अध्यायः 084

मृतस्य स्वर्गादिभोगानन्तरं पुनर्जननप्रकारकथनम् ॥ 1 ॥

अष्टक उवाच ।
यदाऽवसो नन्दने कामरूपी संवत्सराणामयुतं शतानाम् ।
किं कारणं कार्तयुगप्रधान हित्वा च त्वं वसुधामन्वपद्यः ॥
ययातिरुवाच ।
ज्ञातिः सुहृत्स्वजनो वा यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि ।
तथा तत्र क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ॥
अष्टक उवाच ।
तस्मिन्कथं क्षीणपुण्या भवन्ति संमुह्यते मेऽत्र मनोऽतिमात्रम् ।
किं वा विशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥
ययातिरुवाच ।
इमं भौमं नरकं ते पतन्ति ललाप्यमाना नरदेव सर्वे ।
ते कङ्कगोमायुबलाशनार्थे क्षीणे पुण्ये बहुधा प्रव्रजन्ति ॥
तस्मादेतद्वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म ।
आख्यातं ते पार्थिव सर्वमेव भूयश्चेदानीं वद किं ते वदामि ॥
अष्टक उवाच ।
यदा तु तान्वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतङ्गाः ।
कथं भवन्ति कथमाभवन्ति न भौममन्यं नरकं शृणोमि ॥
ययातिरुवाच ।
ऊर्ध्वं देहात्कर्मणो जृम्भमाणा- द्व्यक्तं पृथिव्यामनुसंचरन्ति ।
इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् ॥
षष्टिं सहस्राणि पतन्ति व्योम्नि तथा अशीतिं परिवत्सराणि ।
तान्वै तुदन्ति पततः प्रपातं भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥
अष्टक उवाच ।
यदेनसस्ते पततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ।
कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवन्ति ॥
ययातिरुवाच ।
अस्रं रेतः पुष्पफलानुपृक्त- मन्वेति तद्वै पुरुषेण सृष्टम् ।
स वै तस्या रज आपद्यते वै स गर्भभूतः समुपैति तत्र ॥
वनस्पतीनोषधीश्चाविशन्ति आपो वायुं पृथिवीं चान्तरिक्षम् ।
चतुष्पदं द्विपदं चाति सर्व- मेवंभूता गर्भभूता भवन्ति ॥
अष्टक उवाच ।
अन्यद्वपुर्विदधातीह गर्भ- मुताहोस्वित्स्वेन कायेन याति ।
आपद्यमानो नरयोनिमेता- माचक्ष्व मे संशयात्प्रब्रवीमि ॥
शरीरदेहातिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन संज्ञाम् ।
एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः क्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥
ययातिरुवाच ।
वायुः समुत्कर्षति गर्भयोनि- मृतौ रेतः पुष्पफलानुपृक्तम् ।
स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम् ॥
स जायमानो विगृहीतमात्रः संज्ञामधिष्ठाय ततो मनुष्यः ।
स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च ॥
घ्राणेन गन्धं जिह्वयाऽथो रसं च त्वचा स्पर्शं मनसा वेदभावम् ।
इत्यष्टकेहोपहितं हि विद्धि महात्मनः प्राणभृतः शरीरे ॥
अष्टक उवाच ।
यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा ।
अभावभूतः स विनाशमेत्य केनात्मानं चेतयते परस्तात् ॥
ययातिरुवाच ।
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा पुरोधाय सुकृतं दुष्कृतं वा ।
अन्यां योनिं पवनाग्रानुसारी हित्वा देहं भजते राजसिंह ॥
पुण्यां योनिं पुण्यकृतो व्रजन्ति पापां योनिं पापकृतो व्रजन्ति ।
कीटाः पतङ्गाश्च भवन्ति पापा न मे विवक्षास्ति महानुभाव ॥
चतुष्पदा द्विपदाः षट्पदाश्च तथाभूता गर्भभूता भवन्ति ।
आख्यातमेतन्निखिलेन सर्वं भूयस्तु किं पृच्छसि राजसिंह ॥
अष्टक उवाच ।
किंस्वित्कृत्वा लभते तात लोका- न्मर्त्यः श्रेष्ठांस्तपसा विद्यया च ।
तन्मे पृष्टः शंस सर्वं यथाव- च्छुभाँल्लोकान्येन गच्छेत्क्रमेण ॥
ययातिरुवाच ।
तपश्च दानं च शमो दमश्च ह्रीरार्जवं सर्वभूतानुकम्पा ।
स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम् । नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः ॥
अधीयानः पण्डितंमन्यमानो यो विद्यया हन्ति यशः परेषाम् ।
तस्यान्तवन्तश्च भवन्ति लोका न चास्य तद्ब्रह्म फलं ददाति ॥
चत्वारि कर्माण्यभयङ्कराणि भयं प्रयच्छन्त्ययथाकृतानि ।
मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥
न मानमान्यो मुदमाददीत न सन्तापं प्राप्नुयाच्चावमानात् ।
सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते ॥
इति दद्यामिति यज इत्यदीय इति व्रतम् ।
इत्येतानि भयान्याहुस्तानि वर्ज्यानि सर्वशः ॥
ये चाश्रयं वेदयन्ते पुराणं मनीषिणो मानसमार्गरुद्धम् ।
तन्निःश्रेयस्तेन संयोगमेत्य परां शान्तिं प्रत्युः प्रेत्य चेह ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥

1-84-1 कार्तयुगप्रधाना कृतयुगे भवाः कार्तयुगा अत्यन्तनिष्पापास्तेषां मुख्यतमेत्यर्थः ॥ 1-84-3 तत्र क्षीणपुण्याः कथं किंप्रकारा भवन्ति । ततश्च किंविशिष्टाः कीदृसाः सन्तः कस्य धाम स्थानं यान्ति कं लोकं यान्तीत्यर्थः ॥ 1-84-4 तत्र कस्य धामेत्यस्योत्तरं इमं भौममिति । पुण्ये क्षीणे सति नरकं नरकोपमं बौमं भूसम्बन्धिनं इमं लोकं प्रति पतन्ति । कथं भवन्तीत्यस्योत्तरं ते कङ्केति । कङ्काश्च गोमायवश्च तेषां बलं सङ्घः तस्या शनार्थे अशनविषयीभूतैतद्देहरक्षणार्थे बहुधा प्रव्रजन्ति पर्यटन्ति ॥ 1-84-5 तस्मादेतत्काम्यकर्म दुष्टं विषिद्धं गर्हणीयम् ॥ 1-84-6 ननु कङ्कादिभक्षितस्य कथं स्वरूपसत्ता कथं वा शरीरान्तरेणाविर्भाव इति देहात्मवादमाश्रित्य शङ्कते । भौमो नरकश्च क इति पृच्छति च । यदा तु तानिति ॥ 