥
प्रथमे दिवसे चैषामापो मूलं फलं तथा ।
भोजनं भूमिशय्या च तत्रासीद्भरतर्षभ ॥
तेऽनुज्ञातास्तदा राजन्कुरुराजेन पाण्डवाः ।
विविधान्यन्नपानानि शय्याश्चैवाभजन्वने ॥
मासमेकं विजह्रुस्ते ससैन्यान्तःपुरो वने ।
अथ तत्रागमद्व्यासो यथोक्तं ते मयाऽनघ ॥
तथा च तेषां सर्वेषां कथाभिर्नृपसन्निधौ ।
व्यासन्वास्य तं राजन्नाजग्मुर्मुनयोऽपरे ॥
नारदः पर्वतश्चैव देवलश्च महातपाः ।
विश्वावसुस्तुंबुरुश्च चित्रसेनश्च भारत ॥
तेषामपि यथान्यायं पूजां चक्रे महातपाः ।
धृतराष्ट्राभ्यनुज्ञातः कुरराजो युधिष्ठिरः ॥
निषेदुस्ते ततः सर्वे पूजां प्राप्य युधिष्ठिरात् ।
आसनेषु च पुण्येषु बर्हिणेषु वरेषउ च ॥
तेषु तत्रोपविष्टेषु स तु राजा महामतिः ।
पाण्डुपुत्रैः परिवृतो निषसाद कुरूद्वह ॥
गान्धारी चैव कुन्ती च द्रौपदी सात्वती तथा ।
स्त्रियश्चान्यास्तथाऽन्याभिः सहोपविविशुस्ततः ॥
तेषां तत्र कथा दिव्या धर्मिष्ठाश्चाभवन्नृप ।
राजर्षीणां पुराणानां देवासुरविभिश्रिताः ॥
ततः कथान्ते व्यासस्तं प्रज्ञाचक्षुषमीश्वरम् ।
प्रोवाच वदतांश्रेष्ठः पुनरेव स तद्वचः ॥
प्रीयमाणो महातेजाः सर्ववेदविदांवरः ।
विदितं मम राजेन्द्र यत्ते हृदि विवक्षितम् ॥
दह्यमानस्य शोकेन तव पुत्रकृतेन वै ।
गान्धार्याश्चैव यद्दुःखं हृदि तिष्टति नित्यदा ॥
कुन्त्याश्च यन्महाराज द्रौपद्याश्च हृदि स्थितम् । यच्च धारयते तीव्रं दुःखं पुत्रविनाशजम् ।
सुभद्रा कृष्णभगिनी तच्चापि विदितं मम ॥
श्रुत्वा समागममिमं सर्वेषां वस्ततो नृप ।
संशयच्छेदनार्थाय प्राप्तः कौरवनन्दन ॥
इमे च देवगन्धर्वाः सर्वे चेमे महर्षयः ।
पश्यन्तु तपसो वीर्यमद्य मे चिरसम्भृतम् ॥
तदुच्यतां महाप्राज्ञ कं कामं प्रददामि ते ।
प्रवणोस्मि वरं दातुं पश्य मे तपसो बलम् ॥
एवमुक्तः स राजेन्द्रो व्यासेनामितबुद्धिना ।
मुहूर्तमिव संचिन्त्य वचनायोपचक्रमे ॥
धन्योस्म्यनुगृहीतश्च सफलं जीवितं च मे ।
यन्मे समागमोऽद्येह भवद्भिः सह साधुभिः ॥
अद्य चाप्यवगच्छामि गतिमिष्टामिहात्मनः ।
ब्रह्मकल्पैर्भवद्भिर्यत्समेतोऽहं तपोधनाः ॥
दर्शनादेव भवतां पूतोऽहं नात्र संशयः ।
विद्यते न भयं चापि परलोके ममानघाः ॥
किंतु तस्य सुदुर्बुद्धेर्मन्दस्यापनयैर्भृशम् ।
दूयते मे मनो नित्यं स्मरतः पुत्रगृद्धिनः ॥
अपापाः पाण्डवा येन निकृताः पापबुद्धिना ।
घातिता पृथिवी येन सहया सनरद्विपा ॥
राजानश्च महात्मानो नानाजनपदेश्वराः ।
आगम्य मम पुत्रार्थे सर्वे मृत्युवशं गताः ॥
ये ते पितॄश्चं दारांश्च प्राणांश्च मनसः प्रियान् ।
परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥
का नु तेषां गतिर्ब्रह्मन्मित्रार्थे ये हता मृधे ।
तथैव पुत्रपौत्राणां मम ये निहता युधि ॥
