अध्यायः 079

विषयानुभवेन ययातेर्वैराग्यप्राप्तिः ॥ 1 ॥ पूरोः ययातिना यौवनप्रत्यर्पणम् ॥ 2 ॥ तस्य राज्याभिषेकः ॥ 3 ॥ ययातेर्वनं प्रति गमनम् ॥ 4 ॥ यदुप्रभृतीनां वंशकथनम् ॥ 5 ॥

वैशंपायन उवाच ।
पौरवेणाथ वयसा ययातिर्नहुषात्मजः । `रूपयौवनसंपन्नः कुमारः समपद्यत ।'
प्रीतियुक्तो नृपश्रेष्ठश्चरा विषयान्प्रियान् ॥
यथाकामं यथोत्साहं यथाकालं यथासुखम् ।
धर्माविरुद्धं राजेन्द्रो यथा भवति सोऽन्वभूत् ॥
देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वित्पितॄनपि ।
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥
अतिथीनन्नपानैश्च विशश्च परिपालनैः ।
आनृशंस्येन शूद्रांश्च दस्यून्सन्निग्रहेण च ॥
धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् ।
ययातिः पालयामास साक्षादिन्द्र इवापरः ॥
स राजा सिंहविक्रान्तो युवा विषयगोचरः ।
अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥
स संप्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः ।
कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥
परिसंख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् ।
यौवनं प्राप्य राजर्षिः सहस्रपरिवत्सरान् ॥
विश्वाच्या सहितो रेमे व्यभ्राजन्नन्दने वने ।
अलकायां स कालं तु मेरुशृङ्गे तथोत्तरे ॥
यदा स पश्यते कालं धर्मात्मा तं महीपतिः ।
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥
यथाकामं यथोत्साहं यथाकालमरिन्दम ।
सेविता विषयाः पुत्र यौवनेन मया तव ॥
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
एकस्यापि न पर्याप्तं तस्मान्नृष्णां परित्यजेत् ॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तांतृष्णां त्यजतः सुखम् ॥
पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः ।
तथाप्यनुदिनं तृष्णा ममैतेष्वभिजायते ॥
तस्मादेनामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् ।
निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह ॥
पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् । राज्यं चेदं गृहाण त्वं `यावदिच्छसि यौवनम् ।
तावद्दीर्घायुषा भुङ्ख' त्वं हि मे प्रियकृत्सुतः ॥
वैशंपायन उवाच ।'
प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा ।
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मवान् ॥
अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् ।
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥
कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ।
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रयच्छसि ॥
यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः ।
शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ॥
कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति ।
एतत्संबोधयामस्त्वां धर्मं त्वं प्रतिपालय ॥
ययातिरुवाच ।
ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ।
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथंचन ॥
मम ज्येष्ठेन यदुना नियोगो नानुपालितः ।
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥
मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः ।
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥
`पुदिति नरकस्याख्या दुःखं च नरकं विदुः ।
पुतस्त्राणात्ततः पुत्त्रमिहेच्छन्ति परत्र च ॥
आत्मनः सदृशः पुत्रः पितृदेवर्षिपूजने ।
यो बहूनां गुणकरः स पुत्रो ज्येष्ठ उच्यते ॥
मूकोऽन्धो बधिरः श्वित्री स्वधर्मं नानुतिष्ठति ।
चोरः किल्बिषिकः पुत्रो ज्येष्ठो न ज्येष्ठ उच्यते ॥
ज्येष्ठांशहारी गुणकृदिह लोके परत्र च । श्रेयान्पुत्रो गुणोपेतः स पुत्रो नेतरो वृथा ।
वदन्ति धर्मं धर्मज्ञाः पितॄणां पुत्रकारणात् ॥
वेदोक्तं संभवं मह्यमनेन हृदयोद्भवम् ।
तस्य जातमिदं कृत्स्नमात्मा पुत्र इति श्रुतिः' ॥
यदुनाऽहमवज्ञातस्तथा तुर्वसुनापि च ।
द्रुह्युना चानुना चैव मय्यवज्ञ कृता भृशम् ॥
पूरुणा तु कृतं वाक्यं मानितं च विशेषतः ।
कनीयान्मम दायादो धृता येन जरा मम ॥
मम कामः स च कृतः पूरुणा मित्ररूपिणा ।
शुक्रेण च वरोदत्तः काव्येनोशनसा स्वयम् ॥
पुत्रो यस्त्वाऽनुवर्तेत स राजा पृथिवीपतिः ।
`यो वानुवर्ती पुत्राणां स पुत्रो दायभाग्भवेत्' ॥
भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ।
प्रकृतय ऊचुः ।
यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा ॥
सर्वमर्हति कल्याणं कनीयानपि सत्तमः ।
`वेद धमार्थशास्त्रेषु मुनिभिः कथितं पुरा' ॥
अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव ।
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥
वैशंपायन उवाच ।
पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा ।
अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मनः ॥
`यदुं च तुर्वसुं चोभौ द्रुह्युं चैव सहानुजम् ।
अन्तेषु स विनिक्षिप्य नाहुषः स्वात्मजान्सुतान्' ॥
दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः ।
पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥
`देवयान्या च सहितः शर्मिष्ठया च भारत ।
अकरोत्स वने राजा सभार्यस्तप उत्तमम्' ॥
यदोस्तु यादवा जातास्तुर्वसोर्यवनाः स्मृताः ।
द्रुह्योः सुतास्तु वै भोजा अनोस्तु म्लेच्छजातयः ॥
पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव ।
इदं वर्षसहस्राणि राज्यं कारयितुं वशी ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ऊनाशीतितमोऽध्यायः ॥ 79 ॥

1-79-1 चचार बुभोज ॥ 1-79-6 विषया दिव्यगन्धादयो गोचरे वशे यस्य स विषयगोचरः ॥ 1-79-19 कनीयसं कनीयांसम् ॥