अध्यायः 067
					
					 ऋष्यादिवंशकथनम् ॥ 1 ॥ 
					
					
						ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः ।
						एकादश सुताः स्थाणोः ख्याताः परमतेजसः ॥
					 
					
						मृगव्याधश्च सर्पश्च निर्ऋतिश्च महायशाः ।
						अजैकपादहिर्बिध्न्यः पिनाकी च परन्तपः ॥
					 
					
						दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः ।
						स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः ॥
					 
					
						मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ।
						षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥
					 
					
						त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः ।
						बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥
					 
					
						अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप ।
						सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥
					 
					
						राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा ।
						यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः ॥
					 
					
						पुलहस्य सुता राजञ्शरभाश्च प्रकीर्तिताः ।
						सिंहाः किपुरुषा व्याघ्रा ऋक्षा ईहामृगास्तथा ॥
					 
					
						क्रतोः क्रतुसमाः पुत्राः पतङ्गसहचारिणः ।
						विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥
					 
					
						दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः ।
						ब्रह्मणः पृथिवीपाल शान्तात्मा सुमहातपाः ॥
					 
					
						वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः ।
						तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥
					 
					
						ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः ।
						पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥
					 
					
						ददौ स दश धर्माय सप्तविंशतिमिन्दवे ।
						दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥
					 
					
						नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे ।
						कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥
					 
					
						बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश ।
						द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा ॥
					 
					
						सप्तविंशतिः सोमस्य पत्न्यो लोकस्य विश्रुताः ।
						कालस्य नयने युक्ताः सोमपत्न्याः शुचिव्रताः ॥
					 
					
						सर्वा नक्षत्रयोगिन्यो लोकयात्राविधानतः ।
							पैतामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः ।
						
						तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥
						
					 
					
						धरो ध्रुवश्च सोमश्च अहश्चैवानिलोऽनलः ।
						प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥
					 
					
						धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा ।
						चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा ॥
					 
					
						रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः ।
						प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥
					 
					
						धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।
							`आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तोमुनिस्तथा' ।
						
						ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥
						
					 
					
						सोमस्य तु सुतो वर्चा वर्चस्वी येन जायते ।
						मनोहरायाः शिशिरः प्राणोऽथ रमणस्तथा ॥
					 
					
						अह्नः सुतस्तथा ज्योतिः शमः शान्तस्तथा मुनिः ।
						अग्नेः पुत्रः कुमारस्तु श्रीमाञ्छरवणालयः ॥
					 
					
						तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः ।
						कृत्तिकाभ्युपपत्तेश्च कार्तिकेय इति स्मृतः ॥
					 
					
						अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः ।
						अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥
					 
					
						प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाऽथ देवलम् ।
							द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ।
						
						बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी ॥
						
					 
					
						योगसिद्धा जगत्कृत्स्नमसक्ता विचचार ह ।
						प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥
					 
					
						विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः ।
						कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥
					 
					
						भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ।
						यो दिव्यानि विमानानि त्रिदशानां चकारह ॥
					 
					
						मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।
						पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥
					 
					
						स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः ।
						निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥
					 
					
						त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः ।
						शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥
					 
					
						कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना ।
						नन्दा तु भार्या हर्षस्य यासु लोकाः प्रतिष्ठिताः ॥
					 
					
						मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः ।
						जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥
					 
					
						त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी ।
						असूयत महाभागा सान्तरिक्षेऽस्विनावुभौ ॥
					 
					
						द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप ।
						तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥
					 
					
						त्रयस्त्रिंशत यत्येते देवास्तेषामहं तव ।
						अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥
					 
					
						रुद्राणामपरः पक्षः साध्यानां मरुतां तथा ।
						वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥
					 
					
						वैनतेयस्तु गरुडो बलवानरुणस्तथा ।
						बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥
					 
					
						अश्विनौ गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् ।
						एते देवगणा राजन्कीर्तितास्तेऽनुपूर्वशः ॥
					 
					
						यान्कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ।
						ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान्भृगुः ॥
					 
					
						भृगोः पुत्रः कविर्विद्वाञ्छुक्रः कविसुतो ग्रहः ।
							त्रैलोक्यप्राणयात्रार्थं वर्षावर्षे भयाभये ।
						
						स्वयंभुवा नियुक्तः सन्भुवनं परिधावति ॥
						
					 
					
