अध्यायः 039

अथ नारदागमनपर्व ॥ 3 ॥

कदाचन हास्तिनपुरमुपागतेन नारदेन पाण्डवान्प्रति धृतराष्ट्रादीनां स्वर्गप्राप्तिनिवेदनम् ॥ धृतराष्ट्रे गान्धारीकुन्तीसञ्जयैः सह गङ्गायामाप्लुत्य स्वाश्रममागच्छति सति मध्येमार्गं दावाग्निना तत्परीवेष्टनम् ॥ धृरराष्ट्रेण सञ्जय प्रत्यप्नितो दूरापसरणप्रेरणापूर्वकं कुन्तीगान्धारीभ्यां सह वन्हौ प्रवेशनम् ॥ 3 ॥ ततः सञ्जयेन हिमवत्पर्वतंप्रति गमनम् ॥ 4 ॥

वैशम्पायन उवाच ।

तेषु चोपनिवृत्तेषु पाण्डवेषु यदृच्छया ।
देवर्षिर्नारदो राजन्नाजगाम युधिष्ठिरम् ॥
तमभ्यर्च्य महाबाहुः कुरुराजो युधिष्ठिरः ।
आसीनं परिविश्वस्तं प्रोवाच वदतांवरः ॥
चिरात्तु नानुपश्यामि भगवन्तमुपस्थितम् ।
कच्चित्ते कुशलं विप्र शुभं वा प्रत्युपस्थितम् ॥
के देशाः परिदृष्टास्ते किं च कार्यं करोमि ते । तद्ब्रूहि द्विजमुख्यस्त्वं ह्यस्माकं च प्रियोऽतिथिः ।
नारद उवाच ।
चिरदृष्टोसि मेऽत्येवमागतोऽहं तपोवनात् ।
परिदृष्टानि तीर्थानि गङ्गा चैव मया नृप ॥
युधिष्ठिर उवाच ।
वदन्ति पुरुषा मेऽद्य गङ्गातीरनिवासिनः ।
धृतराष्ट्रं महात्मानमास्थितं परमं तपः ॥
अपि दृष्टस्त्वया तत्र कुशली स कुरूद्वहः ।
गान्धारी च पृथा चैव सूतपुत्रश्च संजयः ॥
कथं च वर्तते चाद्य पिता मम स पार्थिवः ।
श्रोतुमिच्छामि भगवन्यदि दृष्टस्त्वया नृपः ॥
नारद उवाच ।
स्थिरीभूय महाराज शृणु वृत्तं यथातथम् ।
यथाश्रुतं च दृष्टं च मया तस्मिंस्तपोवने ॥
वनवासनिवृत्तेषु भवत्सु कुरुनन्दन ।
कुरुक्षेत्रात्पिता तुभ्य गङ्गाद्वारं ययौ नृप ॥
गान्धार्या सहितो धीमान्वध्वा कुन्त्या समन्वितः ।
संजयेन च सूतेन साग्निहोत्रः सयाजकः ॥
आतस्थे स तपस्तीव्रं पिता तव तपोधनः ।
अग्निं मुखे समाधाय वायुभक्षोऽभवन्मुनिः ॥
वने स मुनिभिः सर्वैः पूज्यमानो महातपाः ।
त्वगस्थिमात्रशेषः स षण्मासानभवन्नृपः ॥
गान्धारी तु जलाहारी कुन्ती मासोपवासिनी ।
संजयः षष्ठभुक्तेन वर्तयामास भारत ॥
अग्नींस्तु याजकास्तत्र जुहुवुर्विधिवत्प्रभो ।
दृश्यतोऽदृश्यतश्चैव वने तस्मिन्नृपस्य वै ॥
अनिकेतोथ राजा स बभूव वनगोचरः ।
ते चापि सहिते देव्यौ संजयश्च तमन्वयुः ॥
संजयो नृपतेर्नेता समेषु विषमेषु च ।
गान्धार्याश्च पृथा चैव चक्षुरासीदनिन्दिता ॥
ततः कदाचिद्गङ्गायाः कच्छे स नृपसत्तमः ।
गङ्गायामाप्लुतो धीमानाश्रमाभिमुखो ययौ ॥
अथ वायुः समुद्भुतो दावाग्निरभवन्महान् ।
ददाह तद्वनं सर्वं परिगृह्य समन्ततः ॥
दह्यत्सु मृगयूथेषु द्विजिह्वेषु समन्ततः ।
वराहाणां च यूथेषु संश्रयत्सु जलाशयान् ॥
सम्प्रदीप्ते वने तस्मिन्प्राप्ते व्यसन उत्तमे । निराहारतया राजा मन्दप्राणविचेष्टितः ।
असमर्थोऽपसरणे सुकृशे मातरौ च ते ॥
ततः स नृपतिर्दृष्ट्वा वह्निमायान्तमन्तिकात् ।
इदमाह ततः सूतं संजयं जयतांवरः ॥
गच्छ संजय यत्राग्निर्न त्वां दहति कर्हिचित् ।
