अध्यायः 095
शकुन्तलायाः पुत्रोत्पत्तिः ॥ 1 ॥ तस्य सर्वदमनेतिनामप्राप्तिः ॥ 2 ॥
वैशंपायन उवाच । 
					प्रतिज्ञाय च दुष्यन्ते प्रतियाते दिने दिने ।
							`गर्भश्च ववृधे तस्यां राजपुत्र्यां महात्मनः ॥'
						
					शकुन्तला चिन्तयन्ती राजानं कार्यगौरवात् ।
						दिवारात्रमनिद्रैव स्नानभोजनवर्जिता ॥
					राजप्रेषणिका विप्राश्चतुरङ्गबलान्विताः ।
						अद्य श्वो वा परश्वो वा समायान्तीति निस्चिता ॥
					दिनान्पक्षानृतून्मासानयनानि च सर्वशः ।
						गण्यमानानि वर्षाणि व्यतीयुस्त्रीणि भारत ॥
					त्रिषु वर्षेषु पूर्णेषु ऋषेर्वचनगौरवात् ।
						ऋषिपत्न्यः सुबहुशो हेतुमद्वाक्यमब्रुवन् ॥
						ऋषिपत्न्य ऊचुः । 
					शृणु भद्रे लोकवृत्तं श्रुत्वा यद्रोचते तव ।
						तत्कुरुष्व हितं देवि नावमान्यं गुरोर्वचः ॥
					देवानां दैवतं विष्णुर्विप्राणामग्निर्ब्रह्म च ।
						नारीणां दैवतं भर्ता लोकानां ब्राह्मणो गुरुः ॥
					सूतिकाले प्रसूष्वेति भगवांस्ते पिताऽब्रवीत् ।
						करिष्यामीति कर्तव्यं तदा ते सुकृतं भवेत् ॥
						वैशंपायन उवाच । 
					पत्नीनां वचनं श्रुत्वा साधु साध्वित्यचिन्तयत् ।'
							गर्भं सुषाव वामोरूः कुमारममितौजसम् ॥
						
					त्रिषु वर्षेषु पूर्णेषु प्राजायत शकुन्तला ।
						रूपौदार्यगुणोपेतं दौष्यन्तिं जनमेजय ॥
					`जाते' तस्मिन्नन्तरिक्षात्पुष्पवृष्टिः पपात ह ।
						देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥
					गायद्भिर्मधुरं तत्र देवैः शक्रोऽभ्युवाच ह ।
						शकुन्तले तव सुतश्चक्रवर्ती भविष्यति ॥
					बलं तेजश्च रूपं च न समं भुवि केनचित् ।
						आहर्ता वाजिमेधस्य शतसङ्ख्यस्य पौरवः ॥
					अनेकारपि साहस्रै राजसूयादिभिर्मखैः ।
						स्वार्थं ब्राह्मणसात्कृत्वा दक्षिणाममितां ददत् ॥
					देवतानां वचः श्रुत्वा कण्वाश्रमनिवासिनः ।
						सभाजयन्तः कण्वस्य सुतां सर्वे महर्षयः ॥
					शकुन्तला च तच्छ्रुत्वा परं हर्षमवाप सा ।
							द्विजानाहूय मुनिभिः सत्कृत्य च महायशाः ।'
						
					जातकर्मादिसंस्कारं कण्वः पुण्यवतां वरः ।
						तस्याथ कारयामास वर्धमानस्य चासकृत् ॥
					यथाविधि यथान्यायं क्रियाः सर्वास्त्वकारयत् ।
						दन्तैः शुक्लैः शिखरिभिःसिंहसंहननोऽभवत् ॥
					चक्राङ्कितकरः श्रीमान्स्वयं विष्णुरिवापरः ।
							`चतुष्किष्कुर्महातेजा महामूर्धा महाबलः ॥'
						
					कुमारो देवगर्भाभः स तत्राशु व्यवर्धत ।
						`ऋषेर्भयात्तु दुष्यन्तः स्मरन्नैवाह्वयत्तदा ॥
					गते काले तु महति न सस्मार तपोधनाम् ।'
							षड्वर्षेषु ततो बालः कण्वाश्रमपदं प्रति ॥
						
					व्याघ्रान्सिंहान्वराहांश्च वृकांश्च महिषांस्तथा ।
						`ऋक्षांश्चाभ्यहनद्व्यालान्पद्भ्यामाश्रमपीडकान् ॥
					बलाद्भुजाभ्यां संगृह्य बलवान्संनियम्य च ।'
							बद्ध्वा वृक्षेषु दौष्यन्तिराश्रमस्य समन्ततः ॥
						
					आरुरोह द्रुमांश्चैव क्रीडन्स्म परिधावति ।
						`वनं च लोडयामास सिंहव्याघ्रगणैर्वृतम् ॥
					ततश्च राक्षसान्सर्वान्पिशाचांश्च रिपून्रणे ।
						मुष्टियुद्धेन तान्हत्वा ऋषीनाराधयत्तदा ॥
					कश्चिद्दितिसुतस्तं तु हन्तुकामो महाबलः ।
						वध्यमानांस्तु दैतेयानमर्षी तं समभ्ययात् ॥
					तमागतं प्रहस्यैव बाहुभ्यां परिगृह्य च ।
						दृढं चाबध्य बाहुभ्यां पीडयामास तं तदा ॥
					मर्दितो न शशाकास्मान्मोचितुं बलवत्तया ।
						प्राक्रोशद्भैरवं तत्र द्वारेभ्यो निःसृतं त्वसृक् ॥
					तेन शब्देन वित्रस्ता मृगाः सिंहादयो गणाः ।
						सुस्रुवुश्च शकृन्मूत्रमाश्रमस्थाश्च सुस्रुवुः ॥
					निरसुं जानुभिः कृत्वा विससर्ज च सोऽपतत् ।
						तद्दृष्ट्वा विस्मयं जग्मुः कुमारस्य विचेष्टितम् ॥
					नित्यकालं वध्यमाना दैतेया राक्षसैः सह ।
							कुमारस्य भयादेव नैव जग्मुस्तदाश्रमम् ॥'
						
					ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः ।
						कण्वेन सहिताः सर्वे दृष्ट्वा कर्मातिमानुषम् ॥
					अस्त्वयं सर्वदमनः सर्वं हि दमयत्यसौ ।
						स सर्वदमनो नाम कुमारः समपद्यत ॥
					विक्रमेणौजसा चैव बलेन च समन्वितः ।
						`अप्रेषयति दुष्यन्ते महिष्यास्तनयस्य च ॥
					पाण्डुभावपरीताङ्गीं चिन्तया समभिप्लुताम् ।
						लम्बालकां कृशां दीनां तथा मलिनवाससम् ॥
					`शकुन्तलां च संप्रेक्ष्य प्रदध्यौ स मुनिस्तदा ।
						शास्त्राणि सर्ववेदाश्च द्वादशाब्दस्य चाभवन्' ॥ ॥
					इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चनवतितमोऽध्यायः ॥ 95 ॥