						योगाचार्यो महाबुद्धिर्दैत्यानामभवद्गुरुः ।
						सुराणां चापि मेधावी ब्रह्मचारी यतव्रतः ॥
					 
					
						तस्मिन्नियुक्ते विधिना योगक्षेमाय भार्गवे ।
						अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥
					 
					
						च्यवनं दीप्ततपसं धर्मात्मानं यशस्विनम् ।
						यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥
					 
					
						आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः ।
						और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ॥
					 
					
						महातेजा महावीर्यो बाल एव गुणैर्युतः ।
						ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् ॥
					 
					
						जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः ।
							रामस्तेषां जघन्योऽभूदजघन्यैर्गुणैर्युतः ।
						
						सर्वशस्त्रेषु कुशलः क्षत्रियान्तकरो वशी ॥
						
					 
					
						और्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् ।
						तेषां पुत्रसहस्राणि बभूवुर्भुवि विस्तरः ॥
					 
					
						द्वौ पुत्रो ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् ।
						लोके धाता विधाता च यौ स्थितौ मनुना सह ॥
					 
					
						तयोरेव स्वसा देवी लक्ष्मीः पद्मगृहा शुभा ।
						तस्यास्तु मानसाः पुत्रास्तुरगा व्योमचारिणः ॥
					 
					
						वरुणस्य भार्या या ज्येष्ठा शुक्राद्देवी व्यजायत ।
						तस्याः पुत्रं बलं विद्धि सुरां च सुरनन्दिनीम् ॥
					 
					
						प्रजानामन्नकामानामन्योन्यपरिभक्षणात् ।
						अधर्मस्तत्र संजातः सर्वभूतविनाशकः ॥
					 
					
						तस्यापि निर्ऋतिर्भार्या नैर्ऋता येन राक्षसाः ।
						घोरास्तस्यास्त्रयः पुत्राः पापकर्मरताः सदा ॥
					 
					
						भयो महाभयश्चैव मृत्युर्भूतान्तकस्तथा ।
						न तस्य भार्या पुत्रो वा कश्चिदस्त्यन्तको हि सः ॥
					 
					
						काकीं श्येनीं तथा भासीं धृतराष्ट्रीं तथा शुकीम् ।
						ताम्रा तु सुषुवे देवी पञ्चैता लोकविश्रुताः ॥
					 
					
						उलूकान्सुषुवे काकी श्येनी श्येनान्व्यजायत ।
						भासी भासानजनयद्गृध्रांश्चैव जनाधिप ॥
					 
					
						धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः ।
						चक्रवाकांश्च भद्रा तु जनयामास सैव तु ॥
					 
					
						शुकी च जनयामास शुकानेव यशस्विनी ।
						कल्याणगुणसंपन्ना सर्वलक्षणपूजिता ॥
					 
					
						नव क्रोधवशा नारीः प्रजज्ञे क्रोधसंभवाः ।
						मृगी च मृगमन्दा च हरी भद्रमना अपि ॥
					 
					
						मातङ्गी त्वथ शार्दूली श्वेता सुरभिरेव च ।
						सर्वलक्षणसंपन्ना सुरसा चैव भामिनी ॥
					 
					
						अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम ।
						ऋक्षाश्च मृगमन्दायाः सृमराश्च परंतप ॥
					 
					
						ततस्त्वैरावतं नागं जज्ञे भद्रमनाः सुतम् ।
						ऐरावतः सुतस्तस्या देवनागो महागजः ॥
					 
					
						हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः ।
						गोलाङ्गूलांश्च भद्रं ते हर्याः पुत्रान्प्रचक्षते ॥
					 
					
						प्रजज्ञे त्वथ शार्दूली सिंहान्व्याग्राननेकशः ।
						द्वीपिनश्च महासत्वान्सर्वानेव न सशंयः ॥
					 
					
						मातङ्ग्यपि च मातङ्गानपत्यानि नराधिप ।
						दिशां गजं तु श्वेताख्यं श्वेताऽजनयदाशुगम् ॥
					 
					
						तथा दुहितरौ राजन्सुरभिर्वै व्यजायत ।
						रोहिणी चैव भद्रं ते गन्धर्वी तु यशस्विनी ॥
					 
					
						विमलामपि भद्रं ते अनलामपि भारत ।
						रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनः सुताः ॥
					 
