अध्यायः 090
मृगयार्थं दुष्यन्तस्यारण्यगमनम् ॥ 1 ॥
जनमेजय उवाच । 
					संभवं भरतस्याहं चरितं च महामतेः ।
						शकुन्तलायाश्चोत्पत्तिं श्रोतुमिच्छामि तत्त्वतः ॥
					दुष्यन्तेन च वीरेण यथा प्राप्ता शकुन्तला ।
						तं वै पुरुषसिंहस्य भगवन्विस्तरं त्वहम् ॥
					श्रोतुमिच्छामि तत्त्वज्ञ सर्वं मतिमतां वर ।
						
						वैशंपायन उवाच ।
						स कदाचिन्महाबाहुः प्रभूतबलवाहनः ॥
						
					वनं जगाम गहनं हयनागशतैर्वृतः ।
						बलेन चतुरङ्गेण वृतः परमवल्गुना ॥
					खड्गशक्तिधरैर्वीरैर्गदामुसलपाणिभिः ।
						प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः ॥
					सिंहनादैश्च योधानां शङ्खदुनदुभिनिःस्वनैः ।
						रथनेमिस्वनैश्चैव सनागवरबृंहितैः ॥
					नानायुधधरैश्चापि नानावेषधरैस्तथा ।
						ह्रेषितस्वनमिश्रैश्च क्ष्वेडितास्फोटितस्वनैः ॥
					आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे ।
						प्रासादवरशृङ्गस्थाः परया नृपशोभया ॥
					ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् ।
						शक्रोपमममित्रघ्नं परवारणवारणम् ॥
					पश्यन्तः स्त्रीगणास्तत्र वज्रपाणिं स्म मेनिरे ।
						अयं स पुरुषव्याघ्रो रणे वसुपराक्रमः ॥
					यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः ।
						इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपं ॥
					तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि ।
						तत्रतत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः ॥
					निर्ययौ परमप्रीत्या वनं मृगजिघांसया ।
						तं देवराजप्रतिमं मत्तवारणधूर्गतम् ॥
					द्विजक्षत्रियविट्शूद्रा निर्यान्तमनुजग्मिरे ।
						ददृशुर्वर्धमानास्ते आशीर्भिश्च जयेन च ॥
					सुदूरमनुजग्मुस्तं पौरजानपदास्तथा ।
						न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह ॥
					सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः ।
						महीमापूरयामास घोषेण त्रिदिवं तथा ॥
					स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् ।
						बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम् ॥
					विषमं पर्वतस्रस्तै रश्मभिश्च समावृतम् ।
						निर्जलं निर्मनुष्यं च बहुयोजनमायतम् ॥
					मृगसिंहैर्वृतं घोरैरन्यैश्चापि वनेचरैः ।
						तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः ॥
					लोडयामास दुष्यन्तः सूदयन्विविधान्मृगान् ।
						बाणगोचरसंप्राप्तांस्तत्र व्याघ्रगणान्बहून् ॥
					पातयामास दुष्यन्तो निर्बिभेद च सायकैः ।
						दूरस्थान्सायकैः कांश्चिदभिनत्स नराधिपः ॥
					अभ्याशमागतांश्चान्यान्खड्गेन निरकृन्तत ।
						कांश्चिदेणान्समाजघ्ने शक्त्या शक्तिमतां वरः ॥
					गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः ।
						तोमरैरसिभिश्चापि गदामुसलकम्पनैः ॥
					चचार स विनिघ्नन्वै वन्यांस्तत्र मृगद्विजान् ।
						राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः ॥
					लोड्यमानं महारण्यं तत्यजुः स्म मृगाधिपाः ।
						तत्र विद्रुतयूथानि हतयूथपतीनि च ॥
					मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः ।
						शुष्काश्चापि नदीर्गत्वा जलनैराश्यकर्शिताः ॥
					व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः ।
						क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि ॥
					केचित्तत्र नरव्याघ्रैरभक्ष्यन्त बुभुक्षितैः ।
						केचिदग्निमथोत्पाद्य संसाध्य च वनेचराः ॥
					भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा ।
						तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः ॥
					संकोच्याग्रकरान्भीताः प्राद्रवन्ति स्म वेगिताः ।
						शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु ॥
					वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् ।
							तद्वनं बलमेघेन शरधारेण संवृतम् ।
						
						व्यरोचत मृगाकीर्णं राज्ञा हतमृगाधिपम् ॥ ॥
					इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि नवतितमोऽध्यायः ॥ 90 ॥
1-90-9 परवारणवारणं शत्रगजानां निवारकम् ॥ 1-90-13 धर्गतं स्कन्धारूढम् ॥ 1-90-28 संसाध्य पाकादिना संस्कृत्य ॥ 1-90-29 प्रकुट्य चूर्णीकृत्य । गजा वनगजाः ॥ नवतितमोऽध्यायः ॥ 90 ॥