दूयते मे मनोऽभीक्ष्णं घातयित्वा महाबलम् ।
भीष्मं शान्तनवं वृद्धं द्रोणं च द्विजसत्तमम् ॥
मम पुत्रेण मूढेन पापेनाकृतबुद्धिना ।
क्षयं नीतं कुलं दीप्तं पृथिवीराज्यमिच्छता ॥
`एते मदर्थे पुत्रांश्च दारांश्च मनसः प्रियान् । भोगांश्च विविधांस्तात इष्टापुर्तांस्तथैव च ।
परित्यज्य गताः शूराः प्रेतराजनिवेशनम् ॥'
एतत्सर्वमनुस्मृत्य दह्यमानो दिवानिशम् ।
न शान्तिमधिगच्छामि दुःखशोकसमाहतः ॥
इति मे चिन्तयानस्य पितः शान्तिर्न विद्यते ॥
वैशम्पायन उवाच ।
तच्छ्रुत्वा विविधं तस्य राजर्षेः परिदेवितम् ।
पुनर्नवीकृतः शोको गान्धार्या जनमेजय ॥
कुन्त्या द्रुपदपुत्र्याश्च सुभद्रायास्तथैव च ।
तासां च वरनारीणां वधूनां कौरवस्य ह ॥
पुत्रशोकसमाविष्टा गान्धारी त्विदमब्रवीत् ।
श्वशुरं बद्धनयना देवी प्राञ्जलिरुत्थिता ॥
`लोकान्तरगतान्पुत्रानयं काङ्क्षति मानद । तच्चास्य मासं ज्ञातं भगवंस्तपसा त्वया ॥'
षोडशेमानि वर्षाणि गतानि मुनिपुङ्गव ।
अस्य राज्ञोहतान्पुत्राञ्शोचतो न शमो विभो ॥
पुत्रशोकसमाविष्टो निःश्वसन्ह्येष भूमिपः ।
न शेते वसतीः सर्वा धृतराष्ट्रो महामुने ॥
लोकानन्यान्समर्थोसि स्रष्टुं सर्वांस्तपोबलात् ।
किमु लोकान्तरगतान्राज्ञो दर्शयितुं सुतान् ॥
इयं च द्रौपदी कृष्णा हतज्ञातिसुता भृशम् ।
शोचत्यतीव सर्वासां स्नुषाणां दयिता स्नुषा ॥
तथा कृष्णस्य भगिनी सुभद्रा भद्रभाषिणी ।
सौभद्रकवधसंतप्ता भृशं शोचति भामिनी ॥
इयं च भूरिश्रवसो भार्या परमसम्मता ।
भर्तृव्यसनशोकार्ता भृशं शोचति भामिनी ॥
यस्यास्तु श्वशुरो धीमान्बाह्लिकः स कुरूद्वहः ।
निहतः सोमदत्तश्च पित्रा सह महारणे ॥
श्रीमतोस्य महाबुद्धेः सङ्ग्रामेष्वपलायिनः ।
पुत्रस्य ते पुत्रशतं निहतं यद्रणाजिरे ॥
तस्य भार्याशतमिदं दुःखशोकसमाहतम् । पुनःपुनर्वर्धयानं शोकं रोज्ञो ममैव च ।
हताहारेण महता मामुपास्ते महामुने ॥
ये च शूरा महात्मानः श्वशुरा मे महारथाः ।
सोमदत्तप्रभृतयः का नु तेषां गतिः प्रभो ॥
तव प्रसादाद्भगवन्विशोकोऽयं महीपतिः ।
कुर्यात्कालमहं चेयं वधूस्तव महामुने ॥
इत्युक्तवत्यां गान्धार्यां कुन्ती व्रतकृशानना ।
प्रच्चन्नजातं पुत्रं तु सस्मारादित्यसन्निभम् ॥
तामृषिर्वरदो व्यासो दूरश्रवणदर्शनः ।
अपश्यद्दुःखितां देवीं मातरं सव्यसाचिनः ॥
तामुवाच ततो व्यासो यत्ते कार्यं विवक्षितम् ।
तद्बूहि त्वं महाभागे यत्ते मनसि वर्तते ॥
श्वशुराय तत कुन्ती प्रणम्य शिरसा तदा ।
उवाच वाक्यं सव्रीडा विवृण्वाना पुरातनम् ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥

7-31-13 बर्हिणेषु पक्षिबर्हजतूलिकामयेषु ॥ 7-31-50 मामुपास्ते भार्याशतं रोदनं कुर्वत् मामेव परिवार्य तिष्ठतीत्यर्थः

श्रीः