					
						`इरायाः कन्यका जातास्तिस्रः कमललोचनाः ।
						वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः ॥
					 
					
						लतारुहे च द्वे प्रोक्ते वीरुधां चैव ताः स्मृताः ।
						गृह्णन्ति ये विना पुष्पं फलानि तरवः पृथक् ॥
					 
					
						लतासुतास्ते विज्ञेयास्तानेवाहुर्वनस्पतीन् ।
						पुष्पैः फलग्रहान्वृक्षान्रुहायाः प्रसवं विदुः ॥
					 
					
						लतागुल्मानि वृक्षाश्च त्वक्सारतृणजन्तवः ।
						वीरुधो याः प्रजास्तस्यास्तत्र वंशः समाप्यते ॥
					 
					
						सप्तपिम्डफलान्वृक्षाननलापि व्यजायत ॥
						
					 
					
						अनलायाः शुकी पुत्री कंकस्तु सुरसासुतः ।
						अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ ॥
					 
					
						संपातिं जनयामास वीर्यवन्तं जटायुषम् ।
						सुरसाऽजनयन्नागान्कद्रूः पुत्रांस्तु पन्नगान् ॥
					 
					
						द्वौ पुत्रौ विनतायास्तु विख्यातौ गरुडारुणौ ।
							इत्येष सर्वभूतानां महतां मनुजाधिप ।
						
						प्रभवः कीर्तितः सम्यङ्मया मतिमतां वर ॥
						
					 
					
						यं श्रुत्वा पुरुषः सम्यङ्मुक्तो भवति पाप्मनः ।
						सर्वज्ञतां च लभते रतिमग्र्यां च विन्दति ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तषष्टितमोऽध्यायः ॥ 67 ॥ 
					 1-67-1 ब्रह्मण इति षण्महर्षयः स्थाणुश्च सप्तम इति बोध्यम् ।
						तत्रादौ स्थाणुसंततिमेवाह एकादशेति । एकादश तथा रुद्राः स्थाणोश्चैव हि मानसाः
						इति पाठान्तरम् । अत्र स्थिरत्वात्स्थाणुर्ब्रह्मा ॥ 1-67-5
						बृहस्पतिरुचथ्यश्चेति पाठान्तरम् ॥ 1-67-8 ईहामृगाः वृकाः ॥ 1-67-9
						पतङ्गसहचारिणः सूर्यसहचरा वालखिल्याः ॥ 1-67-16 नयने ज्ञापने ॥ 1-67-17
						नक्षत्रयोगिन्यो नक्षत्रनामयुक्ताः । विधानतः विधानार्थमभवन् । पैतामहो देवो
						धर्मः पितामहस्तनाज्जातत्वात् । तस्य पितामहस्य पुत्रो दक्षः
						तदङ्गुष्ठाज्जातत्वात् । तस्य संबन्धिनी वसुनाम्नी कन्या तस्यां धर्माद्वसवोष्टौ
						जाता इत्यर्थः । वसोस्तु वसवः पुत्रा इत्यन्यत्रोक्तेः ॥ 1-67-19 धूम्राय इति
						वसोरेव धूम्रादीनि नामान्तराणि कल्पभेदात् । अन्या एता न दक्षकन्या इति वा ॥ 1-67-24 कृत्तिकानां षण्णां मातृत्वेनाभ्युपपत्तेरङ्गीकारात् ॥ 1-67-35 बडवा
						अश्वा अन्तरिक्षे अश्विनावसूत नासिकायां शुक्रप्रक्षेपात् ॥ 1-67-37
						त्रयस्त्रिंशत् अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च
						वषट्कारश्च ॥ 1-67-43 योगाचार्य इति । चापी व्यस्तौ । सुराणामपि च गुरुरिति
						संबन्धः । देवानां गुरुरेव योगाचार्यो योगबलेन कायद्वयं कृत्वा
						दैत्यानामप्याचार्योऽभवदित्यर्थः ॥ 1-67-73 पिण्डफलान्सप्त । खर्जूरतालहिंताला
						ताली खर्जूरिका तथा । गुवाकानारिकेलश्च सप्त पिण्डफला द्रुमाः इत्युक्तरूपान् ।
						इह पुराणान्तरविरोधो नामभेदात्कल्पभेदाद्वापनेयः ॥ सप्तषष्टितमोऽध्यायः ॥ 67 ॥