1-84-7 ऊर्ध्वं देहात् देहक्षयानन्तरम् । जृम्भमाणात्प्रबुद्धात्कर्मणो हेतोः व्यक्तं स्थूलं शरीरं अनु अनुप्रविश्य जीवाः संचरन्ति कर्मफलानि भुञ्जते इति यत् तदेव भौमो नरकः । कुतोऽस्य नरकत्वमत आह । नावेक्षन्ते वर्षपूगाननेकान् यस्मादत्र पतिता गतं वयो न बुध्यन्ते कर्मभूमिं प्राप्यापि स्वहिताय न यतन्तेऽत इत्यर्थः । एतेन कङ्कादिभक्षितस्यापि सत्वं देहयोगश्चास्तीत्युक्तम् ॥ 1-84-8 षष्टिं सहस्राण्यशीतिं च सहस्राणि परिवत्सराणि व्योम्नि स्वर्गे स्थित्वा पतन्ति । दारादयो भौमा राक्षसाः । पातं भूमिस्थितिं प्रपततः अनुभवतः ॥ 1-84-9 यत् यान् एनसः पापाद्धेतोः पततः स्वर्गाह्यवमानान् ते राक्षसास्तुदन्ति ते पुरुषाः कथं भवन्ति प्रपातभ्रष्टा इव कथं न शीर्यन्ते । कथं वा आभवन्ति इन्द्रियादिमन्तो भवन्ति । कथं वा गर्भत्वं प्राप्नुवन्तीति प्रश्नत्रयम् ॥ 1-84-10 रेतः कर्तृ । अस्रं स्त्रीरजः कर्मभूतं अन्वेति । तद्द्वयं पुष्पफलादिभावेनानुपृक्तं कललादिरूपं भवति । तत् आहारादिवत्कथं न जीर्यत इत्यत आह । पुरुषेणेति । ईश्वरेणेत्यर्थः । रजः तदुपलक्षितान् धातून् । समुपैति दुःखादीनीति शेषः ॥ 1-84-11 मात्रुदरपर्यन्तं प्रवेशक्रममाह । वनस्पतीति ॥ 1-84-12 नरयोनिमापद्यमानो जीवः स्वेन कायेन जैवेनैव रूपेण गर्भं मातुरुदरं याति उत तत्र प्रवेष्टुमन्यद्वपुर्विदधाति ॥ 1-84-13 शरीरदेहातिसमुच्छ्रयं मातुः शरीरे गर्भदेहस्यातिसमुच्छ्रयं वृद्धिम् । चक्षुःश्रोत्रे इतीन्द्रियमात्रोपलक्षणम् ॥ 1-84-14 देहसमुच्छ्रयक्रममाह । वायुरिति । ऋतौ तत्काले वायुः गर्भयोनिं अस्रं प्रति रेतः समुत्कर्षति प्रापयति । ततश्च पुष्पफलानुपृक्तं कललादिरूपगर्भं सएव तत्र गर्भाशये क्रमेण संवर्धयति । कथंभूतः तन्मात्रे वृद्धिमात्रएव कृताधिकारः समर्थः ॥ 1-84-15 स जीवः विगृहीता मात्रा सूक्ष्मशरीरं येन सः ॥ 1-84-16 श्रोत्रादिकं इत्युपहितं संबद्धं विद्धि ॥ 1-84-17 देहात्मवादेन पुनः शङ्कते । यः संस्थित इति । परस्तात् आत्मानं केन कारणेन चेतयते जानाति । देहातिरिक्तजीवाभावादिति बावः ॥ 1-84-18 जीवो देहाद्भिन्नः पूर्वदेहं त्यक्त्वा सूक्ष्मदेहेन देहान्तरं प्राप्नोतीत्याह । हित्वेति । पवनाग्रानुसारी आतिवाहिकपवनानुसारी ॥ 1-84-19 कर्मानुसारेण योनिप्राप्तिमाह । पुण्यामिति ॥ 1-84-21 किंस्वित्कृत्वेति सामान्यप्रश्नः । तपसा विद्ययेति विशेषप्रश्नः । चो वार्थे ॥ 1-84-22 पुंसः पुमांसः ॥ 1-84-23 दर्पवता कृतमध्ययनादि न मोक्षोपयोगि नापि स्वर्गदं प्रत्युत भयावहमित्याह द्वाभ्याम् । अधीयान इति ॥ 1-84-25 अतो मानापमानादिद्वन्द्वसहिष्णुर्भवेदित्याह । न मानमान्य इति ॥ 1-84-26 इति दद्यामिति दाम्भिकस्य स्वधर्मप्रकाशनाभिनयः ॥ 1-84-27 मानसमार्गरुद्धं ध्यानविषयीभूतं । वेदयन्ते जानन्ति । तद्वेदनं निःश्रेयः सुखसाधनम् ॥ चतुरशीतितमोऽध्यायः ॥ 84 ॥