वयमत्राग्निना युक्ता गमिष्यामः परां गतिम् ॥
तमुवाच किलोद्विग्नः संजयो वदतांवरः ।
राजन्मृत्युरनिष्टोऽयं भविता ते वृथाऽग्निना ॥
न चोपायं प्रपश्यामि मोक्षणे जातवेदसः ।
यदत्रानन्तरं कार्यं तद्भवान्वक्तुमर्हति ॥
इत्युक्तः संजयेनेदं पुनराह स पार्थिवः ।
नैष मृत्युरनिष्टो नो निःसृतानां गृहात्स्वयम् ॥
जलमग्निस्तथा वायुरथवाऽपि विकर्षणम् ।
तापसानां प्रशस्यं ते गच्च संजय माचिरम् ॥
इत्युक्त्वा संजयं राजा समाधाय मनस्तथा ।
प्राङ्मुखः सह गान्धार्या कुन्त्या चोपाविशत्तदा ॥
संजयस्तं तथा दृष्ट्वा प्रदक्षिणमथाकरोत् ।
उवाच चैनं मेधावी युङ्क्ष्वात्मानमिति प्रभो ॥
ऋषिपुत्रो मनीषी स राज चक्रेऽस्य तद्वचः ।
सन्निरुध्येन्द्रियग्राममासीत्काष्ठोपमस्तदा ॥
गान्धारी च महाभागा जननी च पृथा तव ।
दावाग्निना समायुक्ते स च राजा पिता तव ॥
संजयस्तु महाप्राज्ञस्तस्माद्दावादमुच्यत ।
गङ्गाकूले मया दृष्टस्तापसैः परिवारितः ॥
स तानामन्त्र्य तेजस्वी निवेद्यैतच्च सर्वशः ।
प्रययौ संजयो धीमान्हिमवन्तं महीधरम् ॥
एवं स निधनं प्राप्तः कुरुराजो महामनाः ।
गान्धारी च पृथा चैव जनन्यौ ते विशाम्पते ॥
यदृच्छयाऽनुव्रजता मया राज्ञः कलेवरम् ।
तयोश्च देव्योरुभयोर्मया दृष्टानि भारत ॥
ततस्तपोवने तस्मिन्समाजग्मुस्तपोधनाः ।
श्रुत्वा राज्ञस्तदा निष्ठां न त्वशोचन्गतीश्च ते ॥
तत्राश्रौषमहं सर्वमेतत्पुरुषसत्तम ।
यथा च नृपतिर्दग्धो देव्यौ ते चेति पाण्डव ॥
न शोचितव्यं राजेन्द्र स्वर्गस्थः पृथिवीपतिः ।
प्राप्तवानग्निसंयोगं गान्धारी जननी च ते ॥
वैशम्पायन उवाच ।
एतच्छ्रुत्वा च सर्वेषां पाण्डवानां महात्मनाम् ।
निर्याणं धृतराष्ट्रस्य शोकः समभवन्महान् ॥
अन्तःपुराणां च तदा महानार्तस्वरोऽभवत् ।
पौराणां च महाराज श्रुत्वा राज्ञस्तदा गतिम् ॥
अहो धिगिति राजा तु विक्रुश्य भृशदुःखितः ।
ऊर्ध्वबाहुः स्मरन्मातुः प्ररुरोद युधिष्ठिरः ॥
भीमसेनपुरोगाश्च भ्रातरः सर्व एव ते ।
`रुरुदुर्दुःखसंतप्ता वर्णयन्तः पृथां तदा ॥
अन्तःपुरेषु च तदा सुमहान्रुदितस्वनः ।
प्रादुरासीन्महाराज पृथां श्रुत्वा तथागताम् ॥
तं च वृद्धं तथा दग्धं हतपुत्रं नराधिपम् ।
अन्वशोचन्त ते सर्वे गान्धारीं च तपस्विनीम् ॥
तस्मिन्नुपरते शब्दे मुहूर्तादिव भारत ।
निगृह्य बाष्पं धैर्येण धर्मराजोऽब्रवीदिदम् ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि नारदागमनपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥

7-39-1 द्विवर्षोपनिवृत्तेष्विति झ.पाठः ॥ 7-39-5 मे मयाऽतिचिरं दृष्टोऽसीत्यर्थः ॥ 7-39-12 मुखे पिण्डान्समाधायेति क.ट.पाठः । वीटां मुखे समाधायेति झ.पाठः ॥ 7-39-15 दृश्यतोऽदृश्यत इति । पश्यन्तमपश्यन्तं चानादृत्येत्यर्थः । नियमेन सान्निध्या भावात् ॥ 7-39-27 विकर्षणं अनशनम् ॥ 7-39-30 ऋषिपुत्रो व्यासपुत्र इति योगसमार्थ्यं सूचितम् ॥

श्रीः