अध्यायः 034

अथ पुत्रदर्शनपर्व ॥ 2 ॥

व्यासेन निशायां गङ्गाजलावगाहनेन समाह्नाने पुरा समरनिहतैः कुरुपाण्डवोभयपक्षीयैः सर्वैः स्वस्वाभरणायुधवाहनादिभिः सह सलिलादुद्गम्य तीरोत्तरणम् ॥ 1 ॥ धृतराष्ट्रेण व्यासप्रसादलब्धदिव्यचक्षुषा दुर्योधनादीनां सर्वेषामवलोकनम् ॥ 2 ॥

वैशम्पायन उवाच ।

ततो निशायां प्राप्तायां कृतसायाह्निकक्रियाः ।
व्यासमभ्यगमन्सर्वे ये तत्रासन्समागताः ॥
धृतराष्ट्रस्तु धर्मात्मा पाण्डवैः सहितस्तदा ।
शुचिरेकमनाः सार्धमृषिभिस्तैरुपाविशत् ॥
गान्धार्या सह नार्यस्तु सहिताः समुपाविशन् ।
पौरजानपदश्चापि जनः सर्वो यथा वयः ॥
ततो व्यासो महातेजाः पुण्यं भागीरथीजलम् ।
अवतीर्याजुहावाथ सँर्वाल्लोकान्महामुनिः ॥
पाण्डवानां च ये योधाः कौरवाणां च सर्वशः । राजानश्च महाभागा नानादेशनिवासिनः ।
`प्रतीक्ष्य तस्थुस्ते सर्वे तेषामागमनं प्रति ॥'
ततः सुतुमुलः शब्दो जलान्ते जनमेजय ।
प्रादुरासीद्यथायोगं कुरुपाण्डवसेनयोः ॥
ततस्ते पार्थिवाः सर्वे भीष्मद्रोणपुरोगमाः ।
ससैन्याः सलिलात्तस्मात्समुत्तस्थुः सहस्रशः ॥
विराटद्रुपदौ चैव सहपुत्रौ ससैनिकौ ।
द्रौपदेयाश्च सौभद्रो राक्षसश्च घटोत्कचः ॥
कर्णदुर्योधनौ चैव शकुनिश्च महारथः ।
दुःशासनादयश्चैव धार्तराष्ट्रा महाबलाः ॥
जारासन्धिर्भगदत्तो जलसन्धश्च वीर्यवान् ।
भूरिश्रवाः शलः शल्यो वृषसेनश्च सानुजः ॥
लक्ष्मणो राजपुत्रश्च धृष्टद्युम्नस्सहात्मजः ।
शिखण्डिपुत्राः सर्वे च धृष्टकेतुश्च सानुज ॥
अचलो वृषकश्चैव राक्षसश्चाप्यलायुधः ।
बाह्लिकः सोमदत्तश्च चेकितानश्च पार्थिवः ॥
एते चान्ये च बहवो बहुत्वाद्ये न कीर्तिताः ।
सर्वे भासुरदेहास्ते समुत्तस्थुर्जलात्ततः ॥
यस्य् वीरस्य यो वेषो यो ध्वजो यच्च वाहनम् ।
यद्वर्म यत्प्रहरणं तेन तेन स दृश्यते ॥
दिव्यांबरधराः सर्वे सर्वे भ्राजिष्णुकुण्डलाः ।
निर्वैरा निरहङ्कारा विगतक्रोधमत्सराः ॥
गन्धर्वैरुपगीयन्तः स्तूयमानाश्च बन्दिभिः ।
दिव्यमाल्यस्रजोपेतास्तथा दिव्याप्सरोवृताः ॥
धृतराष्ट्रस्य च तदा दिव्यं चक्षुर्नराधिप ।
मुनिः सत्यवतीपुत्रः प्रीतः प्रादात्तपोबलात् ॥
दिव्यज्ञानबलोपेता गान्धारी च यशस्विनी ।
ददर्श पुत्रांस्तान्सर्वान्ये चान्येऽपि मृघे हताः ॥
तदद्भुतमचिन्त्यं च सुमहद्रोमहर्षमम् ।
विस्मितः स जनः सर्वो ददर्शानिमिषेक्षणः ॥
तदुत्सवमहोदग्रं हृष्टनारीनराकुलम् ।
आश्चर्यभूतं ददृशे चित्रं पटगतं यथा ॥
धृतराष्ट्रस्तु तान्सर्वान्पश्यन्दिव्येन चक्षुषा ।
मुमुदे भरतश्रेष्ठ प्रसादात्तस्य वै मुनेः ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥

श्रीः