अध्यायः 082

स्वर्गतो ययातेः पतनं । अष्टकप्रश्नश्च ॥ 1 ॥

इन्द्र उवाच ।
सर्वाणि कर्माणि समाप्य राजन् गृहं परित्यज्य वनं गतोऽसि ।
तत्त्वां पृच्छामि नहुषस्य पुत्र केनासि तुल्यस्तपसा ययाते ॥
ययातिरुवाच ।
नाहं देवमनुष्येषु गन्धर्वेषु महर्षिषु ।
आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव ॥
इन्द्र उवाच ।
यदाऽवमंस्थाः सदृशः श्रेयसश्च अल्पीयसश्चाविदितप्रभावः ।
तस्माल्लोकास्त्वन्तवन्तस्तवे मे क्षीणे पुण्ये पतिताऽस्यद्य राजन् ॥
ययातिरुवाच ।
सुरर्षिगन्धर्वनरावमाना- त्क्षयं गता मे यदि शक्रलोकाः ।
इच्छाम्यहं सुरलोकाद्विहीनः सतां मध्ये पतितुं देवराज ॥
इन्द्र उवाच ।
सतां सकाशे पतिताऽसि राजं- श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः ।
एतद्विदित्वा च पुनर्ययाते त्वं माऽवमंस्थाः सदृशः श्रेयसश्च ॥
वैशंपायन उवाच ।
ततः प्रहायामरराजजुष्टा- न्पुण्याँल्लोकान्पतमानं ययातिम् ।
संप्रेक्ष्य राजर्षिवरोऽष्टकस्त- मुवाच सद्धर्मविधानगोप्ता ॥
अष्टक उवाच ।
कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाऽग्निः ।
पतस्युदीर्णाम्बुधरान्धकारा- त्खात्खेचराणां प्रवरो यथाऽर्कः ॥
दृष्ट्वा च त्वां सूर्यपथात्पतन्तं वैश्वानरार्कद्युतिमप्रमेयम् ।
किं नु स्विदेतत्पततीति सर्वे वितर्कयन्तः परिमोहिताः स्मः ॥
दृष्ट्वा च त्वां धिष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम् ।
अभ्युद्गतास्त्वां वयमद्य सर्वे तत्त्वं प्रपाते तव जिज्ञासमानाः ॥
न चापि त्वां धृष्णुमः प्रष्टुमग्रे न च त्वमस्मान्पृच्छसि ये वयं स्मः ।
तत्त्वां पृच्छामि स्पृहणीयरूप कस्य त्वं वा किंनिमित्तं त्वमागाः ॥
भयं तु ते व्येतु विषादमोहौ त्यजाशु चैवेन्द्रसमप्रभाव ।
त्वां वर्तमानं हि सतां सकाशे नालं प्रसोढुं बलहाऽपि शक्रः ॥
सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प ।
ते सङ्गताः स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥
प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः ।
प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्व्यशीतितमोऽध्यायः ॥ 82 ॥

1-82-3 अवमंस्थाः सर्वेभ्य आत्मन आधिक्योक्त्या । सदृशः सदृशान् ॥ 1-82-5 यत्र पतिता प्रतिष्ठां लब्धासि लप्स्यसि ॥ 1-82-10 धुष्णुमः प्रगल्भामहे ॥ 1-82-13 आवपने संग्रहे बीजावापे वा ॥ द्व्यशीतितमोऽध्यायः ॥ 82 ॥