अध्यायः 060

भारतकथानुबन्धः ॥ 1 ॥

सौतिरुवाच ।
श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् ।
अभ्यगच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ॥
जनयामास यं काली शक्तेः पुत्रात्पराशरात् ।
कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ॥
जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् ।
वेदांश्चाधिजगे साङ्गन्सेतिहासान्महायशाः ॥
यं नाति तपसा कश्चिन्न वेदाध्ययनेन च ।
न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ॥
विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः ।
परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ॥
यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् ।
शन्तनोः संततिं तन्वन्पुण्यकीर्तिर्महायशाः ॥
जनमेजयस्य राजर्षेः स महात्मा सदस्तथा ।
विवेश सहितः शिष्यैर्वेदवेदाङ्गपारगैः ॥
तत्र राजानमासीनं ददर्श जनमेजयम् ।
वृतं सदस्यैर्बहुभिर्देवैरिव पुरन्दरम् ॥
तथा मूर्धाभिषिक्तैश्च नानाजनपदेश्वरैः ।
ऋत्विग्भिर्ब्रह्मकल्पैश्च कुशलैर्यज्ञसंस्तरे ॥
जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् ।
सगणोऽभ्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ॥
काञ्चनं विष्टरं तस्मै सदस्यानुमतः प्रभुः ।
आसनं कल्पयामास यथा शक्रो बृहस्पतेः ॥
तत्रोपविष्टं वरदं देवर्षिगणपूजितम् ।
पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ॥
पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः ।
पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ॥
प्रतिगृह्य तु तां पूजां पाम्डवाज्जनमेजयात् ।
गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ॥
तथा च पूजयित्वा तं प्रणयात्प्रतितामहम् ।
उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ॥
भगवानापि तं दृष्ट्वा कुशलं प्रतिवेद्य च ।
सदस्यैः पूजितः सर्वैः सदस्यान्प्रत्यपूजयत् ॥
ततस्तु सहितः सर्वैः सदस्यैर्जनमेजयः ।
इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ॥
जनमेजय उवाच ।
कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् ।
तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ॥
कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् ।
तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ॥
पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् । कार्त्स्न्येनैतन्ममाचक्ष्व यथा वृत्तं द्विजोत्तम ।
`इच्छामि तत्त्वतः श्रोतुं भगवन्कुशलो ह्यसि' ॥
सौतिरुवाच ।
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा ।
शशास शिष्यमासीनं वैशंपायनमन्तिके ॥
व्यास उवाच ।
कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा ।
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा ।
आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥
राज्ञे तस्मै सदस्येभ्यः पार्थिवेभ्यश्च सर्वशः ।
भेदं सर्वविनाशं च कुरुपाण्डवयोस्तदा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥

1-60-2 काली सत्यवती ॥ 1-60-3 इष्ट्या इच्छया देहं सद्योऽवीवृधत् वर्धितवान् ॥ 1-60-4 यं व्यासम् । तपआदिना कश्चिन्नाति नात्येति नातिशेते ॥ 1-60-15 उपोपविश्य समीपे उपविश्य ॥ 1-60-16 प्रतिवेद्य प्रतिख्याप्य । अत्र पूजा स्तुतिरेव ॥ 1-60-17 इदं वक्ष्यमाणम् ॥ 1-60-18 प्रत्यक्षदर्शिवान् प्रत्यक्षदर्शी ॥ 1-60-19 भेदो वैरम् ॥ 1-60-20 पितामहानां प्रपितामहानाम् ॥ षष्टितमोऽध्यायः ॥ 60 ॥