अध्यायः 040

अथ नारदागमनपर्व ॥ 3 ॥

युधिष्ठिरेण धृतराष्ट्रादिनिधनश्रवणेन भ्रातृभिः सह सकरुणं परिदेवनपूर्वकं सतिसंस्कृताग्नौ तेषां वृथाग्निना दाहं प्रत्यनुशोचनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

तथा महात्मनस्तस्य तपस्युग्रे च तस्थुषः ।
अनाथस्येव निधनं तिष्ठत्स्वस्मासु बन्धुषु ॥
दुर्विज्ञेया गतिर्ब्रह्मन्पुरुषाणां मतिर्मम ।
यत्र वैचित्रवीर्योसौ दग्ध एवं वनाग्निना ॥
यस्य पुत्रशतं श्रीमदभवद्बाहुशालिनः ।
नागायुतबलो राजा स दग्धो हि दवाग्निना ॥
यं पुरा पर्यवीजन्त तालवृन्तैर्वरस्त्रियः ।
तं गृध्राः पर्यवीजन्त दावाग्निपरिकालितम् ॥
सूतमागधसङ्घैश्च शयानो यः प्रबोध्यते ।
धरण्यां स नृपः शेते विकृष्टो गृध्रवायसैः ॥
न च शोचामि गान्धारीं हतपुत्रां यशस्विनीम् ।
पतिलोकमनुप्राप्तां तथा भर्तृव्रते स्थिताम् ॥
पृथामेव च शोचामि या पुत्रैश्वर्यमृद्धिमत् ।
उत्सृज्य् सुमहद्दीप्तं वनवासमरोचयत् ॥
धिग्राज्यमिदमस्माकं धिग्बलं धिक्पराक्रमम् ।
क्षत्रधर्मं च धिग्यस्मान्मृता जीवामहे वयम् ॥
सुसूक्ष्मा किल लोकस्य गतिर्द्विजवरोत्तम ।
यत्समुत्सृज्य राज्यं सा वनवासमरोचयत् ॥
युधिष्ठिरस्य जननी भीमस्य विजयस्य च ।
अनाथवत्कथं दग्धा इति मुह्यामि चिन्तयन् ॥
वृथा संतर्पितो वह्निः खाण्डवे सव्यसाचिना ।
उपकारमजानन्स कृतघ्न इति मे मतिः ॥
यत्रादहत्स भगवान्मातरं सव्यसाचिनः ।
कृत्वा यो ब्राह्मणच्छद्म भिक्षार्थी समुपागतः ॥
धिगग्निं धिक् च पार्थस्य विश्रुतां सत्यसन्धताम् ।
इदं कष्टतरं चान्यद्भगवन्प्रतिभाति मे ॥
वृथाऽग्निना समायोगो यदभूत्पृथिवीपतेः ।
तथा तपस्विनस्तस्य राजर्षेः कौरवस्य ह ॥
कथमेवंविधो मृत्युः प्रशास्य पृथिवीमिमाम् ॥
तिष्ठत्सु मन्त्रपूतेषु तस्याग्निषु महावने ।
वृथाऽग्निना समायुक्तो निष्ठां प्राप्तः पिता मम ॥
मन्ये पृथा वेपमाना कृशा धमनिसंतता ।
हा तात धर्मराजेति मामाक्रन्दन्महाभये ॥
भीम पर्याप्नुहि भयादिति चैवाभिवाशती ।
समन्ततः परिक्षिप्ता माताऽभून्मे दवाग्निना ॥
सहदेवः प्रियस्तस्याः पुत्रेभ्योधिक एव तु ।
न चैनां मोक्षयामास वीरो माद्रवतीसुतः ॥
तच्छ्रुत्वा रुरुदुः सर्वे समालिङ्ग्य परस्परम् ।
पाण्डवाःक पञ्च दुःखार्ता भूतानीव युगक्षये ॥
तेषां तु पुरुषेन्द्राणां रुदतां रुदितस्वनः ।
प्रासादाभोगसंरुद्धे अन्वरौत्सीत्स रोदसी ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि नारदागमनपर्वणि चत्वारिंशोऽध्यायः ॥ 40 ॥

श्रीः